संस्कृत सूची|शास्त्रः|अर्थशास्त्रम्|अध्याय ३| भाग १७ अध्याय ३ भाग १ भाग २ भाग ३ भाग ४ भाग ५ भाग ६ भाग ७ भाग ८ भाग ९ भाग १० भाग ११ भाग १२ भाग १३ भाग १४ भाग १५ भाग १६ भाग १७ भाग १८ भाग १९ भाग २० अर्थशास्त्रम् अध्याय ०३ - भाग १७ कौटिल्य अर्थात् चाणक्य द्वारा रचित अर्थशास्त्र हा प्राचीन ग्रंथ आहे. Tags : chanakyaeconomicskautilyaअर्थशास्त्रकौटिल्यचाणक्यसंस्कृत भाग १७ Translation - भाषांतर १७.०१साहसम् अन्वयवत् प्रसभ.कर्म ॥१७.०२निरन्वये स्तेयम्, अपव्ययने च ॥१७.०३"रत्न.सार.फल्गु.कुप्यानां साहसे मूल्य.समो दण्डः" इति मानवाः ॥१७.०४"मूल्य.द्वि.गुणः" इत्य् औशनसाः ॥१७.०५यथा.अपराध इति कौटिल्यः ॥१७.०६"पुष्प.फल.शाक.मूल.कन्द.पक्व.अन्न.चर्म.वेणु.मृद्.भाण्ड.आदीनां क्षुद्रक.द्रव्याणां द्वाद्श.पण.अवरश् चतुर्विंशति.पण.परो दण्डः ॥१७.०७काल.आयस.काष्ठ.रज्जु.द्रव्य.क्षुद्र.पशु.पट.आदीनां स्थूलक.द्रव्याणां चतुर्विंशति.पण.अवरो_अष्ट.चत्वारिंशत्.पण.परो दण्डः ॥१७.०८ताम्र.वृत्त.कंस.काच.दन्त.भाण्ड.आदीनां स्थूलक.द्रव्याणाम् अष्ट.चत्वारिंशत्.पण.अवरः षण्.णवति.परः पूर्वः साहस.दण्डः ॥१७.०९महा.पशु.मनुष्य.क्षेत्र.गृह.हिरण्य.सुवर्ण.सूक्ष्म.वस्त्र.आदीनां स्थूलक.द्रव्याणां द्विशत.अवरः पञ्च.शत.परो मध्यमः साहस.दण्डः ॥१७.१०स्त्रियं पुरुषं वा_अभिषह्य बध्नतो बन्धयतो बन्धं वा मोक्षयतः पञ्च.शत.अवरः सहस्र.पर उत्तमः साहस.दण्डः ॥ इत्य् आचार्याः ॥१७.११"यः साहसं "प्रतिपत्ता" इति कारयति स द्वि.गुणं दद्यात् ॥१७.१२"यावद्द् हिरण्यम् उपयोक्ष्यते तावद् दास्यामि" इति स चतुर्.गुणं दण्डं दद्यात् ॥१७.१३यः "एतावद्द् हिरण्यं दास्यामि" इति प्रमाणम् उद्दिश्य कारयति स यथा.उक्तं हिरण्यं दण्डं च दद्यात्" इति बार्हस्पत्याः ॥१७.१४स चेत् कोपं मदं मोहं वा_अपदिशेद् यथा.उक्तवद् दण्डम् एनं कुर्याद् इति कौटिल्यः ॥१७.१५दण्ड.कर्मसु सर्वेषु रूपम् अष्ट.पणं शतम् ।१७.१५शतात् परेषु व्याजीं च विद्यात् पञ्च.पणं शतम् ॥१७.१६प्रजानां दोष.बाहुल्याद् राज्ञां वा भाव.दोषतः ।१७.१६रूप.व्याज्याव् अधर्मिष्ठे धर्म्या तु प्रकृतिः स्मृता ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP