संस्कृत सूची|शास्त्रः|आयुर्वेदः|अष्टांग हृदयम्|सूत्रस्थान| अध्याय ०४ सूत्रस्थान अध्याय ०१ अध्याय ०२ अध्याय ०३ अध्याय ०४ अध्याय ०५ अध्याय ०६ अध्याय ०७ अध्याय ०८ अध्याय ०९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० सूत्रस्थान - अध्याय ०४ आयुर्वेदातील अष्टांग हृदय प्रसिद्ध ग्रंथ आहे. याचे रचनाकार आहेत, वाग्भट. या ग्रंथाचा रचनाकाल ई.पू.५०० ते ई.पू.२५० मानतात. या ग्रंथात औषधि आणि शल्यचिकित्सा दोन्हींचाही समावेश आहे. Tags : ashtanga hridayamvagbhatVedअष्टांग हृदयम्आयुर्वेदवाग्भट अध्याय ०४ Translation - भाषांतर वेगान् न धारयेद् वात-विण्-मूत्र-क्षव-तृट्-क्षुधाम् ।निद्रा-कास-श्रम-श्वास-जृम्भाश्रु-च्छर्दि-रेतसाम् ॥१॥अधो-वातस्य रोधेन गुल्मोदावर्त-रुक्-क्लमाः ।वात-मूत्र-शकृत्-सङ्ग-दृष्ट्य्-अग्नि-वध-हृद्-गदाः ॥२॥स्नेह-स्वेद-विधिस् तत्र वर्तयो भोजनानि च ।पानानि वस्तयश् चैव शस्तं वातानुलोमनम् ॥२-१॥शकृतः पिण्डिकोद्वेष्ट-प्रतिश्याय-शिरो-रुजः ।ऊर्ध्व-वायुः परीकर्तो हृदयस्योपरोधनम् ॥३॥४.३ - ऊर्ध्वं वायुः परीकर्तो मुखेन विट्-प्रवृत्तिश् च पूर्वोक्ताश् चामयाः स्मृताः ।अङ्ग-भङ्गाश्मरी-वस्ति-मेढ्र-वङ्क्षण-वेदनाः ॥४॥मूत्रस्य रोधात् पूर्वे च प्रायो रोगास् तद्-औषधम् ।वर्त्य्-अभ्यङ्गावगाहाश् च स्वेदनं वस्ति-कर्म च ॥५॥अन्न-पानं च विड्-भेदि विड्-रोधोत्थेषु यक्ष्मसु ।मूत्र-जेषु तु पाने च प्राग्-भक्तं शस्यते घृतम् ॥६॥४.६ - मूत्र-जेषु च पानं तु ४.६ - मूत्र-जेषु प्रयुञ्जीत ४.६ - सर्पिषश् चावपीडकम् जीर्णान्तिकं चोत्तमया मात्रया योजना-द्वयम् ।अवपीडकम् एतच् च संज्ञितं धारणात् पुनः ॥७॥उद्गारस्या-रुचिः कम्पो विबन्धो हृदयोरसोः ।आध्मान-कास-हिध्माश् च हिध्मा-वत् तत्र भेषजम् ॥८॥शिरो-ऽर्तीन्द्रिय-दौर्बल्य-मन्या-स्तम्भार्दितं क्षुतेः ।तीक्ष्ण-धूमाञ्जनाघ्राण-नावनार्क-विलोकनैः ॥९॥प्रवर्तयेत् क्षुतिं सक्तां स्नेह-स्वेदौ च शीलयेत् ।शोषाङ्ग-साद-बाधिर्य-संमोह-भ्रम-हृद्-गदाः ॥१०॥तृष्णाया निग्रहात् तत्र शीतः सर्वो विधिर् हितः ।अङ्ग-भङ्गा-रुचि-ग्लानि-कार्श्य-शूल-भ्रमाः क्षुधः ॥११॥४.११ - कार्श्य-शूल-श्रम-भ्रमाः तत्र योज्यं लघु स्निग्धम् उष्णम् अल्पं च भोजनम् ।निद्राया मोह-मूर्धाक्षि-गौरवालस्य-जृम्भिकाः ॥१२॥४.१२ - वैवर्ण्यं च क्षुधस् तत्र ४.१२ - स्निग्धोष्णं लघु भोजनम् अङ्ग-मर्दश् च तत्रेष्टः स्वप्नः संवाहनानि च ।कासस्य रोधात् तद्-वृद्धिः श्वासा-रुचि-हृद्-आमयाः ॥१३॥शोषो हिध्मा च कार्यो ऽत्र कास-हा सु-तरां विधिः ।गुल्म-हृद्-रोग-संमोहाः श्रम-श्वासाद् विधारितात् ॥१४॥४.१४ - श्रम-श्वासा-विधारणात् हितं विश्रमणं तत्र वात-घ्नश् च क्रिया-क्रमः ।जृम्भायाः क्षव-वद् रोगाः सर्वश् चानिल-जिद् विधिः ॥१५॥४.१५च्च् जृम्भायाः क्षुति-वद् रोगाः पीनसाक्षि-शिरो-हृद्-रुङ्-मन्या-स्तम्भा-रुचि-भ्रमाः ।स-गुल्मा बाष्पतस् तत्र स्वप्नो मद्यं प्रियाः कथाः ॥१६॥विसर्प-कोठ-कुष्ठाक्षि-कण्डू-पाण्ड्व्-आमय-ज्वराः ।स-कास-श्वास-हृल्-लास-व्यङ्ग-श्वयथवो वमेः ॥१७॥गण्डूष-धूमान्-आहारा रूक्षं भुक्त्वा तद्-उद्वमः ।व्यायामः स्रुतिर् अस्रस्य शस्तं चात्र विरेचनम् ॥१८॥४.१८ - गण्डूष-धूमान्-आहारं ४.१८ - गण्डूष-धूमान्-आहारान् ४.१८ - रूक्षं भुक्त्वा तद् उद्वमेत् ४.१८ - रूक्षान् भुक्त्वा तद् उद्वमेत् स-क्षार-लवणं तैलम् अभ्यङ्गार्थं च शस्यते ।शुक्रात् तत्-स्रवणं गुह्य-वेदना-श्वयथु-ज्वराः ॥१९॥४.१९ - अभ्यङ्गार्थे च शस्यते हृद्-व्यथा-मूत्र-सङ्गाङ्ग-भङ्ग-वृद्ध्य्-अश्म-षण्ढ-ताः ।ताम्र-चूड-सुरा-शालि-वस्त्य्-अभ्यङ्गावगाहनम् ॥२०॥वस्ति-शुद्धि-करैः सिद्धं भजेत् क्षीरं प्रियाः स्त्रियः ।तृट्-शूलार्तं त्यजेत् क्षीणं विड्-वमं वेग-रोधिनम् ॥२१॥रोगाः सर्वे ऽपि जायन्ते वेगोदीरण-धारणैः ।निर्दिष्टं साधनं तत्र भूयिष्ठं ये तु तान् प्रति ॥२२॥ततश् चानेक-धा प्रायः पवनो यत् प्रकुप्यति ।अन्न-पानौषधं तस्य युञ्जीतातो ऽनुलोमनम् ॥२३॥धारयेत् तु सदा वेगान् हितैषी प्रेत्य चेह च ।लोभेर्ष्या-द्वेष-मात्सर्य-रागादीनां जितेन्द्रियः ॥२४॥यतेत च यथा-कालं मलानां शोधनं प्रति ।अत्य्-अर्थ-संचितास् ते हि क्रुद्धाः स्युर् जीवित-च्छिदः ॥२५॥दोषाः कदा-चित् कुप्यन्ति जिता लङ्घन-पाचनैः ।ये तु संशोधनैः शुद्धा न तेषां पुनर्-उद्भवः ॥२६॥४.२६ - ये तु संशोधनैः शुद्धास् ४.२६ - तेषां न पुनर्-उद्भवःच यथा-क्रमं यथा-योगम् अत ऊर्ध्वं प्रयोजयेत् ।रसायनानि सिद्धानि वृष्य-योगांश् च काल-वित् ॥२७॥४.२७ - यथा-क्रमं यथा-योग्यम् भेषज-क्षपिते पथ्यम् आहारैर् बृंहणं क्रमात् ।शालि-षष्टिक-गोधूम-मुद्ग-मांस-घृतादिभिः ॥२८॥४.२८ - मुद्ग-मांस-रसादिभिः हृद्य-दीपन-भैषज्य-संयोगाद् रुचि-पक्ति-दैः ।साभ्यङ्गोद्वर्तन-स्नान-निरूह-स्नेह-वस्तिभिः ॥२९॥तथा स लभते शर्म सर्व-पावक-पाटवम् ।धी-वर्णेन्द्रिय-वैमल्यं वृष-तां दैर्घ्यम् आयुषः ॥३०॥ये भूत-विष-वाय्व्-अग्नि-क्षत-भङ्गादि-संभवाः ।राग-द्वेष-भयाद्याश् च ते स्युर् आगन्तवो गदाः ॥३१॥४.३१ - काम-क्रोध-भायाद्याश् त्यागः प्रज्ञापराधानाम् इन्द्रियोपशमः स्मृतिः ।देश-कालात्म-विज्ञानं सद्-वृत्तस्यानुवर्तनम् ॥३२॥अथर्व-विहिता शान्तिः प्रतिकूल-ग्रहार्चनम् ।भूताद्य-स्पर्शनोपायो निर्दिष्टश् च पृथक् पृथक् ॥३३॥अन्-उत्पत्त्यै समासेन विधिर् एष प्रदर्शितः ।निजागन्तु-विकाराणाम् उत्पन्नानां च शान्तये ॥३४॥४.३४ - अन्-उत्पत्तौ समासेन शीतोद्भवं दोष-चयं वसन्ते विशोधयन् ग्रीष्म-जम् अभ्र-काले ।घनात्यये वार्षिकम् आशु सम्यक् प्राप्नोति रोगान् ऋतु-जान् न जातु ॥३५॥नित्यं हिताहार-विहार-सेवी समीक्ष्य-कारी विषयेष्व् अ-सक्तः ।दाता समः सत्य-परः क्षमा-वान् आप्तोपसेवी च भवत्य् अ-रोगः ॥३६॥ N/A References : N/A Last Updated : June 24, 2015 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP