संस्कृत सूची|शास्त्रः|अर्थशास्त्रम्|अध्याय ३| भाग १२ अध्याय ३ भाग १ भाग २ भाग ३ भाग ४ भाग ५ भाग ६ भाग ७ भाग ८ भाग ९ भाग १० भाग ११ भाग १२ भाग १३ भाग १४ भाग १५ भाग १६ भाग १७ भाग १८ भाग १९ भाग २० अर्थशास्त्रम् अध्याय ०३ - भाग १२ कौटिल्य अर्थात् चाणक्य द्वारा रचित अर्थशास्त्र हा प्राचीन ग्रंथ आहे. Tags : chanakyaeconomicskautilyaअर्थशास्त्रकौटिल्यचाणक्यसंस्कृत भाग १२ Translation - भाषांतर १२.०१उपनिधिर् ऋणेन व्याख्यातः ॥१२.०२पर.चक्र.आटविकाभ्यां दुर्ग.राष्ट्र.विलोपे वा, प्रतिरोधकैर् वा ग्राम.सार्थ.व्रज.विलोपे, चक्र.युक्त.नाशे वा, ग्राम.मध्य.अग्न्य्.उदक.आबाधे ज्वाला.वेग.उपरुद्धे वा, नावि निमग्नायां मुषितायां वा स्वयम् उपरूढो न_उपनिधिम् अभ्यावहेत् ॥१२.०३उपनिधि.भोक्ता देश.काल.अनुरूपं भोग.वेतनं दद्यात्, द्वादश.पणं च दण्डम् ॥१२.०४उपभोग.निमित्तं नष्टं विनष्टं वा_अभ्यावहेत्, चतुर्.विंशति.पणश् च दण्डः, अन्यथा वा निष्पतने ॥१२.०५प्रेतं व्यसन.गतं वा न_उपनिधिम् अभ्यावहेत् ॥१२.०६आधान.विक्रय.अपव्ययनेषु च_अस्य चतुर्.गुण.पञ्च.बन्धो दण्डः ॥१२.०७परिवर्तने निष्पातने वा मूल्य.समः ॥१२.०८तेन_आधि.प्रणाश.उपभोग.विक्रय.आधान.अपहारा व्याख्याताः ॥१२.०९न_आधिः स-उपकारः सीदेत्, न च_अस्य मूल्यं वर्धेत, अन्यत्र निसर्गात् ॥१२.१०निरुपकारः सीदेत्, मूल्यं च_अस्य वर्धेत ॥१२.११उपस्थितस्य_आधिम् अप्रयच्छतो द्वादशण्पणो दण्डः ॥१२.१२प्रयोजक.असम्निधाने वा ग्राम.वृद्धेषु स्थापयित्वा निष्क्रयम् आधिं प्रतिपद्येत ॥१२.१३निवृत्त.वृद्धिको वा_आधिस् तत्.काल.कृत.मूल्यस् तत्र_एव_अवतिष्ठेत, अनाश.विनाश.करण.अधिष्ठितो वा ॥१२.१४धारणिक.असम्निधाने वा विनाश.भयाद् उद्गत.अर्घं धर्मस्थ.अनुज्ञातो विक्रीणीत, आधि.पाल.प्रत्ययो वा ॥१२.१५स्थावरस् तु प्रयास.भोग्यः फल.भोग्यो वा प्रक्षेप.वृद्धि.मूल्य.शुद्धम् आजीवम् अमूल्य.क्षयेण_उपनयेत् ॥१२.१६अनिसृष्ट.उपभोक्ता मूल्य.शुद्धम् आजीवं बन्धं च दद्यात् ॥१२.१७शेषम् उपनिधिना व्याख्यातम् ॥१२.१८एतेन_आदेशो_अन्वाधिश् च व्याख्यातौ ॥१२.१९सार्थेन_अन्वाधि.हस्तो वा प्रदिष्टां भूमिम् अप्राप्तश् चोरैर् भग्न.उत्सृष्टो वा न_अन्वाधिम् अभ्यावहेत् ॥१२.२०अन्तरे वा मृतस्य दायादो_अपि न_अभ्यावहेत् ॥१२.२१शेषम् उपनिधिना व्यकह्यातम् ॥१२.२२याचितकम् अवक्रीतकं वा यथा.विधं गृह्णीयुस् तथा.विधम् एव_अर्पयेयुः ॥१२.२३भ्रेष.उपनिपाताभ्यां देश.काल.उपरोधि दत्तं नष्टं विनष्टं वा न_अभ्यावहेयुः ॥१२.२४शेषम् उपनिधिना व्याख्यातम् ॥१२.२५वैयावृत्य.विक्रयस् तु - वैयावृत्य.करा यथा.देश.कालं विक्रीणानाः पण्यं यथा.जातं मूल्यम् उदयं च दद्युः ॥१२.२६देश.काल.अतिपातने वा परिहीणं सम्प्रदान.कालिकेन_अर्घेण मूल्यम् उदयं च दद्युः ॥१२.२७यथा.सम्भाषितं वा विक्रीणाना न_उदयम् अधिगच्छेयुः, मूल्यम् एव दद्युः ॥१२.२८अर्घ.पतने वा परिहीणं यथा.परिहीणं मूल्यम् ऊनं दद्युः ॥१२.२९सांव्यवहारिकेषु वा प्रात्ययिकेष्व् अराज.वाच्येषु भ्रेष.उपनिपाताभ्यां नष्टं विनष्टं वा मूल्यम् अपि न दद्युः ॥१२.३०देश.काल.अन्तरितानां तु पण्यानां क्षय.व्यय.विशुद्धं मूल्यम् उदयं च दद्युः, पण्य.समवायानां च प्रत्यंशम् ॥१२.३१शेषम् उपनिधिना व्याख्यातम् ॥१२.३२एतेन वैयावृत्य.विक्रयो व्याख्यातः ॥१२.३३निक्षेपश् च_उपनिधिना ॥१२.३४तम् अन्येन निक्ष्पितम् अन्यस्य_अर्पयतो हीयेत ॥१२.३५निक्षेप.अपहारे पूर्व.अपदानं निक्षेप्तारश् च प्रमाणम् ॥१२.३६अशुचयो हि कारवः ॥१२.३७न_एषां करण.पूर्वो निक्षेप.धर्मः ॥१२.३८करण.हीनं निक्षेपम् अपव्ययमानं गूढ.भित्ति.न्यस्तान् साक्षिणो निक्षेप्ता रहसि प्रणिपातेन प्रज्ञापयेत्, वन.अन्ते वा मद्य.प्रहवण.विश्वासेन ॥१२.३९रहसि वृद्धो व्याधितो वा वैदेहकः कश्चित् कृत.लक्षणं द्रव्यम् अस्य हस्ते निक्षिप्य_अपगच्छेत् ॥१२.४०तस्य प्रतिदेशेन पुत्रो भ्राता वा_अभिगम्य निक्षेपं याचेत ॥१२.४१दाने शुचिः, अन्यथा निक्षेपं स्तेय.दण्डं च दद्यात् ॥१२.४२प्रव्रज्या.अभिमुखो वा श्रद्धेयः कश्चित् कृत.लक्षणं द्रव्यम् अस्य हस्ते निक्षिप्य प्रतिष्ठेत ॥१२.४३ततः काल.अन्तर.आगतो याचेत ॥१२.४४दाने शुचिः, अन्यथा निक्षेपं स्तेय.दण्डं च दद्यात् ॥१२.४५कृत.लक्षणेन वा द्रव्येण प्रत्यानयेद् एनम् ॥१२.४६बालिश.जातीयो वा रात्रौ राज.दायिका.क्षण.भीतः सारम् अस्य हस्ते निक्षिप्य_अपगच्छेत् ॥१२.४७स एनं बन्धन.अगार.गतो याचेत ॥१२.४८दाने शुचिः, अन्यथा निक्षेपं स्तेय.दण्डं च दद्यात् ॥१२.४९अभिज्ञानेन च_अस्य गृहे जनम् उभयं याचेत ॥१२.५०अन्यतर्त.आदाने यथा.उक्तं पुरस्तात् ॥१२.५१द्रव्य.भोगानाम् आगमं च_अस्य_अनुयुञ्जीत, तस्य च_अर्थस्य व्यवहार.उपलिङ्गनम्, अभियोक्तुश् च_अर्थ.सामर्थ्यम् ॥१२.५२एतेन मिथः.समवायो व्याख्यातः ॥१२.५३तस्मात् साक्षिमद् अच्छन्नं कुर्यात् सम्यग्.विभाषितम् ।१२.५३स्वे परे वा जने कार्यं देश.काल.अग्र.वर्णतः ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP