TransLiteral Foundation

सूत्रस्थान - अध्याय ०२

आयुर्वेदातील अष्टांग हृदय प्रसिद्ध ग्रंथ आहे. याचे रचनाकार आहेत, वाग्भट. या ग्रंथाचा रचनाकाल ई.पू.५०० ते ई.पू.२५० मानतात. या ग्रंथात औषधि आणि शल्यचिकित्सा दोन्हींचाही समावेश आहे.


अध्याय ०२
ब्राह्मे मुहूर्त उत्तिष्ठेत् स्वस्थो रक्षार्थम् आयुषः ।
शरीर-चिन्तां निर्वर्त्य कृत-शौच-विधिस् ततः ॥१॥

अर्क-न्यग्रोध-खदिर-करञ्ज-ककुभादि-जम् ।
प्रातर् भुक्त्वा च मृद्व्-अग्रं कषाय-कटु-तिक्तकम् ॥२॥

कनीन्य्-अग्र-सम-स्थौल्यं प्रगुणं द्वा-दशाङ्गुलम् ।
भक्षयेद् दन्त-पवनं दन्त-मांसान्य् अ-बाधयन् ॥३॥

२.३ - भक्षयेद् दन्त-धवनं नाद्याद् अ-जीर्ण-वमथु-श्वास-कास-ज्वरार्दिती ।
तृष्णास्य-पाक-हृन्-नेत्र-शिरः-कर्णामयी च तत् ॥४॥

सौवीरम् अञ्जनं नित्यं हितम् अक्ष्णोस् ततो भजेत् ।
चक्षुस् तेजो-मयं तस्य विशेषाच् छ्लेष्मतो भयम् ॥५॥

२.५ - विशेषाच् छ्लेष्मणो भयम् भुक्त-वांश् च शिरः-स्नातः श्रान्तः छर्दन-नावनैः ।
रात्रौ जागरितश् चापि नाञ्ज्याज् ज्वरित एव च ॥५.१-१॥

योजयेत् सप्त-रात्रे ऽस्मात् स्रावणार्थं रसाञ्जनम् ।
ततो नावन-गण्डूष-धूम-ताम्बूल-भाग् भवेत् ॥६॥

२.६ - स्रावणार्थे रसाञ्जनम् ताम्बूलं क्षत-पित्तास्र-रूक्षोत्कुपित-चक्षुषाम् ।
विष-मूर्छा-मदार्तानाम् अ-पथ्यं शोषिणाम् अपि ॥७॥

अभ्यङ्गम् आचरेन् नित्यं स जरा-श्रम-वात-हा ।
दृष्टि-प्रसाद-पुष्ट्य्-आयुः-स्वप्न-सु-त्वक्-त्व-दार्ढ्य-कृत् ॥८॥

शिरः-श्रवण-पादेषु तं विशेषेण शीलयेत् ।
वर्ज्यो ऽभ्यङ्गः कफ-ग्रस्त-कृत-संशुद्ध्य्-अ-जीर्णिभिः ॥९॥

लाघवं कर्म-सामर्थ्यं दीप्तो ऽग्निर् मेदसः क्षयः ।
विभक्त-घन-गात्र-त्वं व्यायामाद् उपजायते ॥१०॥

वात-पित्तामयी बालो वृद्धो ऽ-जीर्णो च तं त्यजेत् ।
अर्ध-शक्त्या निषेव्यस् तु बलिभिः स्निग्ध-भोजिभिः ॥११॥

शीत-काले वसन्ते च मन्दम् एव ततो ऽन्य-दा ।
तं कृत्वानु-सुखं देहं मर्दयेच् च समन्ततः ॥१२॥

तृष्णा क्षयः प्रतमको रक्त-पित्तं श्रमः क्लमः ।
अति-व्यायामतः कासो ज्वरश् छर्दिश् च जायते ॥१३॥

व्यायाम-जागराध्व-स्त्री-हास्य-भाष्यादि-साहसम् ।
गजं सिंह इवाकर्षन् भजन्न् अति विनश्यति ॥१४॥

२.१४ - भजन् यतो ऽति नश्यति उद्वर्तनं कफ-हरं मेदसः प्रविलायनम् ।
स्थिरी-करणम् अङ्गानां त्वक्-प्रसाद-करं परम् ॥१५॥

दीपनं वृष्यम् आयुष्यं स्नानम् ऊर्जा-बल-प्रदम् ।
कण्डू-मल-श्रम-स्वेद-तन्द्रा-तृड्-दाह-पाप्म-जित् ॥१६॥

२.१६ - स्नानम् ओजो-बल-प्रदम् उष्णाम्बुनाधः-कायस्य परिषेको बलावहः ।
तेनैव तूत्तमाङ्गस्य बल-हृत्-केश-चक्षुषाम् ॥१७॥

२.१७ - तेनैव चोत्तमाङ्गस्य २.१७ - स एव चोत्तमाङ्गस्य २.१७ - स एव तूत्तमाङ्गस्य स्नानम् अर्दित-नेत्रास्य-कर्ण-रोगातिसारिषु ।
आध्मान-पीनसा-जीर्ण-भुक्त-वत्सु च गर्हितम् ॥१८॥

जीर्णे हितं मितं चाद्यान् न वेगान् ईरयेद् बलात् ।
न वेगितो ऽन्य-कार्यः स्यान् ना-जित्वा साध्यम् आमयम् ॥१९॥

सुखार्थाः सर्व-भूतानां मताः सर्वाः प्रवृत्तयः ।
सुखं च न विना धर्मात् तस्माद् धर्म-परो भवेत् ॥२०॥

भक्त्या कल्याण-मित्राणि सेवेतेतर-दूर-गः ।
हिंसा-स्तेयान् यथा-कामं पैशुन्यं परुषान्-ऋते ॥२१॥

संभिन्नालापं व्यापादम् अभिध्यां दृग्-विपर्ययम् ।
पापं कर्मेति दश-धा काय-वाङ्-मानसैस् त्यजेत् ॥२२॥

अ-वृत्ति-व्याधि-शोकार्तान् अनुवर्तेत शक्तितः ।
आत्म-वत् सततं पश्येद् अपि कीट-पिपीलिकम् ॥२३॥

अर्चयेद् देव-गो-विप्र-वृद्ध-वैद्य-नृपातिथीन् ।
वि-मुखान् नार्थिनः कुर्यान् नावमन्येत नाक्षिपेत् ॥२४॥

उपकार-प्रधानः स्याद् अपकार-परे ऽप्य् अरौ ।
संपद्-विपत्स्व् एक-मना हेताव् ईर्ष्येत् फले न तु ॥२५॥

काले हितं मितं ब्रूयाद् अ-विसंवादि पेशलम् ।
पूर्वाभिभाषी सु-मुखः सु-शीलः करुणा-मृदुः ॥२६॥

नैकः सुखी न सर्व-त्र विश्रब्धो न च शङ्कितः ।
न कञ्-चिद् आत्मनः शत्रुं नात्मानं कस्य-चिद् रिपुम् ॥२७॥

प्रकाशयेन् नापमानं न च निः-स्नेह-तां प्रभोः ।
जनस्याशयम् आलक्ष्य यो यथा परितुष्यति ॥२८॥

२.२८ - प्रकाशयेन् नावमानं तं तथैवानुवर्तेत पराराधन-पण्डितः ।
न पीडयेद् इन्द्रियाणि न चैतान्य् अति लालयेत् ॥२९॥

त्रि-वर्ग-शून्यं नारम्भं भजेत् तं चा-विरोधयन् ।
अनुयायात् प्रति-पदं सर्व-धर्मेषु मध्यमाम् ॥३०॥

नीच-रोम-नख-श्मश्रुर् निर्-मलाङ्घ्रि-मलायनः ।
स्नान-शीलः सु-सुरभिः सु-वेषो ऽन्-उल्बणोज्ज्वलः ॥३१॥

२.३१ - स्नान-शीलः स-सुरभिः धारयेत् सततं रत्न-सिद्ध-मन्त्र-महौषधीः ।
सातप-त्र-पद-त्राणो विचरेद् युग-मात्र-दृक् ॥३२॥

निशि चात्ययिके कार्ये दण्डी मौली सहाय-वान् ।
चैत्य-पूज्य-ध्वजा-शस्त-च्छाया-भस्म-तुषा-शुचीन् ॥३३॥

नाक्रामेच् छर्करा-लोष्ट-बलि-स्नान-भुवो न च ।
नदीं तरेन् न बाहुभ्यां नाग्नि-स्कन्धम् अभिव्रजेत् ॥३४॥

संदिग्ध-नावं वृक्षं च नारोहेद् दुष्ट-यान-वत् ।
ना-संवृत-मुखः कुर्यात् क्षुति-हास्य-विजृम्भणम् ॥३५॥

२.३५ - क्षुतिं हास्यं विजृम्भणम् २.३५ - क्षुत्-हास्यं च विजृम्भणम् नासिकां न विकुष्णीयान् ना-कस्माद् विलिखेद् भुवम् ।
नाङ्गैश् चेष्टेत वि-गुणं नासीतोत्कटकश् चिरम् ॥३६॥

२.३६ - ना-कस्माद् विलिखेन् महीम् २.३६ - नासीतोत्कटक-स्थितः देह-वाक्-चेतसां चेष्टाः प्राक् श्रमाद् विनिवर्तयेत् ।
नोर्ध्व-जानुश् चिरं तिष्ठेन् नक्तं सेवेत न द्रुमम् ॥३७॥

तथा चत्वर-चैत्यान्तश्-चतुष्-पथ-सुरालयान् ।
सूनाटवी-शून्य-गृह-श्मशानानि दिवापि न ॥३८॥

अ-संमार्जितम् आदर्शम् अन्-उपस्कृत-कामिनीम् ।
रजस्वलां च नेक्षेत सदा प्रातर् अ-मङ्गलम् ॥३८-१॥

सर्व-थेक्षेत नादित्यं न भारं शिरसा वहेत् ।
नेक्षेत प्रततं सूक्ष्मं दीप्ता-मेध्या-प्रियाणि च ॥३९॥

मद्य-विक्रय-संधान-दानादानानि नाचरेत् ।
पुरो-वातातप-रजस्-तुषार-परुषानिलान् ॥४०॥

अन्-ऋजुः क्षवथूद्गार-कास-स्वप्नान्न-मैथुनम् ।
कूल-च्छायां नृप-द्विष्टं व्याल-दंष्ट्रि-विषाणिनः ॥४१॥

हीनान्-आर्याति-निपुण-सेवां विग्रहम् उत्तमैः ।
संध्यास्व् अभ्यवहार-स्त्री-स्वप्नाध्ययन-चिन्तनम् ॥४२॥

शत्रु-सत्त्र-गणाकीर्ण-गणिका-पणिकाशनम् ।
गात्र-वक्त्र-नखैर् वाद्यं हस्त-केशावधूननम् ॥४३॥

तोयाग्नि-पूज्य-मध्येन यानं धूमं शवाश्रयम् ।
मद्याति-सक्तिं विश्रम्भ-स्वातन्त्र्ये स्त्रीषु च त्यजेत् ॥४४॥

आचार्यः सर्व-चेष्टासु लोक एव हि धी-मतः ।
अनुकुर्यात् तम् एवातो लौकिके ऽर्थे परीक्षकः ॥४५॥

आर्द्र-संतान-ता त्यागः काय-वाक्-चेतसां दमः ।
स्वार्थ-बुद्धिः परार्थेषु पर्याप्तम् इति सद्-व्रतम् ॥४६॥

नक्तन्-दिनानि मे यान्ति कथम्-भूतस्य संप्रति ।
दुःख-भाङ् न भवत्य् एवं नित्यं संनिहित-स्मृतिः ॥४७॥

एवं कृत्स्न-दिनं नीत्वा रात्रौ यामे गृहे गते ।
देवान् ऋषीन् गुरून् स्मृत्वा ततः शयनम् आचरेत् ॥४७-१॥

२.४७-१ - रात्रेर् यामे गते सति इत्य् आचारः समासेन यं प्राप्नोति समाचरन् ।
आयुर् आरोग्यम् ऐश्वर्यं यशो लोकांश् च शाश्वतान् ॥४८॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2015-06-24T13:48:53.0230000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

milieu

  • स्त्री. परिस्थिति 
  • आसमंत, परिस्थिति 
  • पर्यावरण 
  • स्त्री. परिस्थिती 
More meanings
RANDOM WORD

Did you know?

विनायकी आणि संकष्टी चतुर्थीबद्दल शास्त्रार्थ सांगावा.
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Status

  • Meanings in Dictionary: 717,450
  • Total Pages: 47,439
  • Dictionaries: 46
  • Hindi Pages: 4,555
  • Words in Dictionary: 325,879
  • Marathi Pages: 28,417
  • Tags: 2,707
  • English Pages: 234
  • Sanskrit Pages: 14,232
  • Other Pages: 1

Suggest a word!

Suggest new words or meaning to our dictionary!!

Our Mobile Site

Try our new mobile site!! Perfect for your on the go needs.