संस्कृत सूची|शास्त्रः|अर्थशास्त्रम्|अध्याय ३| भाग २ अध्याय ३ भाग १ भाग २ भाग ३ भाग ४ भाग ५ भाग ६ भाग ७ भाग ८ भाग ९ भाग १० भाग ११ भाग १२ भाग १३ भाग १४ भाग १५ भाग १६ भाग १७ भाग १८ भाग १९ भाग २० अर्थशास्त्रम् अध्याय ०३ - भाग २ कौटिल्य अर्थात् चाणक्य द्वारा रचित अर्थशास्त्र हा प्राचीन ग्रंथ आहे. Tags : chanakyaeconomicskautilyaअर्थशास्त्रकौटिल्यचाणक्यसंस्कृत भाग २ Translation - भाषांतर २.०१विवाह.पूर्वो व्यवहारः ॥२.०२कन्या.दानं कन्याम् अलंकृत्य ब्राह्मो विवाहः ॥२.०३सह.धर्म.चर्या प्राजापत्यः ॥२.०४गो.मिथुन.आदानाद् आर्षः ॥२.०५अन्तर्.वेद्याम् ऋत्विजे दानाद् दैवः ॥२.०६मिथः.समवायाद् गान्धर्वः ॥२.०७शुल्क.आदानाद् आसुरः ॥२.०८प्रसह्य.आदानाद् राक्षसः ॥२.०९सुप्त.मत्त.आदानात् पैशाचः ॥२.१०पितृ.प्रमाणाश् चत्वारः पूर्वे धर्म्याः, माता.पितृ.प्रमाणाः शेषाः ॥२.११तौ हि शुल्क.हरौ दुहितुः, अन्यतर.अभावे_अन्यतरो वा ॥२.१२द्वितीयं शुल्कं स्त्री हरेत ॥२.१३सर्वेषां प्रीत्य्.आरोपणम् अप्रतिषिद्धम् ॥ इति विवाह.धर्मः ।२.१४वृत्तिर् आबन्ध्यं वा स्त्री.धनम् ॥२.१५पर.द्वि.साहस्रा स्थाप्या वृत्तिः, आबन्ध्य.अनियमः ॥२.१६तद् आत्म.पुत्र.स्नुषा.भर्मणि प्रवास.अप्रतिविधाने च भार्याया भोक्तुम् अदोषः, प्रतिरोधक.व्याधि.दुर्भिक्ष.भय.प्रतीकारे धर्म.कार्ये च पत्युः, सम्भूय वा दम्पत्योर् मिथुनं प्रजातयोः ॥२.१७त्रि.वर्ष.उपभुक्तं च धर्मिष्ठेषु विवाहेषु न_अनुयुञ्जीत ॥२.१८गान्धर्व.आसुर.उपभुक्तं स-वृद्धिकम् उभयं दाप्येत, राक्षस.पैशाच.उपभुक्तं स्तेयं दद्यात् ॥२.१९मृते भर्तरि धर्म.कामा तदानीम् एव स्थाप्य_आभरणं शुल्क.शेषं च लभेत ॥२.२०लब्ध्वा वा विन्दमाना स-वृद्धिकम् उभयं दाप्येत ॥२.२१कुटुम्ब.कामा तु श्वशुर.पति.दत्तं निवेश.काले लभेत ॥२.२२निवेश.कालं हि दीर्घ.प्रवासे व्याख्यास्यामः ॥२.२३श्वशुर.प्रातिलोम्येन वा निविष्टा श्वशुर.पति.दत्तं जीयेत ॥२.२४ज्ञाति.हस्ताद्.अभिमृष्टाया ज्ञातयो यथा.गृहीतं दद्युः ॥२.२५न्याय.उपगतायाः प्रतिपत्ता स्त्री.धनं गोपयेत् ॥२.२६पति.दायं विन्दमाना जीयेत ॥२.२७धर्म.कामा भुञ्जीत ॥२.२८पुत्रवती विन्दमाना स्त्री.धनं जीयेत ॥२.२९तत् तु स्त्री.धनं पुत्रा हरेयुः ॥२.३०पुत्र.भरण.अर्थं वा विन्दमाना पुत्र.अर्थं स्फाती.कुर्यात् ॥२.३१बहु.पुरुष.प्रजानां पुत्राणां यथा.पितृ.दत्तं स्त्री.धनम् अवस्थापयेत् ॥२.३२काम.करणीयम् अपि स्त्री.धनं विन्दमाना पुत्र.संस्थं कुर्यात् ॥२.३३अपुत्रा पति.शयनं पालयन्ती गुरु.समीपे स्त्री.धनम् आयुः.क्षयाद् भुञ्जीत ॥२.३४आपद्.अर्थं हि स्त्री.धनम् ॥२.३५ऊर्ध्वं दायादं गच्छेत् ॥२.३६जीवति भर्तरि मृतायाः पुत्रा दुहितरश् च स्त्री.धनं विभजेरन्, अपुत्राया दुहितरः, तद्.अभावे भर्ता ॥२.३७शुल्कम् अन्वाधेयम् अन्यद् वा बन्धुभिर् दत्तं बान्धवा हरेयुः ॥ इति स्त्री.धन.कल्पः ।२.३८वर्षाण्य् अष्टाव् अप्रजायमानाम् अपुत्रां वन्ध्यां च_आकाङ्क्षेत, दश निन्दुम्, द्वादश कन्या.प्रसविनीम् ॥२.३९ततः पुत्र.अर्थी द्वितीयां विन्देत ॥२.४०तस्य_अतिक्रमे शुल्कं स्त्री.धनम् अर्धं च_आधिवेदनिकं दद्यात्, चतुर्.विंशति.पण.परं च दण्डम् ॥२.४१शुल्कं स्त्री.धनम् अशुल्क.स्त्री.धनायास् तत्.प्रमाणम् आधिवेदनिकम् अनुरूपां च वृत्तिं दत्त्वा बह्वीर् अपि विन्देत ॥२.४२पुत्र.अर्था हि स्त्रियः ॥२.४३तीर्थ.समवाये च_आसां यथा.विवाहं पूर्व.ऊढां जीवत्.पुत्रां वा पूर्वं गच्छेत् ॥२.४४तीर्थ.गूहन.आगमने षण्.णवतिर् दण्डः ॥२.४५पुत्रवतीं धर्म.कामां वन्ध्यां निन्दुं नीरजस्कां वा न_अकामाम् उपेयात् ॥२.४६न च_अकामः पुरुषः कुष्ठिनीम् उन्मत्तां वा गच्छेत् ॥२.४७स्त्री तु पुत्र.अर्थम् एवं.भूतं वा_उपगच्छेत् ॥२.४८नीचत्वं पर.देशं वा प्रस्थितो राज.किल्बिषी ।२.४८प्राण.अभिहन्ता पतितस् त्याज्यः क्लीबो_अपि वा पतिः ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP