संस्कृत सूची|शास्त्रः|अर्थशास्त्रम्|अध्याय ३| भाग १८ अध्याय ३ भाग १ भाग २ भाग ३ भाग ४ भाग ५ भाग ६ भाग ७ भाग ८ भाग ९ भाग १० भाग ११ भाग १२ भाग १३ भाग १४ भाग १५ भाग १६ भाग १७ भाग १८ भाग १९ भाग २० अर्थशास्त्रम् अध्याय ०३ - भाग १८ कौटिल्य अर्थात् चाणक्य द्वारा रचित अर्थशास्त्र हा प्राचीन ग्रंथ आहे. Tags : chanakyaeconomicskautilyaअर्थशास्त्रकौटिल्यचाणक्यसंस्कृत भाग १८ Translation - भाषांतर १८.०१वाक्.पारुष्यम् उपवादः कुत्सनम् अभिभर्त्सनम् इति ॥१८.०२शरीर.प्रकृति.श्रुत.वृत्ति.जन.पदानां शरीर.उपवादे काण.खञ्ज.आदिभिः सत्ये त्रि.पणो दण्डः, मिथ्या.उपवादे षट्.पणो दण्डः ॥१८.०३"शोभन.अक्षिमन्तः" इति काण.खञ्ज.आदीनां स्तुति.निन्दायां द्वादश.पणो दण्डः ॥१८.०४कुष्ठ.उन्माद.क्लैब्य.आदिभिः कुत्सायां च सत्य.मिथ्या.स्तुति.निन्दासु द्वादश.पण.उत्तरा दण्डास् तुल्येषु ॥१८.०५विशिष्टेषु द्वि.गुणाः, हीनेष्व् अर्ध.दण्डाः, पर.स्त्रीषु द्वि.गुणाः, प्रमाद.मद.मोह.आदिभिर् अर्ध.दण्डाः ॥१८.०६कुष्ठ.उन्मादयोश् चिकित्सकाः संनिकृष्टा पुमांसश् च प्रमाणं, क्लीब.भावे स्त्रियो मूत्र.फेनो_अप्सु विष्ठा.निमज्जनं च ॥१८.०७प्रकृत्य्.उपवादे ब्राह्मण.क्षत्रिय.वैश्य.शूद्र.अन्त.अवसायिनाम् अपरेण पूर्वस्य त्रि.पण.उत्तरा दण्डाः, पूर्वेण_अपरस्य द्वि.पण.अधराः, कुब्राह्मण.आदिभिश् च कुत्सायाम् ॥१८.०८तेन श्रुत.उपवादो वाग्.जीवनानां, कारु.कुशीलवानां वृत्त्य्.उपवादः, प्राज्जूणक.गान्धार.आदीनां च जन.पद.उपवादा व्याख्याताः ॥१८.०९यः परं "एवं त्वां करिष्यामि" इति करणेन_अभिभर्त्सयेद्, अकरणे यस् तस्य करणे दण्डस् ततो_अर्ध.दण्डं दद्यात् ॥१८.१०अशक्तः कोपं मदं मोहं वा_अपदिशेद् द्वादश.पणं दण्डं दद्यात् ॥१८.११जात.वैर.आशयः शक्तश् च_अपकर्तुं यावज्.जीविक.अवस्थं दद्यात् ॥१८.१२स्व.देश.ग्रामयोः पूर्वं मध्यमं जाति.संघयोः ।१८.१२आक्रोशाद् देव.चैत्यानाम् उत्तमं दण्डम् अर्हति ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP