संस्कृत सूची|शास्त्रः|अर्थशास्त्रम्|अध्याय ३| भाग ४ अध्याय ३ भाग १ भाग २ भाग ३ भाग ४ भाग ५ भाग ६ भाग ७ भाग ८ भाग ९ भाग १० भाग ११ भाग १२ भाग १३ भाग १४ भाग १५ भाग १६ भाग १७ भाग १८ भाग १९ भाग २० अर्थशास्त्रम् अध्याय ०३ - भाग ४ कौटिल्य अर्थात् चाणक्य द्वारा रचित अर्थशास्त्र हा प्राचीन ग्रंथ आहे. Tags : chanakyaeconomicskautilyaअर्थशास्त्रकौटिल्यचाणक्यसंस्कृत भाग ४ Translation - भाषांतर ४.०१पति.कुलान् निष्पतितायाः स्त्रियाः षट्.पणो दण्डः, अन्यत्र विप्रकारात् ॥४.०२प्रतिषिद्धायां द्वादश.पणः ॥४.०३प्रतिवेश.गृह.अतिगतायाः षट्.पणः ॥४.०४प्रातिवेशिक.भिक्षुक.वैदेहकानाम् अवकाश.भिक्षा.पण्य.दाने द्वादश.पणो दण्डः ॥४.०५प्रतिषिद्धानां पूर्वः साहस.दण्डः ॥४.०६पर.गृह.अतिगतायाश् चतुर्.विंशति.पणः ॥४.०७पर.भार्या.अवकाश.दाने शत्यो दण्डः, अन्यत्र_आपद्भ्यः ॥४.०८वारण.अज्ञानयोर् निर्दोषः ॥४.०९"पति.विप्रकारात् पति.ज्ञाति.सुख.अवस्थ.ग्रामिक.अन्वाधि.भिक्षुकी.ज्ञाति.कुलानाम् अन्यतमम् अपुरुषं गन्तुम् अदोषः" इति आचार्याः ॥४.१०स-पुरुषं वा ज्ञाति.कुलम् ॥४.११कुतो हि साध्वी.जनस्यच्_छलम् ॥४.१२सुखम् एतद् अवबोद्धुम्, इति कौटिल्यः ॥४.१३प्रेत.व्याधि.व्यसन.गर्भ.निमित्तम् अप्रतिषिद्धम् एव ज्ञाति.कुल.गमनम् ॥४.१४तन्.निमित्तं वारयतो द्वादश.पणो दण्डः ॥४.१५तत्र_अपि गूहमाना स्त्री.धनं जीयेत, ज्ञातयो वा छादयन्तः शुल्क.शेषम् ॥ इति निष्पतनम् ।४.१६पति.कुलान् निष्पत्य ग्राम.अन्तर.गमने द्वादश.पणो दण्डः स्थाप्या.आभरण.लोपश् च ॥४.१७गम्येन वा पुंसा सह प्रस्थाने चतुर्.विंशति.पणः सर्व.धर्म.लोपश् च, अन्यत्र भर्म.दान.तीर्थ.गमनाभ्याम् ॥४.१८पुंसः पूर्वः साहस.दण्डः तुल्य.श्रेयसोः, पापीयसो मध्यमः ॥४.१९बन्धुर्.अदण्ड्यः ॥४.२०प्रतिषेधे_अर्ध.दण्डाः ॥४.२१पथि व्यन्तरे गूढ.देश.अभिगमने मैथुन.अर्थेन शङ्कित.प्रतिषिद्धायां वा पथ्य्.अनुसरणे संग्रहणं विद्यात् ॥४.२२ताल.अवचर.चारण.मत्स्य.बन्धक.लुब्धक.गो.पालक.शौण्डिकानाम् अन्येषां च प्रसृष्ट.स्त्रीकाणां पथ्य्.अनुसरणम् अदोषः ॥४.२३प्रतिषिद्धे वा नयतः पुंसः स्त्रियो वा गच्छन्त्यास् त एव_अर्ध.दण्डाः ॥ इति पथ्य्.अनुसरणम् ।४.२४ह्रस्व.प्रवासिनां शूद्र.वैश्य.क्षत्रिय.ब्राह्मणानां भार्याः संवत्सर.उत्तरं कालम् आकाङ्क्षेरन् अप्रजाताः, संवत्सर.अधिकं प्रजाताः ॥४.२५प्रतिविहिता द्वि.गुणं कालम् ॥४.२६अप्रतिविहिताः सुख.अवस्था बिभृयुः, परं चत्वारि वर्षाण्य् अष्टौ वा ज्ञातयः ॥४.२७ततो यथा.दत्तम् आदाय प्रमुञ्चेयुः ॥४.२८ब्राह्मणम् अधीयानं दश.वर्षाण्य् अप्रजाता, द्वादश प्रजाता, राज.पुरुषम् आयुः.क्षयाद् आकाङ्क्षेत ॥४.२९सवर्णतश् च प्रजाता न_अपवादं लभेत ॥४.३०कुटुम्ब.ऋद्धि.लोपे वा सुख.अवस्थैर् विमुक्ता यथा.इष्टं विन्देत, जीवित.अर्थम् आपद्.गता वा ॥४.३१धर्म.विवाहात् कुमारी परिग्रहीतारम् अनाख्याय प्रोषितम् अश्रूयमाणं सप्त तीर्थान्य् आकाङ्क्षेत, संवत्सरं श्रूयमाणम् ॥४.३२आख्याय प्रोषितम् अश्रूयमाणं पञ्च तीर्थान्य् आकाङ्क्षेत, दश श्रूयमाणम् ॥४.३३एक.देश.दत्त.शुल्कं त्रीणि तीर्थान्य् अश्रूयमाणम्, श्रूयमाणं सप्त तीर्थान्य् आकाङ्क्षेत ॥४.३४दत्त.शुल्कं पञ्च तीर्थान्य् अश्रूयमाणम्, दश श्रूयमाणम् ॥४.३५ततः परं धर्मस्थैर् विसृष्टा यथा.इष्टं विन्देत ॥४.३६तीर्थ.उपरोधो हि धर्म.वध इति कौटिल्यः ॥ इति ह्रस्व.प्रवासः ॥४.३७दीर्घ.प्रवासिनः प्रव्रजितस्य प्रेतस्य वा भार्या सप्त तीर्थान्य् आकाङ्क्षेत, संवत्सरं प्रजाता ॥४.३८ततः पति.सोदर्यं गच्छेत् ॥४.३९बहुषु प्रत्यासन्नं धार्मिकं भर्म.समर्थं कनिष्ठम् अभार्यं वा ॥४.४०तद्.अभावे_अप्य् असोदर्यं सपिण्डं कुल्यं वा_आसन्नम् ॥४.४१एतेषाम् एष एव क्रमः ॥४.४२एतान् उत्क्रम्य दायादान् वेदने जार.कर्मणि ।४.४२जार.स्त्री.दातृ.वेत्तारः सम्प्राप्ताः संग्रह.अत्ययम् ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP