TransLiteral Foundation

सूत्रस्थान - अध्याय ०८

आयुर्वेदातील अष्टांग हृदय प्रसिद्ध ग्रंथ आहे. याचे रचनाकार आहेत, वाग्भट. या ग्रंथाचा रचनाकाल ई.पू.५०० ते ई.पू.२५० मानतात. या ग्रंथात औषधि आणि शल्यचिकित्सा दोन्हींचाही समावेश आहे.


अध्याय ०८
मात्राशी सर्व-कालं स्यान् मात्रा ह्य् अग्नेः प्रवर्तिका ।
मात्रां द्रव्याण्य् अपेक्षन्ते गुरूण्य् अपि लघून्य् अपि ॥१॥

गुरूणाम् अर्ध-सौहित्यं लघूनां नाति-तृप्त-ता ।
मात्रा-प्रमाणं निर्दिष्टं सुखं यावद् विजीर्यति ॥२॥

८.२ - सुखं यावद् धि जीर्यते भोजनं हीन-मात्रं तु न बलोपचयौजसे ।
सर्वेषां वात-रोगाणां हेतु-तां च प्रपद्यते ॥३॥

अति-मात्रं पुनः सर्वान् आशु दोषान् प्रकोपयेत् ।
पीड्यमाना हि वाताद्या युग-पत् तेन कोपिताः ॥४॥

८.४ - संपीड्यमाना वाताद्या आमेनान्नेन दुष्टेन तद् एवाविश्य कुर्वते ।
विष्टम्भयन्तो ऽलसकं च्यावयन्तो विषूचिकाम् ॥५॥

अधरोत्तर-मार्गाभ्यां सहसैवा-जितात्मनः ।
प्रयाति नोर्ध्वं नाधस्-ताद् आहारो न च पच्यते ॥६॥

आमाशये ऽलसी-भूतस् तेन सो ऽलसकः स्मृतः ।
विविधैर् वेदनोद्भेदैर् वाय्व्-आदि-भृश-कोपतः ॥७॥

सूचीभिर् इव गात्राणि विध्यतीति विषूचिका ।
तत्र शूल-भ्रमानाह-कम्प-स्तम्भादयो ऽनिलात् ॥८॥

पित्ताज् ज्वरातिसारान्तर्-दाह-तृट्-प्रलयादयः ।
कफाच् छर्द्य्-अङ्ग-गुरु-ता-वाक्-सङ्ग-ष्ठीवनादयः ॥९॥

विशेषाद् दुर्-बलस्याल्प-वह्नेर् वेग-विधारिणः ।
पीडितं मारुतेनान्नं श्लेष्मणा रुद्धम् अन्तरा ॥१०॥

अलसं क्षोभितं दोषैः शल्य-त्वेनैव संस्थितम् ।
शूलादीन् कुरुते तीव्रांश् छर्द्य्-अतीसार-वर्जितान् ॥११॥

८.११ - शल्य-त्वेनेव संस्थितम् सो ऽलसो ऽत्य्-अर्थ-दुष्टास् तु दोषा दुष्टाम-बद्ध-खाः ।
यान्तस् तिर्यक् तनुं सर्वां दण्ड-वत् स्तम्भयन्ति चेत् ॥१२॥

दण्डकालसकं नाम तं त्यजेद् आशु-कारिणम् ।
विरुद्धाध्यशना-जीर्ण-शीलिनो विष-लक्षणम् ॥१३॥

आम-दोषं महा-घोरं वर्जयेद् विष-संज्ञकम् ।
विष-रूपाशु-कारि-त्वाद् विरुद्धोपक्रम-त्वतः ॥१४॥

अथामम् अलसी-भूतं साध्यं त्वरितम् उल्लिखेत् ।
पीत्वा सोग्रा-पटु-फलं वार्य् उष्णं योजयेत् ततः ॥१५॥

स्वेदनं फल-वर्तिं च मल-वातानुलोमनीम् ।
नाम्यमानानि चाङ्गानि भृशं स्विन्नानि वेष्टयेत् ॥१६॥

८.१६ - मल-दोषानुलोमनीम् मदनं पिप्पली कुष्ठं वचा गौराश् च सर्षपाः ।
गुड-क्षार-समायुक्ता फल-वर्तिः प्रशस्यते ॥१६.१-१॥

विषूच्याम् अति-वृद्धायां पार्ष्ण्योर् दाहः प्रशस्यते ।
तद्-अहश् चोपवास्यैनं विरिक्त-वद् उपाचरेत् ॥१७॥

तीव्रार्तिर् अपि ना-जीर्णी पिबेच् छूल-घ्नम् औषधम् ।
आम-सन्नो ऽनलो नालं पक्तुं दोषौषधाशनम् ॥१८॥

निहन्याद् अपि चैतेषां विभ्रमः सहसातुरम् ।
जीर्णाशने तु भैषज्यं युञ्ज्यात् स्तब्ध-गुरूदरे ॥१९॥

८.१९ - व्यापत्तिः सहसातुरम् दोष-शेषस्य पाकार्थम् अग्नेः संधुक्षणाय च ।
शान्तिर् आम-विकाराणां भवति त्व् अपतर्पणात् ॥२०॥

त्रि-विधं त्रि-विधे दोषे तत् समीक्ष्य प्रयोजयेत् ।
तत्राल्पे लङ्घनं पथ्यं मध्ये लङ्घन-पाचनम् ॥२१॥

८.२१ - तत् समीक्ष्य प्रकल्पयेत् प्रभूते शोधनं तद् धि मूलाद् उन्मूलयेन् मलान् ।
एवम् अन्यान् अपि व्याधीन् स्व-निदान-विपर्ययात् ॥२२॥

चिकित्सेद् अनुबन्धे तु सति हेतु-विपर्ययम् ।
त्यक्त्वा यथा-यथं वैद्यो युञ्ज्याद् व्याधि-विपर्ययम् ॥२३॥

तद्-अर्थ-कारि वा पक्वे दोषे त्व् इद्धे च पावके ।
हितम् अभ्यञ्जन-स्नेह-पान-वस्त्य्-आदि युक्तितः ॥२४॥

८.२४ - दोषे वृद्धे च पावके ८.२४ - दोषे त्व् ऋद्धे तु पावके अ-जीर्णं च कफाद् आमं तत्र शोफो ऽक्षि-गण्डयोः ।
सद्यो-भुक्त इवोद्गारः प्रसेकोत्क्लेश-गौरवम् ॥२५॥

विष्टब्धम् अनिलाच् छूल-विबन्धाध्मान-साद-कृत् ।
पित्ताद् विदग्धं तृण्-मोह-भ्रमाम्लोद्गार-दाह-वत् ॥२६॥

८.२६ - भ्रमाम्लोद्गार-दाह-कृत् लङ्घनं कार्यम् आमे तु विष्टब्धे स्वेदनं भृशम् ।
विदग्धे वमनं यद् वा यथावस्थं हितं भवेत् ॥२७॥

८.२७ - यथावस्थं हितं भजेत् गरीयसो भवेल् लीनाद् आमाद् एव विलम्बिका ।
कफ-वातानुबद्धाम-लिङ्गा तत्-सम-साधना ॥२८॥

८.२८ - कफ-वातानुविद्धाम- अ-श्रद्धा हृद्-व्यथा शुद्धे ऽप्य् उद्गारे रस-शेषतः ।
शयीत किञ्-चिद् एवात्र सर्वश् चान्-आशितो दिवा ॥२९॥

८.२९ - सर्वश् चान्-अशितो दिवा स्वप्याद् अ-जीर्णी संजात-बुभुक्षो ऽद्यान् मितं लघु ।
विबन्धो ऽति-प्रवृत्तिर् वा ग्लानिर् मारुत-मूढ-ता ॥३०॥

८.३० - ग्लानिर् मारुत-शूल-ता अ-जीर्ण-लिङ्गं सामान्यं विष्टम्भो गौरवं भ्रमः ।
न चाति-मात्रम् एवान्नम् आम-दोषाय केवलम् ॥३१॥

द्विष्ट-विष्टम्भि-दग्धाम-गुरु-रूक्ष-हिमा-शुचि ।
विदाहि शुष्कम् अत्य्-अम्बु-प्लुतं चान्नं न जीर्यति ॥३२॥

उपतप्तेन भुक्तं च शोक-क्रोध-क्षुद्-आदिभिः ।
मिश्रं पथ्यम् अ-पथ्यं च भुक्तं समशनं मतम् ॥३३॥

८.३३ - शोक-क्रोध-क्षुधादिभिः ८.३३ - क्रोध-शोक-भयादिभिः विद्याद् अध्यशनं भूयो भुक्तस्योपरि भोजनम् ।
अ-काले बहु चाल्पं वा भुक्तं तु विषमाशनम् ॥३४॥

त्रीण्य् अप्य् एतानि मृत्युं वा घोरान् व्याधीन् सृजन्ति वा ।
काले सात्म्यं शुचि हितं स्निग्धोष्णं लघु तन्-मनाः ॥३५॥

षड्-रसं मधुर-प्रायं नाति-द्रुत-विलम्बितम् ।
स्नातः क्षुद्-वान् विविक्त-स्थो धौत-पाद-कराननः ॥३६॥

तर्पयित्वा पितॄन् देवान् अतिथीन् बालकान् गुरून् ।
प्रत्यवेक्ष्य तिरश्चो ऽपि प्रतिपन्न-परिग्रहान् ॥३७॥

समीक्ष्य सम्यग् आत्मानम् अ-निन्दन्न् अ-ब्रुवन् द्रवम् ।
इष्टम् इष्टैः सहाश्नीयाच् छुचि-भक्त-जनाहृतम् ॥३८॥

भोजनं तृण-केशादि-जुष्टम् उष्णी-कृतं पुनः ।
शाकावरान्न-भूयिष्ठम् अत्य्-उष्ण-लवणं त्यजेत् ॥३९॥

किलाट-दधि-कूचीका-क्षार-शुक्ताम-मूलकम् ।
कृश-शुष्क-वराहावि-गो-मत्स्य-महिषामिषम् ॥४०॥

८.४० - क्षार-शुक्ताम्ल-मूलकम् माष-निष्पाव-शालूक-बिस-पिष्ट-विरूढकम् ।
शुष्क-शाकानि यवकान् फाणितं च न शीलयेत् ॥४१॥

८.४१ - तिल-पिष्ट-विरूढकम् शीलयेच् छालि-गोधूम-यव-षष्टिक-जाङ्गलम् ।
सुनिषण्णक-जीवन्ती-बाल-मूलक-वास्तुकम् ॥४२॥

पथ्यामलक-मृद्वीका-पटोली-मुद्ग-शर्कराः ।
घृत-दिव्योदक-क्षीर-क्षौद्र-दाडिम-सैन्धवम् ॥४३॥

त्रि-फलां मधु-सर्पिर्भ्यां निशि नेत्र-बलाय च ।
स्वास्थ्यानुवृत्ति-कृद् यच् च रोगोच्छेद-करं च यत् ॥४४॥

बिसेक्षु-मोच-चोचाम्र-मोदकोत्कारिकादिकम् ।
अद्याद् द्रव्यं गुरु स्निग्धं स्वादु मन्दं स्थिरं पुरः ॥४५॥

विपरीतम् अतश् चान्ते मध्ये ऽम्ल-लवणोत्कटम् ।
अन्नेन कुक्षेर् द्वाव् अंशौ पानेनैकं प्रपूरयेत् ॥४६॥

आश्रयं पवनादीनां चतुर्थम् अवशेषयेत् ।
अनु-पानं हिमं वारि यव-गोधूमयोर् हितम् ॥४७॥

दध्नि मद्ये विषे क्षौद्रे कोष्णं पिष्ट-मयेषु तु ।
शाक-मुद्गादि-विकृतौ मस्तु-तक्राम्ल-काञ्जिकम् ॥४८॥

८.४८ - कोष्णं पिष्ट-मयेषु च सुरा कृशानां पुष्ट्य्-अर्थं स्थूलानां तु मधूदकम् ।
शोषे मांस-रसो मद्यं मांसे स्व्-अल्पे च पावके ॥४९॥

८.४९ - स्थूलानां च मधूदकम् ८.४९ - मांसेष्व् अल्पे च पावके व्याध्य्-औषधाध्व-भाष्य-स्त्री-लङ्घनातप-कर्मभिः ।
क्षीणे वृद्धे च बाले च पयः पथ्यं यथामृतम् ॥५०॥

८.५० - व्याध्य्-औषधाध्व-भार-स्त्री- विपरीतं यद् अन्नस्य गुणैः स्याद् अ-विरोधि च ।
अनु-पानं समासेन सर्व-दा तत् प्रशस्यते ॥५१॥

अनु-पानं करोत्य् ऊर्जां तृप्तिं व्याप्तिं दृढाङ्ग-ताम् ।
अन्न-संघात-शैथिल्य-विक्लित्ति-जरणानि च ॥५२॥

नोर्ध्व-जत्रु-गद-श्वास-कासोरः-क्षत-पीनसे ।
गीत-भाष्य-प्रसङ्गे च स्वर-भेदे च तद् धितम् ॥५३॥

प्रक्लिन्न-देह-मेहाक्षि-गल-रोग-व्रणातुराः ।
पानं त्यजेयुः सर्वश् च भाष्याध्व-शयनं त्यजेत् ॥५४॥

पीत्वा भुक्त्वातपं वह्निं यानं प्लवन-वाहनम् ॥५५अब् ॥
प्रसृष्टे विण्-मूत्रे हृदि सु-वि-मले दोषे स्व-पथ-गे ॥५५च् ॥
विशुद्धे चोद्गारे क्षुद्-उपगमने वाते ऽनुसरति ॥५५द् ॥
तथाग्नाव् उद्रिक्ते विशद-करणे देहे च सु-लघौ ॥५५ए ॥
प्रयुञ्जीताहारं विधि-नियमितं कालः स हि मतः ॥५५f ॥
८.५५fव् प्रयुञ्जीताहारं विधि-नियमितः कालः स हि मतः

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2015-06-24T13:48:56.5670000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

वाणीतिणीचा

  • Scarce and valuable; rare and precious; scanty or insufficient, and thus prized or esteemed--an article or a material in general. 
  • वि. बहुमोल ; महागाईचा ; दुर्मिळ ; नवससायासाचा . त्यांनाही वाणीतिणीची एवढीच मुलगी। -( शेक्सपियर नाटयमाला ) रोमिओजुलिएट . 
RANDOM WORD

Did you know?

मंत्रांचे वर्गीकरण कशा प्रकारे केले आहे?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Status

  • Meanings in Dictionary: 717,450
  • Total Pages: 47,439
  • Dictionaries: 46
  • Hindi Pages: 4,555
  • Words in Dictionary: 325,879
  • Marathi Pages: 28,417
  • Tags: 2,707
  • English Pages: 234
  • Sanskrit Pages: 14,232
  • Other Pages: 1

Suggest a word!

Suggest new words or meaning to our dictionary!!

Our Mobile Site

Try our new mobile site!! Perfect for your on the go needs.