TransLiteral Foundation

सूत्रस्थान - अध्याय १४

आयुर्वेदातील अष्टांग हृदय प्रसिद्ध ग्रंथ आहे. याचे रचनाकार आहेत, वाग्भट. या ग्रंथाचा रचनाकाल ई.पू.५०० ते ई.पू.२५० मानतात. या ग्रंथात औषधि आणि शल्यचिकित्सा दोन्हींचाही समावेश आहे.


अध्याय १४
उपक्रम्यस्य हि द्वि-त्वाद् द्वि-धैवोपक्रमो मतः ।
एकः संतर्पणस् तत्र द्वितीयश् चापतर्पणः ॥१॥

बृंहणो लङ्घनश् चेति तत्-पर्यायाव् उदाहृतौ ।
बृंहणं यद् बृहत्-त्वाय लङ्घनं लाघवाय यत् ॥२॥

देहस्य भवतः प्रायो भौमापम् इतरच् च ते ।
स्नेहनं रूक्षणं कर्म स्वेदनं स्तम्भनं च यत् ॥३॥

भूतानां तद् अपि द्वैध्याद् द्वितयं नातिवर्तते ।
शोधनं शमनं चेति द्वि-धा तत्रापि लङ्घनम् ॥४॥

यद् ईरयेद् बहिर् दोषान् पञ्च-धा शोधनं च तत् ।
निरूहो वमनं काय-शिरो-रेको ऽस्र-विस्रुतिः ॥५॥

न शोधयति यद् दोषान् समान् नोदीरयत्य् अपि ।
समी-करोति विषमान् शमनं तच् च सप्त-धा ॥६॥

पाचनं दीपनं क्षुत्-तृड्-व्यायामातप-मारुताः ।
बृंहणं शमनं त्व् एव वायोः पित्तानिलस्य च ॥७॥

बृंहयेद् व्याधि-भैषज्य-मद्य-स्त्री-शोक-कर्शितान् ।
भाराध्वोरः-क्षत-क्षीण-रूक्ष-दुर्-बल-वातलान् ॥८॥

गर्भिणी-सूतिका-बाल-वृद्धान् ग्रीष्मे ऽपरान् अपि ।
मांस-क्षीर-सिता-सर्पिर्-मधुर-स्निग्ध-वस्तिभिः ॥९॥

स्वप्न-शय्या-सुखाभ्यङ्ग-स्नान-निर्वृति-हर्षणैः ।
मेहाम-दोषाति-स्निग्ध-ज्वरोरु-स्तम्भ-कुष्ठिनः ॥१०॥

विसर्प-विद्रधि-प्लीह-शिरः-कण्ठाक्षि-रोगिणः ।
स्थूलांश् च लङ्घयेन् नित्यं शिशिरे त्व् अपरान् अपि ॥११॥

तत्र संशोधनैः स्थौल्य-बल-पित्त-कफाधिकान् ।
आम-दोष-ज्वर-च्छर्दिर्-अतीसार-हृद्-आमयैः ॥१२॥

विबन्ध-गौरवोद्गार-हृल्-लासादिभिर् आतुरान् ।
मध्य-स्थौल्यादिकान् प्रायः पूर्वं पाचन-दीपनैः ॥१३॥

एभिर् एवामयैर् आर्तान् हीन-स्थौल्य-बलाधिकान् ।
क्षुत्-तृष्णा-निग्रहैर् दोषैस् त्व् आर्तान् मध्य-बलैर् दृढान् ॥१४॥

१४.१४ - क्षुत्-तृष्णा-निग्रहैर् दोषैर् १४.१४ - क्षुत्-तृष्णा-निग्रहैर् दोषैश् १४.१४ - चार्तान् मध्य-बलैर् दृढान् समीरणातपायासैः किम् उताल्प-बलैर् नरान् ।
न बृंहयेल् लङ्घनीयान् बृंह्यांस् तु मृदु लङ्घयेत् ॥१५॥

युक्त्या वा देश-कालादि-बलतस् तान् उपाचरेत् ।
बृंहिते स्याद् बलं पुष्टिस् तत्-साध्यामय-संक्षयः ॥१६॥

वि-मलेन्द्रिय-ता सर्गो मलानां लाघवं रुचिः ।
क्षुत्-तृट्-सहोदयः शुद्ध-हृदयोद्गार-कण्ठ-ता ॥१७॥

व्याधि-मार्दवम् उत्साहस् तन्द्रा-नाशश् च लङ्घिते ।
अन्-अपेक्षित-मात्रादि-सेविते कुरुतस् तु ते ॥१८॥

अति-स्थौल्याति-कार्श्यादीन् वक्ष्यन्ते ते च सौषधाः ।
रूपं तैर् एव च ज्ञेयम् अति-बृंहित-लङ्घिते ॥१९॥

१४.१९ - रूपं तैर् एव विज्ञेयम् अति-स्थौल्यापची-मेह-ज्वरोदर-भगन्दरान् ।
कास-संन्यास-कृच्छ्राम-कुष्ठादीन् अति-दारुणान् ॥२०॥

तत्र मेदो-ऽनिल-श्लेष्म-नाशनं सर्वम् इष्यते ।
कुलत्थ-जूर्ण-श्यामाक-यव-मुद्ग-मधूदकम् ॥२१॥

मस्तु-दण्डाहतारिष्ट-चिन्ता-शोधन-जागरम् ।
मधुना त्रि-फलां लिह्याद् गुडूचीम् अभयां घनम् ॥२२॥

रसाञ्जनस्य महतः पञ्च-मूलस्य गुग्गुलोः ।
शिला-जतु-प्रयोगश् च साग्निमन्थ-रसो हितः ॥२३॥

१४.२३ - शिलाह्वस्य प्रयोगश् च विडङ्गं नागरं क्षारः काल-लोह-रजो मधु ।
यवामलक-चूर्णं च योगो ऽति-स्थौल्य-दोष-जित् ॥२४॥

व्योष-कट्वी-वरा-शिग्रु-विडङ्गातिविषा-स्थिराः ।
हिङ्गु-सौवर्चलाजाजी-यवानी-धान्य-चित्रकाः ॥२५॥

निशे बृहत्यौ हपुषा पाठा मूलं च केम्बुकात् ।
एषां चूर्णं मधु घृतं तैलं च सदृशांशकम् ॥२६॥

१४.२६ - तैलं च सदृशांशिकम् सक्तुभिः षो-डश-गुणैर् युक्तं पीतं निहन्ति तत् ।
अति-स्थौल्यादिकान् सर्वान् रोगान् अन्यांश् च तद्-विधान् ॥२७॥

हृद्-रोग-कामला-श्वित्र-श्वास-कास-गल-ग्रहान् ।
बुद्धि-मेधा-स्मृति-करं संनस्याग्नेश् च दीपनम् ॥२८॥

अति-कार्श्यं भ्रमः कासस् तृष्णाधिक्यम् अ-रोचकः ।
स्नेहाग्नि-निद्रा-दृक्-श्रोत्र-शुक्रौजः-क्षुत्-स्वर-क्षयः ॥२९॥

१४.२९ - अति-कार्श्यं भ्रमः श्वास- १४.२९ - तृष्णाधिक्यम् अ-रोचकः वस्ति-हृन्-मूर्ध-जङ्घोरु-त्रिक-पार्श्व-रुजा ज्वरः ।
प्रलापोर्ध्वानिल-ग्लानि-च्छर्दि-पर्वास्थि-भेदनम् ॥३०॥

१४.३० - च्छर्दिः-पर्वास्थि-भेदनम् वर्चो-मूत्र-ग्रहाद्याश् च जायन्ते ऽति-विलङ्घनात् ।
कार्श्यम् एव वरं स्थौल्यान् न हि स्थूलस्य भेषजम् ॥३१॥

१४.३१ - विण्-मूत्रादि-ग्रहाद्याश् च १४.३१ - न हि स्थौल्यस्य भेषजम् बृंहणं लङ्घनं वालम् अति-मेदो-ऽग्नि-वात-जित् ।
मधुर-स्निग्ध-सौहित्यैर् यत् सौख्येन च नश्यति ॥३२॥

१४.३२ - बृंहणं लङ्घनं नालम् १४.३२ - मधुर-स्नेह-सौहित्यैर् १४.३२ - यत् सौख्येन विनश्यति क्रशिमा स्थविमात्य्-अन्त-विपरीत-निषेवणैः ।
योजयेद् बृंहणं तत्र सर्वं पानान्न-भेषजम् ॥३३॥

अ-चिन्तया हर्षणेन ध्रुवं संतर्पणेन च ।
स्वप्न-प्रसङ्गाच् च कृशो वराह इव पुष्यति ॥३४॥

१४.३४ - अ-चिन्तया प्रहर्षेण १४.३४ - स्वप्न-प्रसङ्गाच् च नरो न हि मांस-समं किञ्-चिद् अन्यद् देह-बृहत्-त्व-कृत् ।
मांसाद-मांसं मांसेन संभृत-त्वाद् विशेषतः ॥३५॥

१४.३५ - संभृत-त्वाद् विशिष्यते १४.३५ - संभृत-त्वाद् बृहत्-त्व-कृत् गुरु चा-तर्पणं स्थूले विपरीतं हितं कृशे ।
यव-गोधूमम् उभयोस् तद्-योग्याहित-कल्पनम् ॥३६॥

१४.३६ - तद्-योग्य-हित-कल्पनम् १४.३६ - ततो ग्राहित-कल्पनम् दोष-गत्यातिरिच्यन्ते ग्राहि-भेद्य्-आदि-भेदतः ।
उपक्रमा न ते द्वि-त्वाद् भिन्ना अपि गदा इव ॥३७॥

१४.३७ - उपक्रमा न तु द्वि-त्वाद्

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2015-06-24T13:48:57.6700000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

वाळका

  • Dried up, shriveled, of which the moisture, succulence, or sappiness is departed. 2 Thin, meagre, lean or spare, i. e. thin or meagre originally. 
  • a  Dried up; thin, meagre. 
  • वि. १ कोरडा ; शुष्क ; नीरस ; रुक्ष ; सुका ; सुकट . २ किडकिडीत ; बारीक ; कृश ; रोडका ; काटकुळा . [ वाळणें ] 
  • वि. कोरडा , शुष्क , सुकट , सुका ; 
More meanings
RANDOM WORD

Did you know?

पत्नीला अर्धांगिनी कां म्हणतात?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Status

  • Meanings in Dictionary: 717,450
  • Total Pages: 47,439
  • Dictionaries: 46
  • Hindi Pages: 4,555
  • Words in Dictionary: 325,879
  • Marathi Pages: 28,417
  • Tags: 2,707
  • English Pages: 234
  • Sanskrit Pages: 14,232
  • Other Pages: 1

Suggest a word!

Suggest new words or meaning to our dictionary!!

Our Mobile Site

Try our new mobile site!! Perfect for your on the go needs.