संस्कृत सूची|शास्त्रः|आयुर्वेदः|अष्टांग हृदयम्|सूत्रस्थान| अध्याय १५ सूत्रस्थान अध्याय ०१ अध्याय ०२ अध्याय ०३ अध्याय ०४ अध्याय ०५ अध्याय ०६ अध्याय ०७ अध्याय ०८ अध्याय ०९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० सूत्रस्थान - अध्याय १५ आयुर्वेदातील अष्टांग हृदय प्रसिद्ध ग्रंथ आहे. याचे रचनाकार आहेत, वाग्भट. या ग्रंथाचा रचनाकाल ई.पू.५०० ते ई.पू.२५० मानतात. या ग्रंथात औषधि आणि शल्यचिकित्सा दोन्हींचाही समावेश आहे. Tags : ashtanga hridayamvagbhatVedअष्टांग हृदयम्आयुर्वेदवाग्भट अध्याय १५ Translation - भाषांतर मदन-मधुक-लम्बा-निम्ब-बिम्बी-विशाला-त्रपुस-कुटज-मूर्वा-देवदाली-कृमिघ्नम् ।विदुल-दहन-चित्राः कोशवत्यौ करञ्जः कण-लवण-वचैला-सर्षपाश् छर्दनानि ॥१॥निकुम्भ-कुम्भ-त्रि-फला-गवाक्षी-स्नुक्-शङ्खिनी-नीलिनि-तिल्वकानि ।शम्याक-कम्पिल्लक-हेमदुग्धा दुग्धं च मूत्रं च विरेचनानि ॥२॥मदन-कुटज-कुष्ठ-देवदाली-मधुक-वचा-दश-मूल-दारु-रास्नाः ।यव-मिशि-कृतवेधनं कुलत्था मधु लवणं त्रिवृता निरूहणानि ॥३॥१५.३ - यव-मिशि-कृतवेधनं कुलत्थो वेल्लापामार्ग-व्योष-दार्वी-सुराला बीजं शैरीषं बार्हतं शैग्रवं च ।सारो माधूकः सैन्धवं तार्क्ष्य-शैलं त्रुट्यौ पृथ्वीका शोधयन्त्य् उत्तमाङ्गम् ॥४॥भद्रदारु नतं कुष्ठं दश-मूलं बला-द्वयम् ।वायुं वीरतरादिश् च विदार्य्-आदिश् च नाशयेत् ॥५॥१५.५ - दश-मूलं बला-त्रयम् १५.५ - विदार्य्-आदिश् च शोधयेत् दूर्वानन्ता निम्ब-वासात्मगुप्ता गुन्द्राभीरुः शीतपाकी प्रियङ्गुः ।न्यग्रोधादिः पद्मकादिः स्थिरे द्वे पद्मं वन्यं शारिवादिश् च पित्तम् ॥६॥आरग्वधादिर् अर्कादिर् मुष्ककाद्यो ऽसनादिकः ।सुरसादिः स-मुस्तादिर् वत्सकादिर् बलास-जित् ॥७॥जीवन्ती-काकोल्यौ मेदे द्वे मुद्ग-माषपर्ण्यौ च ।ऋषभक-जीवक-मधुकं चेति गणो जीवनीयाख्यः ॥८॥विदारि-पञ्चाङ्गुल-वृश्चिकाली-वृश्चीव-देवाह्वय-शूर्पपर्ण्यः ।कण्डूकरी जीवन-ह्रस्व-संज्ञे द्वे पञ्चके गोपसुता त्रिपादी ॥९॥१५.९ - वृश्चीव-देवा-द्वय-शूर्पपर्ण्यः १५.९ - कण्डूकरी गोपसुता त्रिपादी विदार्य्-आदिर् अयं हृद्यो बृंहणो वात-पित्त-हा ।शोष-गुल्माङ्ग-मर्दोर्ध्व-श्वास-कास-हरो गणः ॥१०॥१५.१० - शोष-गुल्माङ्ग-सादोर्ध्व- शारिवोशीर-काश्मर्य-मधूक-शिशिर-द्वयम् ।यष्टी परूषकं हन्ति दाह-पित्तास्र-तृड्-ज्वरान् ॥११॥पद्मक-पुण्ड्रौ वृद्धि-तुगर्द्ध्यः शृङ्ग्य् अमृता दश जीवन-संज्ञाः ।स्तन्य-करा घ्नन्तीरण-पित्तं प्रीणन-जीवन-बृंहण-वृष्याः ॥१२॥परूषकं वरा द्राक्षा कट्फलं कतकात् फलम् ।राजाह्वं दाडिमं शाकं तृण्-मूत्रामय-वात-जित् ॥१३॥अञ्जनं फलिनी मांसी पद्मोत्पल-रसाञ्जनम् ।सैला-मधुक-नागाह्वं विषान्तर्-दाह-पित्त-नुत् ॥१४॥१५.१४ - विषान्तर्-दाह-पित्त-जित् १५.१४ - विषान्तर्-दाह-पित्त-हृत् पटोल-कटु-रोहिणी-चन्दनं मधुस्रव-गुडूचि-पाठान्वितम् ।निहन्ति कफ-पित्त-कुष्ठ-ज्वरान् विषं वमिम् अ-रोचकं कामलाम् ॥१५॥गुडूची-पद्मकारिष्ट-धानका-रक्त-चन्दनम् ।पित्त-श्लेष्म-ज्वर-च्छर्दि-दाह-तृष्णा-घ्नम् अग्नि-कृत् ॥१६॥१५.१६ - धान्यका-रक्त-चन्दनम् १५.१६ - धान्यकं रक्त-चन्दनम् १५.१६ - धनिका-रक्त-चन्दनम् आरग्वधेन्द्रयव-पाटलि-काकतिक्ता-निम्बामृता-मधुरसा-स्रुव-वृक्ष-पाठाः ।भूनिम्ब-सैर्यक-पटोल-करञ्ज-युग्म-सप्तच्छदाग्नि-सुषवी-फल-बाण-घोण्टाः ॥१७॥आरग्वधादिर् जयति च्छर्दि-कुष्ठ-विष-ज्वरान् ।कफं कण्डूं प्रमेहं च दुष्ट-व्रण-विशोधनः ॥१८॥१५.१८ - मेदोदर-विशोधनः असन-तिनिश-भूर्ज-श्वेतवाह-प्रकीर्याः खदिर-कदर-भण्डी-शिंशिपा-मेषशृङ्ग्यः ।त्रि-हिम-तल-पलाशा जोङ्गकः शाक-शालौ क्रमुक-धव-कलिङ्ग-च्छागकर्णाश्वकर्णाः ॥१९॥असनादिर् विजयते श्वित्र-कुष्ठ-कफ-क्रिमीन् ।पाण्डु-रोगं प्रमेहं च मेदो-दोष-निबर्हणः ॥२०॥१५.२० - श्वित्र-कुष्ठ-वमि-क्रिमीन् वरुण-सैर्यक-युग्म-शतावरी-दहन-मोरट-बिल्व-विषाणिकाः ।द्वि-बृहती-द्वि-करञ्ज-जया-द्वयं बहलपल्लव-दर्भ-रुजाकराः ॥२१॥१५.२१ - वरण-सैर्यक-युग्म-शतावरी- वरुणादिः कफं मेदो मन्दाग्नि-त्वं नियच्छति ।आढ्य-वातं शिरः-शूलं गुल्मं चान्तः स-विद्रधिम् ॥२२॥१५.२२ - वरणादिः कफं मेदो १५.२२ - अधो-वातं शिरः-शूलं ऊषकस् तुत्थकं हिङ्गु कासीस-द्वय-सैन्धवम् ।स-शिला-जतु कृच्छ्राश्म-गुल्म-मेदः-कफापहम् ॥२३॥१५.२३ - गुल्म-मेह-कफापहम् वेल्लन्तरारणिक-बूक-वृषाश्मभेद-गोकण्टकेत्कट-सहाचर-बाण-काशाः ।वृक्षादनी-नल-कुश-द्वय-गुण्ठ-गुन्द्रा-भल्लूक-मोरट-कुरण्ट-करम्भ-पार्थाः ॥२४॥१५.२४ - गोकण्टकोत्कट-सहाचर-बाण-काशाः १५.२४ - वृक्षादनी-नल-कुश-द्वय-गुन्थ-गुन्द्रा- १५.२४ - वृक्षादनी-नल-कुश-द्वय-गुञ्छ-गुन्द्रा- १५.२४ - वृक्षादनी-नल-कुश-द्वय-गुच्छ-गुन्द्रा- वर्गो वीरतराद्यो ऽयं हन्ति वात-कृतान् गदान् ।अश्मरी-शर्करा-मूत्र-कृच्छ्राघात-रुजा-हरः ॥२५॥१५.२५ - कृच्छ्राघात-रुजापहः लोध्र-शाबरक-लोध्र-पलाशा जिङ्गिनी-सरल-कट्फल-युक्ताः ।कुत्सिताम्ब-कदली-गतशोकाः सैलवालु-परिपेलव-मोचाः ॥२६॥१५.२६ - लोध्र-शाबर-कदम्ब-पलाशा १५.२६ - झिञ्झिणी-सरल-कट्फल-युक्ताः एष लोध्रादिको नाम मेदः-कफ-हरो गणः ।योनि-दोष-हरः स्तम्भी वर्ण्यो विष-विनाशनः ॥२७॥अर्कालर्कौ नागदन्ती विशल्या भार्गी रास्ना वृश्चिकाली प्रकीर्या ।प्रत्यक्पुष्पी पीततैलोदकीर्या श्वेता-युग्मं तापसानां च वृक्षः ॥२८॥अयम् अर्कादिको वर्गः कफ-मेदो-विषापहः ।कृमि-कुष्ठ-प्रशमनो विशेषाद् व्रण-शोधनः ॥२९॥१५.२९ - अयम् अर्कादिको नाम सुरस-युग-फणिज्जं कालमाला विडङ्गं खरबुस-वृषकर्णी-कट्फलं कासमर्दः ।क्षवक-सरसि-भार्गी-कार्मुकाः काकमाची कुलहल-विषमुष्टी भूस्तृणो भूतकेशी ॥३०॥१५.३० - खरबुक-वृषकर्णी-कट्फलाः कासमर्दः १५.३० - खरबुस-वृषकर्णी-कट्फलाः कासमर्दः १५.३०ब्च् खरमुख-वृषकर्णी-कट्फलं कासमर्दः १५.३० - क्षवक-सुरसि-भार्गी-कार्मुकाः काकमाची १५.३० - क्षवक-सुरसि-भार्गी-कामुकाः काकमाची १५.३० - क्षवक-सरसि-भार्गी-कामुकाः काकमाची १५.३० - क्षवक-स्वरसि-भार्गी-कार्मुकाः काकमाची सुरसादिर् गणः श्लेष्म-मेदः-कृमि-निषूदनः ।प्रतिश्याया-रुचि-श्वास-कास-घ्नो व्रण-शोधनः ॥३१॥मुष्कक-स्नुग्-वरा-द्वीपि-पलाश-धव-शिंशिपाः ।गुल्म-मेहाश्मरी-पाण्डु-मेदो-ऽर्शः-कफ-शुक्र-जित् ॥३२॥१५.३२ - पलाश-धव-शिंशिपम् वत्सक-मूर्वा-भार्गी-कटुका मरीचं घुणप्रिया च गण्डीरम् ।एला पाठाजाजी कट्वङ्ग-फलाजमोद-सिद्धार्थ-वचाः ॥३३॥जीरक-हिङ्गु-विडङ्गं पशुगन्धा पञ्च-कोलकं हन्ति ।चल-कफ-मेदः-पीनस-गुल्म-ज्वर-शूल-दुर्-नाम्नः ॥३४॥१५.३४ - पशुगन्धा पञ्च-कोलकं घ्नन्ति वचा-जलद-देवाह्व-नागरातिविषाभयाः ।हरिद्रा-द्वय-यष्ट्य्-आह्व-कलशी-कुटजोद्भवाः ॥३५॥वचा-हरिद्रादि-गणाव् आमातीसार-नाशनौ ।मेदः-कफाढ्य-पवन-स्तन्य-दोष-निबर्हणौ ॥३६॥१५.३६ - आमातीसार-पाचनौ प्रियङ्गु-पुष्पाञ्जन-युग्म-पद्माः पद्माद् रजो योजनवल्ल्य् अनन्ता ।मानद्रुमो मोच-रसः समङ्गा पुन्नाग-शीतं मदनीय-हेतुः ॥३७॥१५.३७ - सारद्रुमो मोच-रसः समङ्गा १५.३७ - पुन्नाम-शीतं मदनीय-हेतुः अम्बष्ठा मधुकं नमस्करी नन्दीवृक्ष-पलाश-कच्छुराः ।लोध्रं धातकि-बिल्व-पेशिके कट्वङ्गः कमलोद्भवं रजः ॥३८॥गणौ प्रियङ्ग्व्-अम्बष्ठादी पक्वातीसार-नाशनौ ।संधानीयौ हितौ पित्ते व्रणानाम् अपि रोपणौ ॥३९॥मुस्ता-वचाग्नि-द्वि-निशा-द्वि-तिक्ता-भल्लात-पाठा-त्रि-फला-विषाख्याः ।कुष्ठं त्रुटी हैमवती च योनि-स्तन्यामय-घ्ना मल-पाचनाश् च ॥४०॥न्यग्रोध-पिप्पल-सदाफल-लोध्र-युग्मं जम्बू-द्वयार्जुन-कपीतन-सोमवल्काः ।प्लक्षाम्र-वञ्जुल-पियाल-पलाश-नन्दी-कोली-कदम्ब-विरला-मधुकं मधूकम् ॥४१॥१५.४१ - न्यग्रोध-पिप्पल-सदाफल-लोध्र-युग्म- १५.४१ - जम्बू-द्वयार्जुन-कपीतन-सोमवल्काः न्यग्रोधादिर् गणो व्रण्यः संग्राही भग्न-साधनः ।मेदः-पित्तास्र-तृड्-दाह-योनि-रोग-निबर्हणः ॥४२॥१५.४२ - न्यग्रोधादिर् गणो वर्ण्यः १५.४२ - योनि-दोष-निबर्हणः एला-युग्म-तुरुष्क-कुष्ठ-फलिनी-मांसी-जल-ध्यामकं ॥४३अ ॥स्पृक्का-चोरक-चोच-पत्त्र-तगर-स्थौणेय-जाती-रसाः ॥४३ब् ॥१५.४३ - स्पृक्का-चोरक-चोच-पत्त्र-तगर-स्थौणेय-जाती-रसाः शुक्तिर् व्याघ्रनखो ऽमराह्वम् अगुरुः श्रीवासकः कुङ्कुमं ॥४३च् ॥१५.४३ - शुक्तिर् व्याघ्रनखो ऽमराह्वम् अगुरुः श्रीवासकं कुङ्कुमं १५.४३ - शुक्ति-व्याघ्रनखौ सुराह्वम् अगुरुः श्रीवेष्टकः कुङ्कुमं चण्डा-गुग्गुलु-देव-धूप-खपुराः पुन्नाग-नागाह्वयम् ॥४३द् ॥एलादिको वात-कफौ विषं च विनियच्छति ।वर्ण-प्रसादनः कण्डू-पिटिका-कोठ-नाशनः ॥४४॥१५.४४ - वर्ण्यः प्रसादनः कण्डू- श्यामा-दन्ती-द्रवन्ती-क्रमुक-कुटरणा-शङ्खिनी-चर्म-साह्वा- ॥४५अ ॥१५.४५ - श्यामा-दन्ती-द्रवन्ती-क्रमुक-कुटरणी-शङ्खिनी-चर्म-साह्वा- -स्वर्णक्षीरी-गवाक्षी-शिखरि-रजनक-च्छिन्नरोहा-करञ्जाः ॥४५ब् ॥बस्तान्त्री व्याधिघातो बहल-बहु-रसस् तीक्ष्णवृक्षात् फलानि ॥४५च् ॥१५.४५ - बस्तान्त्री व्याधिघातो बहुल-बहु-रसस् तीक्ष्णवृक्षात् फलानि श्यामाद्यो हन्ति गुल्मं विषम-रुचि-कफौ हृद्-रुजं मूत्र-कृच्छ्रम् ॥४५द् ॥त्रयस्-त्रिंशद् इति प्रोक्ता वर्गास् तेषु त्व् अ-लाभतः ।युञ्ज्यात् तद्-विधम् अन्यच् च द्रव्यं जह्याद् अ-यौगिकम् ॥४६॥एते वर्गा दोष-दूष्याद्य् अपेक्ष्य कल्क-क्वाथ-स्नेह-लेहादि-युक्ताः ।पाने नस्ये ऽन्वासने ऽन्तर् बहिर् वा लेपाभ्यङ्गैर् घ्नन्ति रोगान् सु-कृच्छ्रान् ॥४७॥१५.४७ - एते वर्गा दोष-दूष्याद्य् अवेक्ष्य १५.४७ - सेकालेपैर् घ्नन्ति रोगान् सु-कृच्छ्रान् १५.४७ - स्वेदाभ्यङ्गैर् घ्नन्ति रोगान् सु-कृच्छ्रान् N/A References : N/A Last Updated : June 24, 2015 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP