संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|काव्यमीमांसा| अष्टादशो ऽध्यायः काव्यमीमांसा प्रथमो ऽध्यायः द्वितीयो ऽध्यायः तृतीयो ऽध्यायः चतुर्थो ऽध्यायः पञ्चमो ऽध्यायः षष्ठो ऽध्यायः सप्तमो ऽध्यायः चतुर्थो ऽध्यायः नवमो ऽध्यायः दशमोऽध्यायः एकादशो ऽध्यायः द्वदशो ऽध्यायः त्रयोदशो ऽध्यायः चतुर्दशो ऽध्यायः पञ्चदशो ऽध्यायः षोडशो ऽध्यायः सप्तदशो ऽध्यायः अष्टादशो ऽध्यायः काव्यमीमांसा - अष्टादशो ऽध्यायः संस्कृत कवि राजशेखरद्वारा द्वारा रचित काव्यमीमांसा अलंकार शास्त्र पर लिखा गया एक विशालकाय ग्रंथ था, जिसमें मूलत: 18 अधिकरण थे। राजशेखर महाराष्ट्र देशवासी थे और यायावर वंश में उत्पन्न हुए थे। Tags : kavyamimansarajashekharकाव्यमीमांसाराजशेखरसंस्कृत कालविभागः Translation - भाषांतर कालविभागः कालः काष्टादिभेदभिन्नः ।काष्टा निमेषा दश पञ्च त्रिंशच्च काष्ठाः कथिताः कलेति ।त्रिंशत्कलश्चैव भवेन्मुहूर्त्तस्त्रिंशता रात्र्यहनी समेते ॥ते च चैत्रघाश्वयुजमासयोर्भवतः ।चैत्रात्परं प्रतिमासं मौहूर्त्तिकी दिवसवृद्धिः निशाहानिश्च त्रिमास्याः, ततः परं मौहूर्त्तिकी निशावृद्धिः दिवसहानिश्च ।आश्वयुजीत्परतः पुनरेतदेव विपरीतम् ।राशैतो राश्यन्तरसङ्क्रमणमुष्णभासो मासः, वर्षादि दक्षिणायनं, शिशिराद्युत्तरायणं, द्वययनः संवत्सर इति सौरं मानम् ।पञ्चदशाहोरात्रः पक्षः ।वर्द्धमानसोमः शुक्लो, वर्ध्दमानकृष्णिमा कृष्णा इति पित्र्यं मासमानम् ।अमुना च वेदोदितः कृत्स्नो ऽपि क्रियाकल्पः ।पित्र्यमेव व्यत्ययितपक्षं चान्द्रमसम् ।इदमार्यावर्त्तवासिनश्च कवयश्च मानमाश्रिताः ।एवं च द्वौ पक्षौ मासः ।द्वौ मासावृतुः ।षण्णामृतूनां परवर्त्तः संवत्सरः ।स च चैत्रादिरिति दैवज्ञाः, श्रावणादिरिति लोकयात्राविदः ।तत्र नभा नभस्यश्च वर्षाः, ईष ऊर्जश्च शरत्, सहः सहस्यश्च हेमन्तः, तपस्तस्यश्च शिशिरः, मधुर्माधवश्च वसन्तः, शुक्रः शुचिश्च ग्रीष्मः ।तत्र "वर्षासु पूर्वो वायुः" इति कवयः ।"पाश्चात्यः, पौरस्त्यस्तु प्रतिहन्ता" इत्याचार्याः ।तदाहुः- "पुरोवाता हता प्रावृट् पश्चाद्वाता हता शरत्" इति ।तदाहुः- "प्रावृष्यभ्भोभृताभ्भोदभरनिर्भरनिर्भरमम्बरम् ।कादम्बकुसुमामोदा वायवो वान्ति वारुणाः" ॥"वस्तुवृत्तरतन्त्रं, कविसमयः प्रमाणम्" इति यायावरीयः ।तदाहुः- "पौरस्त्यस्तोयदर्त्तोः पवन इव पतन्पावकस्येव धूमो विश्वस्येवादिसर्गः प्रणव इव परं पावनं वेदराशेः ।सन्ध्यानृत्तोत्सवोच्छोरिव मदनरिपोनन्दिनान्दीनिनादः सोरस्याग्रे सुखं वो वितरतु विनतानन्दनः स्यन्दनस्य" ॥शरद्यनियतदिक्को वायुर्यथा- "उषःसु ववुराकृष्णजहावश्यायशीकराः ।शोफालीकलिकाकोशकषायमोदिनो ऽनिलाः" ॥"हेमन्ते पाश्चात्यो वायुः", इति एके ।"उदीच्य" इति अपरे ।"उभयमपि"इति यायावरीयः ।तयोः पाश्चात्य-- "भञ्जन्मूर्जद्रुमालीस्तुहिनगिरितटेषूद्गतास्त्वक्करालाः रंवाभ्भःस्थूलवीचीचयचकितलञ्चातकान् व्याधुनानः ।पाश्वात्यो वाति वेगाद्द्रुततुहिनशिलाशीकरासारवर्षी मातङ्गक्षुण्णसान्द्रस्त्रुतसरलतरत्सारसारी समीरः" ॥उदीच्यः- "लभ्पाकीनां किरन्तश्चिकुरविरचनां रल्लकांल्लासयन्तः चुम्बन्तश्वन्द्रभागासलिलमविकलं भूर्जकाण्डैकचण्डः ।एते कस्तूरिकैणप्रणयसुरभयो वल्लभा बाह्लवीनां कौलूतीकेलिकाराः परिचयितहिमं वायवो वान्त्युदीच्याः" ॥शिशिरे ऽपि हेमन्तवदुदीच्यः पाश्चात्यो वा ।वसन्ते दक्षिणः ।तदुक्तम् - "धुन्वलङ्कावनालीर्मुहुरलकलता लासयन्केरलीनाम् आन्ध्रीधंमिल्लबन्धान्सपदि शिथिलयन्वेल्लयन्नागवल्लीः ।उद्दामं दाक्षिणात्यो मलितमलयजः सारिथिर्मीनकेतोः प्रात्पः सीमन्तिनीनां मधुसमयसुहृन्मानचौरः समीरः" ॥"उभयतदिक्को वायुर्ग्रीष्मे" इत्येके ।"नैऋर्तः " इत्यपरे ।"उभयमपि" इति यायावरीयः ।तत्र प्रथमः- "वात्याचक्रकचुम्बिताम्बरभुवः स्थूला रजोदण्डकाः संग्रथ्नन्ति भविष्यदभ्रपटलस्थूणावितर्कं नभः ।किं चान्यन्मृगतृष्णिङ्काम्बुवसरैः पात्राणि वीतार्णसां सिन्धूनामिह सूत्रयन्ति दिवसेष्वागामिनीं सम्पदम्" ॥द्वितीयः- "सो ऽयं करैस्तपति वह्णिमयैरिवार्कः साङ्गारविस्तरविस्तरभरेव धरा समग्रा ।वायुः कुकूलमिव वर्षति नैऋर्तश्च कार्शानवैरिव शरैर्मदनश्च हन्ति" ॥किञ्च - गर्भान्बलाकासु निवेशयन्तो वंशाङ्कुरान्स्वैर्निनदैः सृजन्तः ।"रजो ऽम्बुदाः प्रावृषि मुद्रयन्तो यात्रोद्यमं भूमिभृतां हरन्ति" ॥स सल्लकीसालशिलीन्ध्रयूथीप्रसूनदः पुष्पितलाङ्गलीकः ।दग्धोर्वरासुन्दरगन्धबन्धुरर्घत्ययं वारिमुचामनेहा ॥वनानि नीलीदलमेचकानि धाराम्बुधौता गिरयः स्फुरन्ति ।पूराम्भसा भिन्नतटास्तटिन्यः सान्द्रेन्द्रगोपानि च शाद्वलानि ॥चकोरहर्षी यतिचारचौरो वियोगिनीवीक्षितनाथवर्त्मा ।गृहान्प्रति प्रस्थितपान्थसार्थः कालो ऽयमाध्मातनभाः पयोदैः ॥या केलियात्रा करिकामिनीभिर् यातुङ्गहर्म्याग्रविलासशय्या ।चतुःसमं (मो यो)यन्मृगनाभिगर्भर्ं(भः) सा वारिदर्त्तोः प्रथमातिथेयी ॥चलञ्चटुलचातकः कृतकुरङ्गरागोदयः सदर्दुररवोद्यमो मदभरप्रगल्भोरगः ।शिखण्डिकुलताण्डवामुदितमद्गुकङ्काह्वयो वियोगिषु घनागमः स्मरविषं विषं मुञ्चति ॥दलत्कुटजकुड्मलः स्फुटितनीपपुष्पोत्करो धवप्रसवबान्धवः प्रचितमञ्जरीकार्जुनः ।कदम्बकलुषाम्बरः कलितकेतकीकोरकश् चलन्निचुलसञ्चयो हरति हन्त धर्मात्ययः ॥वर्षाः ॥द्राग्गर्जयन्ती विमदान्मयूरान्प्रगल्भयन्ती कुररद्विरेफन् ।शरत्समभ्येति विकास्य पद्मानुन्मीलयन्ती कुमुदोत्पलानि ॥सा भाति पुष्पाणि निवेशयन्ती बन्धूकबाणासनकुङ्कुमेषु ।शेफालिकासत्पपलाशकाशमण्डीरसौगन्धिकमालतीषु ॥सखञ्जरीटा सपयः प्रसादा सा कस्य नो मानसमाच्छिनति ।कादम्बकारण्डवचक्रवाकससारसक्रौञ्चकुलानुयाता ॥उपानयन्ती कलहंसयूथमगस्त्यदृष्टया पुनती पयांसि ।मुक्तासु शुभ्रं दधती च गर्भं शरद्वचित्रैश्चरितैश्चकास्ति ॥क्षितिं खनन्तो वृषभाः खुराग्रै रोधो विषाणैर्द्विरदा रदन्तः ।शृङ्गं त्यजन्तो रुरवश्च जीर्णं कुर्वन्ति लोकानवलोकनोत्कान् ॥अत्रावदातद्युति चन्द्रिकाम्बुनीलावभासं च नभः समन्तात् ।सुरेभवीथी दिविसावतारो जीर्णाभ्रखण्डानि च पाण्डुराणि ॥महानवम्यां निखिलास्त्रपूजाः नीराजना वाजिभटद्विपानाम् ।दीपालिकायां विविधा विलासा यात्रोन्मुखैरत्र नृपैर्विधेयाः ॥व्योम्नि तारतरतारकोत्करः स्यन्दनप्रचरणक्षमा मही ।भास्करः शरदि दीप्रदीधितिर्बुध्यते च सह माधवः सुरैः ॥केदार एव कलमाः परिणामनभ्राः प्राचीनमामलकमर्धति पाकनीलम् ।एर्वारुकं स्फुटननिर्गतगर्भगन्धम् अम्लीभवन्ति च जरत्त्रपुसीफलानि ॥गेहाजिरेषु नवशालिकणावपात-गन्धानुभावसुभगेषु कृषीवलानाम् ।आनन्दयन्ति मुसलोल्लसनावधूत-पाणिस्खलद्वलयद्धतयो वधूट्यः ॥तीक्ष्णं रविस्तपति नीच इवाचिराढ्यः शृङ्गं रुरुस्त्यजति मित्रमिवाकृतज्ञः ।तोयं प्रसीदति मुनेरिव धर्मचिन्ता कामी दरिद्र इव शोषमुपौति पङ्कम् ॥नद्यो वहन्ति कुटिलक्रमयुक्तशुक्तिर् एखाङ्कवालपुलिनोदरसुत्पकूर्माः ।अस्यां तरङ्गितनुतोयपलायमान-मीनानुसारिबकदत्तकरालफलाः ॥अपङ्किलतटावटः शफरफाण्टफालोज्ज्वलः पतत्कुररकातरभ्रमददभ्रमीनार्भकः ।लुठत्कमठसैकतश्चलबकोटवाचाटितः सरित्सलिलसंचयः शरदि मेदुरः सीदति" ॥शरत् ॥द्वित्रिमुचुकुन्दकलिकस्त्रिचतुरमुकुलः क्रमेण लवलीषु ।पञ्चषफलिनीकुसुमो जयति हिमर्त्तुर्नवावतरः ॥पुन्नागरोध्रप्रसवावतंसा वामभ्रुवः कञ्चुककुञ्चिताङ्ग्यः ।वक्रोल्लसत्कुङ्कुमसिक्थकाङ्काः सुगन्धतैलाः कवरीर्वहन्ति ॥यथा यथा पुष्पति शीतकालस्तुषारचूर्णोत्करकीर्णवातः ।तथा तथा यौवनशालिनीनां कवोष्णतामत्र कुचा लभन्ते ॥वराहवर्धाणि नवौदनानि दधीनि सन्नद्धशराणि चात्र ।सुकोमलाः सर्षपकन्दलीश्च भुक्त्वा जनो निन्दति वैद्यविद्याम् ॥अत्रोपचारः सलिलैः कवोष्णैर्यत्किञ्चिदत्र स्वदते ऽन्नपानम् ।सुदुर्भगामत्र निपीड्य शेते स्वस्त्यस्तु नित्यं तुहिनर्त्तवे ऽस्मै ॥विमुक्तबर्हा विमदा मयूराः प्ररुढगोधूमयवा च सीमा ।व्याघ्रीप्रसूतिः सलिलं सबाष्पं हेमन्तलिङ्गानि जयन्त्यमूनि ॥सशमीधान्यपाकानि क्षेत्राण्यत्र जयन्ति च ।त्रिशङ्कुतिलका रात्र्यः पच्चन्ते लवणानि च ॥उद्यानानां मूकपुंस्कोकिलत्वं भृङ्गस्त्रीणां मौनमुद्रा मुखेषु ।मन्दोद्योगा पत्रिणां व्योमयात्रा हेमन्ते स्यात्सर्पदर्पक्षयश्च ॥कर्कन्धूनां नागरङ्गीफलानां पाकोद्रेकः खाण्डवोप्याविरस्ति ।कृष्णेक्षूणां पुण्ड्रकाणां च गर्भे माधुर्यश्रीर्जायते काप्यपूर्वा ॥येषां मध्येमन्दिरं तल्पसम्पत् पार्श्वे दाराः स्फारतारुण्यताराः ।लीलावह्निर्निह्नुतोद्दामधूमस्ते हेमन्तं ग्रीष्मशेषं विदन्ति" ॥इति हेमन्तः ।हेमन्तधर्मः शिशिरः, विशेषस्तु ।"रात्रिर्विचिघत्रसुरतोचितयामदैर्ध्या चाण्डो मरुदूहति कुङ्कुमपङ्कसाघ्यः ।तल्पस्थितिर्द्विगुणतूलपटा किमन्यद् अर्घन्ति चात्र विततागुरुधूपधूमाः ।ब" आश्लेषिणा पृथुरतक्लमपीतशीतम् आयामिनीं घनमुदो रजनीं युवानः ।ऊर्वोर्मुहुर्वलनबन्धनसंधिलोल-पादान्तसंवलिततूलपटाः स्वपन्ति ॥पाने ऽम्भसोः सुरसनीरसयोर्न भाति स्पर्शक्रियासु तुहिनानलयोर्न चात्र ।नो दुर्भगासुभगयोः परिरम्भणे च नो सेवने च शशिभास्करयोर्विशेषः ॥पुष्पक्रिया मरुबके जलकेलिनिन्दा कुन्दान्यशेषकुसुमेषु धुरि स्थितानि ।सौभाग्यमेणतिलकाद्भजते ऽर्कबिम्बं काले तुषारिणि दहन्ति च चन्दनानि ॥सिद्धार्थयष्टिषु यथोत्तरहीयमानसन्तानभिन्नघनसूचिपरम्परासु ।द्वित्रावशेषकुसुमासु जनिक्रमेण पाकक्रमः कपिशिमानमुपादधाति ॥उदीच्यचण्डानिलाताडितासु सुलीनमीनासु जलस्य मूले ।नालावशेषाब्जलतास्विदानीं विलासवापीषु न याति दृष्टिः ॥माद्यन्मतङ्गः पृषतैकतोषी पुष्पद्वराहो धृतिमल्लुलायः ।दरिद्रनिन्द्यः सधनैकवन्द्यः स एष कालः शिशिरः करालः ॥अभानवबधूरोषस्वादुः करीषतनूनपा-दसरलजनाश्लेषक्रूरस्तुषारसमीरणः ।गलितविभवस्यज्ञेवाद्य द्युतिर्मसृणा रवे र्विरहिवनितावक्त्रौपभ्यं बिभर्त्तिं निशाकरः ॥स्त्रियः प्रकृतिपित्तलाः क्कथितकुङ्कुमालेपनैर् नितम्बफलकस्तनस्थलभुजोरुमूलपादिभिः ।इहाभिनवयौवनाः सकलरात्रिसश्लेषितैर् हरन्ति शिशिरज्वरारतिमतीव पृथ्वीमपि" ॥शिशिरः ॥"चैत्रे मदर्ध्दिः शुकसारिकाणां हारीतदात्यूहमधुव्रतानाम् ।पुंस्कोकिलानां सहकारबन्धुः मदस्य कालः पुररेषु एव ॥मनो ऽधिकं चात्र विलासलास्ये प्रेङ्खासु दोलासु च सुन्दरीणां ।गीते च गौरीचरितावतंसे पूजाप्रपञ्चे च मनोभवस्य ॥पुंस्कोकिलः कूजति पञ्चमेन बलाद्विलासा युवतौ स्फुरन्ति ।स्मरो वसन्ते ऽत्र नवैः प्रसूनैः स्वचापयष्टेर्घटनां करोति ॥पिनद्धमाहारजनांशुकानां सीमन्तसिन्दूरजुषां वसन्ते ।स्मरीकृते प्रेयसि भक्तिभाजां विशेषवेषः स्वदते वधूनाम् ॥अयं प्रसूनोद्धुरकर्णिकारः पुष्पपञ्चार्चितकाञ्चनारः ।विजृम्भणाकोविदकोविदारः कालो विकाशोद्यतसिन्दुवारः ॥रोहितकाम्रातककिङ्किराता मधूकमोचाः सह माधवीभिः ।जयन्ति शोभाञ्जनकश्च शाखी सकेसरः पुष्पभरैर्वसन्ते ॥यो माधवीमुकुलदृष्टिषु वेणिबन्धो यः कोकिलकलरुतेः कथने च लाभः ।पूजाविधिर्दमनकेन च यः स्मरस्य तस्मिन्मधुः स भगवान्गुरुरङ्गनानाम् ॥नालिङ्गितः कुरबकस्तलको न दृष्टो ना ताडितश्च चरणैः सुदृशामशोकः ।सिक्ता न वक्त्रमधुना बकुलश्च चैत्रे चित्रं तथापि भवति प्रसवावकीर्णाः ॥चैत्रे चित्रौ रक्तनीलावशोकौ स्वर्णाशोकस्तत्तृतीयश्च पीतः ।जैत्रं तन्त्रं तत्प्रसूनान्तरेभ्यश्चेतोयोनेः भूर्भुवः स्वस्त्रये ऽपि ॥गूवाकानां नालिकेरद्रुमाणां हिन्तालानां पाटलसीकिंशिकानाम् ।खर्जूराणां ताडताडीतरुणां पुष्पापीडन्यासहेतुर्वसन्तः ॥विकासकारी नवमल्लिकानां दलच्छिरीषप्रसवाभिरामः ।पुष्पप्रदः काञ्चनकेतकीनां ग्रीष्मो ऽयमुल्लासितधातकीकः ॥खर्जूरजम्बूपनसाम्रमोचप्रियालपूगीफलनालिकेरैः ।द्वन्द्वानि खेदालसतामुपस्य रतानुसन्धानमिहाद्रियन्ते ॥स्रोतांस्यनभ्भांसि सकूपकानि प्रपाः कठोरे ऽहनि पान्थपूर्णाः ।शुचौ समभ्यर्थितसक्तुपाने प्रगे च सायं च वहन्ति मार्गाः ॥यत्कायमानेषु दिनार्दिनिद्रा यत्स्नानकेलिर्दिवसावसाने ।यद्रात्रिशेषे सुरतावतारः स मुष्टियोगो घनघर्ममाथी ॥या चन्द्रिका चन्दनपङ्कहृद्या या जालमार्गानिलवीचिमाला ।या तालवृन्तैरुदबिन्दुवृष्टिर्-जलाञ्जलिं सा शुचये ददाति ॥कर्पूरचूर्णं सहकारभङ्गस्ताम्बूलमार्द्रक्रमुकोपकॢत्पम् ।हाराश्च तारास्तनुवस्त्रमेतन्महारहस्यं शिशिरक्रियायाः ॥मुक्तालताश्चन्दनपङ्कदिग्धा मृणालहारानुसृता जलार्द्राः ।स्त्रजश्च मौलौ स्मितचम्पकानां ग्रीष्मे ऽपि सो ऽयं शिशिरावतारः" ॥अत्र हि- "पच्यन्त इव भूतानि ताप्यन्त इव पांसवः ।क्कथ्यन्त इव तोयानि ध्मायन्त इव चाद्रयः ॥एणाः स्थलीषु मृगतृष्णिकया ह्रियन्ते स्रोतस्तनुत्वजनिता जलवेणिबन्धाः ।ताम्यत्तिमीनि च सरांसि जलस्य शेषाद् उच्चारघट्टिघटिकावलयाश्च कूपाः ॥करभाः शरभाः सरासभा मदमायान्ति भजन्ति विक्रियाम् ।करवीरकरीरपुष्पिणीः स्थलभूमीरधिरुह्य चासते ॥सहकाररसार्चिता रसाला जलभक्तं फलपानकानि मन्थाः ।मृगलावरसाः शृतं च दुग्ध स्मरसञ्जीवनमौषधं निदाधे ॥जलचन्दनचारवस्तारुण्यः सजलार्द्राः सहतारहारमालाः ।कदलीदलतल्पकल्पनस्थाः स्मरमाहूय निवेशयन्ति पार्श्वे ॥ग्रीष्मे चीरीनादवन्तो वनान्ताः पङ्काभ्यक्ताः सौरिभाः सेभकोलाः ।लोलज्जिह्वाः सर्पसारङ्गवर्गा मूलस्त्रस्तैः पत्रिणश्चांसदेशैः ॥हर्म्यं रम्यं चन्द्रिकाधौतपृष्टं कान्तोच्छिष्टा वारुणी वारिमिश्रा ।मालाः कण्ठे पाटला मल्लिकानां सद्यो ग्रीष्मं हन्त हेमन्तयन्ति ॥ग्रीष्मः ॥चतुरवस्थश्च ऋतुरुपनिबन्धनीयः ।तद्यथा सन्धिः, शैशवं, प्रौढिः, अनवृत्तिश्च ।ऋतुद्वयमध्यं सन्धिः ।शिशिरवसन्तसन्धिर्यथा- "त्युतसुमनसः कुन्दाः पुष्पोद्गमेष्वलसा द्रुमा मनसि च गिरं गृह्णन्तीमे गिरन्ति न कोकिलाः ।अथ च सवितुः शीतोल्लासं लुनन्ति मरीचयो न च जरठतामालम्बन्ते क्लमोदयदायिनीम्" ॥वसन्तशैशवम् - "गर्भग्रन्थिषु वीरुधां सुमनसो मध्ये ऽङ्कुरं पल्लवा वाञ्छामात्रपरिग्रहः पिकवधूकण्ठोदरे पञ्चमः ।किं च त्रीणि जगन्ति जिष्णु दिवसैर्द्विघत्रैर्मनोजन्मनो देवस्यापि चिरोज्भ्फितं यदि भवेदभ्यासवश्यं धनुः" ॥वसन्तप्रौढिः- "साम्यं सम्प्रति सेवते विचकिलं षाण्मासिकैर्मौक्तिकैः कान्तिं कर्षति काञ्चनारकुसुमं माज्जिष्टधौतात्पटात् ।हूणीनां कुरुते मधूकमुकुलं लावण्यलुण्टाकतां लाटीनाभिनिभं चकास्ति च पतद्वृन्ताग्रतः केसरम्" ॥अतिक्रान्तर्तुलिङ्गं यत्कुसुमाद्यनुवत्तते ।लिङ्गनुवृत्तिं तामाहुः सा ज्ञेया काव्यलोकतः ॥वर्षासु ग्रीष्मलिङ्गाब्जविकासानुवृत्तिः ।खं वस्ते कलविङ्ककण्ठमलिनं कादम्बिनीकम्बलं चर्चा पारयतीव दर्दुरकुलं कोलाहलैरुन्मदम् ।गन्धं मुञ्चति सिक्तलाजसदृशं वर्षेण दग्धा स्थली दुर्लक्ष्यो ऽपि विभाव्यते कमलिनीहासेन भासां पतिः ॥" एवमन्या अपि ।किञ्च- ग्रैष्मिकसमयविकासी कथितो धूलीकदम्ब इति लोके ।जलधरसमयप्रात्पौ स एव धाराकदम्बः स्यात् ॥यथा- "धूलीकदम्बपरिधूसरदिङ्मुखस्य रक्तच्छटासुरशरासनमण्टनस्य ।दीत्पायुधाशनिमुचो ननु नीलकण्ठ नोत्कण्ठसे समरवारिधरागमस्य" ॥जलसमयजायमानां जातिं यां कर्द्दमीति निगदन्ति ।सा शरदि महोत्सविनी गन्धान्वितषट्पदा भवति ॥यथा- "स्थूलावश्यायबिन्दुद्युतिदलितबृहत्कोरकग्रन्थिभाजो जात्या जालं लतानां जरटपरिमलप्लावितानां जजृम्भे ।नानाहंसोपधानं सपदि जलनिधेश्वोत्ससर्पापरस्य ज्योत्स्नाशुक्लोपधानं शयनमिव शशी नागभोगाङ्कमभ्भः" ॥स्तोकानुवृत्तिं केतक्या अपि केचिदिच्छन्ति ।यथा- "असूच्यतः शरत्कालः केतकीधूलिधूसरैः ।पद्मताम्रैर्नवायातश्चरणैरिव वासरैः" ॥शरद्भावानामनुवृत्तिरत्र बाणासनानां सकुरुण्टकानाम् ।हेमन्तवक्त्रे यदि दृश्यते ऽपि न दृश्यते बन्धविधिः कवीनाम् ॥हेमन्तशिशिरयोरैक्ये सर्वलिङ्गानुवृत्तिरेव ।उक्तं च ।"द्वादशमासः संवत्सरः, पञ्चर्तवो हेमन्तशिशिरयोः समासेन" ।मरुबकदमनकपुन्नागपुष्पलिङ्गानुवृत्तिभिः सुरभिः ।रचनीयश्चित्रश्रीः कश्चित्कुन्दानुवृत्त्या च ॥"गृहे वाहीकयूनां वहति दमनको मञ्जरीकर्णपूरान् उन्मादः पामरीणां मरुति मरुबकामोदिनि व्यक्तिमेति ।सद्यो भङ्गानुसारस्त्रुतसरभिशिराशीकरः साहकारः सर्परन्नम्भःशरावे रचयति च रसो रचकीचन्द्रकाणि ॥कुन्दे मन्दस्तमाले मुकुलिनि विकलः कातरः किङ्किराते रक्ताशोके सशोकश्चिरमतिविकचे चम्पके कुञ्चिताक्षः ।पान्थः खेदालसो ऽपि श्रवणकटुरटच्चक्रमभ्येति धुन्वन् सोत्कण्ठः षट्पदानां नवमधुपटलीलम्पटं कर्पटेन" ॥यथा वा- "धुनानः कावेरीपरिसरभुवश्चन्दनतरुन् मरुन्मन्दः कुन्दप्रकारमकरन्दानवकिरन् ।प्रियक्रीडाकर्षच्युतकुसुममामूलसरलं ललाटे लाटीलां लुठितमलकं ताण्डवयिति" ॥एवमन्याप्यनुवृत्तिः ।"विचकिलकेरसरपाटलिचम्पपुष्पानुवृत्तयो ग्रीष्मे ।तत्र च तुहिनर्तुभवं मरुबकमपि केचिदिच्छन्ति" ॥यथा- "कर्णे स्मेरं शिरीषं शिरसि विचकिलस्रग्लताः पाटलिन्यः कण्ठे मार्णालहारो वलयितमसिताभ्भोजनालं कलाच्योः ।समोदं चन्दनाभ्भः स्तनभुवि नयने म्लाननाञ्जिष्ठपृष्ठे गात्रं लोलज्जलार्द्रं जयति मृगदृशां ग्रौष्मिको वेष एषः" ॥यथाच - "अमिनवकुशसूचिस्पर्द्धि कर्णे शिरीषं मरुबकरिवारं पाटलादाम पण्ठे ।स तु सरसजलार्देन्मीलितः सुन्दरीणां दिनपरिणतिजन्मा को ऽपि वेषश्चकास्ति" ॥एवमुदाहरणान्तराणि ।"ऋतुभववृत्त्यनुवृत्ती दिङ्मात्रेणात्र सूचिते सन्तः ।शेषं स्वधिया पश्यत नामग्राहं कियद्ब्रूमः ॥देशेषु पदार्थानां व्यत्यासो दृश्यते स्वरूपस्य ।तन्न तथा बध्वीयात्कविबद्धमिह प्रमाणं नः" ॥शोभान्धोगन्धसरैः फलार्चनाभ्यां च पुष्पमुपयोनि ।षोढा दर्शितमेतत्स्यात्सत्पममनुपयोगि ॥यथा- यत्प्राचि मासे कुसुमं निबद्धं तदुत्तरे बालफलं विधेयम् ।तदग्रिमे प्रौढिधरं च कार्यं तदग्रिमे पाकपरिष्कृतं च ॥द्रुमोद्भवानां विधिरेषु दृष्टो बल्लीफलाना न महाननेहा ।तेषां द्विमासावधिरेव कार्यः पष्पे फले पाकविधौ च कालः ॥अन्यर्व्याजं बहिव्याजं बाह्यान्तर्व्याजमेव च ।सर्वव्याजं बहुव्याजं निर्व्याजं च तथा फलम् ॥लकुचाद्यन्तर्व्याजं तथा बहिर्व्याजमत्र मोचादि ।आम्राद्युभयव्याजं सर्वव्याजं च ककुभादि ॥पनसादि बहुव्याजं नीलकपित्थादि भवति निर्व्याजम् ।सकलफलानां षोढा ज्ञातव्यः कविभिरिति भेदः ॥एकद्वित्र्यादिभेदेन सामस्त्येनाथवा ऋतून् ।प्रबन्धेषु निबन्धीयात्क्रमेण व्युत्क्रमेण वा ॥न च व्युत्क्रमदोषो ऽस्ति कवेरर्थपथस्पृशः ।तथा तथा कापि भवेद् व्युत्क्रमो भूषाणां यथा ॥अनुसन्धानशून्यस्य भूषणं दूषणायते ।सावधानस्य च कवेर्दूषणं भूषणायते ॥इति कालविभागस्य दर्शिता वृत्तिरीदृशी ।कवेरिह महान्मोह इह सिद्धो महाकविः ॥इति राजशेखरकृतौ काव्यमीमांसायां कविरहस्ये प्रथमे ऽधिकरणे कालविभागो नाम अष्टादशो ऽध्यायःसमात्पमिदं प्रथममधिकरणं कविरहस्यं काव्यमीमांसायाम् ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP