संस्कृत सूची|शास्त्रः|अर्थशास्त्रम्|अध्याय ३| भाग १५ अध्याय ३ भाग १ भाग २ भाग ३ भाग ४ भाग ५ भाग ६ भाग ७ भाग ८ भाग ९ भाग १० भाग ११ भाग १२ भाग १३ भाग १४ भाग १५ भाग १६ भाग १७ भाग १८ भाग १९ भाग २० अर्थशास्त्रम् अध्याय ०३ - भाग १५ कौटिल्य अर्थात् चाणक्य द्वारा रचित अर्थशास्त्र हा प्राचीन ग्रंथ आहे. Tags : chanakyaeconomicskautilyaअर्थशास्त्रकौटिल्यचाणक्यसंस्कृत भाग १५ Translation - भाषांतर १५.०१विक्रीय पण्यम् अप्रयच्छतो द्वादश.पणो दण्डः, अन्यत्र दोष.उपनिपात.अविषह्येभ्यः ॥१५.०२पण्य.दोषो दोषः ॥१५.०३राज.चोर.अग्न्य्.उदक.बाध उपनिपातः ॥१५.०४बहु.गुण.हीनम् आर्त.कृतं वा_अविषह्यम् ॥१५.०५वैदेहकानाम् एक.रात्रम् अनुशयः, कर्षकाणां त्रि.रात्रं, गो.रक्षकाणां पञ्च.रात्रम् ॥१५.०६व्यामिश्राणाम् उत्तमानां च वर्णानां वृत्ति.विक्रये सप्त.रात्रम् ॥१५.०७आतिपातिकानां पण्यानां "अन्यत्र.अविक्रेयम्" इत्य् अवरोधेन_अनुशयो देयः ॥१५.०८तस्य_अतिक्रमे चतुर्.विंशति.पणो दण्डः, पण्य.दश.भागो वा ॥०३.१५.०९क्रीत्वा पण्यम् अप्रतिगृह्णतो द्वादश.पणो दण्डः, अन्यत्र दोष.उपनिपात.अविषह्येभ्यः ॥१५.१०समानश् च_अनुशयो विक्रेतुर् अनुशयेन ॥१५.११विवाहानां तु त्रयाणां पूर्वेषां वर्णानां पाणि.ग्रहणात् सिद्धम् उपावर्तनं, शूद्राणां च प्रकर्मणः ॥१५.१२वृत्त.पाणि.ग्रहणयोर् अपि दोषम् औपशायिकं दृष्ट्वा सिद्धम् उपावर्तनम् ॥१५.१३न त्व् एव_अभिप्रजातयोः ॥१५.१४कन्या.दोषम् औपशायिकम् अनाख्याय प्रयच्छतः कन्यां षण्.णवतिर् दण्डः, शुल्क.स्त्री.धन.प्रतिदानं च ॥१५.१५वरयितुर् वा वर.दोषम् अनाख्याय विन्दतो द्वि.गुणः, शुल्क.स्त्री.धन.नाशश् च ॥१५.१६द्विपद.चतुष्पदानां तु कुण्ठ.व्याधित.अशुचीनाम् उत्साह.स्वास्थ्य.शुचीनाम् आख्याने द्वादश.पणो दण्डः ॥१५.१७आ.त्रि.पक्षाद् इति चतुष्पदानाम् उपावर्तनम्, आ.संवत्सराद् इति मनुष्याणाम् ॥१५.१८तावता हि कालेन शक्यं शौच.आशौचे ज्ञातुम् ॥१५.१९दाता प्रतिग्रहीता च स्यातां न_उपहतौ यथा ।१५.१९दाने क्रये वा_अनुशयं तथा कुर्युः सभासदः ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP