संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|काव्यमीमांसा| पञ्चदशो ऽध्यायः काव्यमीमांसा प्रथमो ऽध्यायः द्वितीयो ऽध्यायः तृतीयो ऽध्यायः चतुर्थो ऽध्यायः पञ्चमो ऽध्यायः षष्ठो ऽध्यायः सप्तमो ऽध्यायः चतुर्थो ऽध्यायः नवमो ऽध्यायः दशमोऽध्यायः एकादशो ऽध्यायः द्वदशो ऽध्यायः त्रयोदशो ऽध्यायः चतुर्दशो ऽध्यायः पञ्चदशो ऽध्यायः षोडशो ऽध्यायः सप्तदशो ऽध्यायः अष्टादशो ऽध्यायः काव्यमीमांसा - पञ्चदशो ऽध्यायः संस्कृत कवि राजशेखरद्वारा द्वारा रचित काव्यमीमांसा अलंकार शास्त्र पर लिखा गया एक विशालकाय ग्रंथ था, जिसमें मूलत: 18 अधिकरण थे। राजशेखर महाराष्ट्र देशवासी थे और यायावर वंश में उत्पन्न हुए थे। Tags : kavyamimansarajashekharकाव्यमीमांसाराजशेखरसंस्कृत गुणसमयस्थापना Translation - भाषांतर गुणसमयस्थापना असतोगुणस्य निबन्धनम् ।यथा-यशोहासप्रभृतेः शौक्ल्यम्, अयशसः पापप्रभृतेश्च कार्ष्ण्यं, क्रोधानुरागप्रभृतेश्च रक्तत्वम् ।तत्र यशःशौक्ल्यम्- "स्तेमः स्तोको ऽपि नाङ्गे श्वसितमविकलं चक्षुषां सैव वृत्तिर् मध्येक्षीराब्धि मग्नाः स्फुटमथ च वयं को ऽयमीदृक्प्रकारः ।इत्थं दिग्भित्तिरोधःक्षतविसरतया मांसलैस्त्वद्यशोभिः स्तोकावस्थानदुःस्थैस्त्रिजगति धवले विस्मयन्ते मृगाक्ष्यः" ॥हासशौक्ल्यम्- "अट्टहासच्छलेनास्याद्यस्य फेनौघपाण्डुराः ।जगत्क्षय इवापीताः क्षरन्ति क्षीरसागराः" ॥अयशः कृष्णत्वम् - "प्रसरन्ति कीर्त्तयस्ते तव च रिकूणामकीर्त्तयो युगपत् ।कुवलयदलसंवलिताः प्रतिदिनमिव मालतीमालाः" ॥पापकार्ष्ण्यम्- "उत्खातनिर्मलमयूखकृपाणलेखाश्यामायिता तनुरभूद्धयकन्धरस्य ।सद्यः प्रकोपकृतकेशववंशनाशसङ्कल्पसज्जनितपापमलीमसेव" ॥क्रोधरक्तता- "आस्थानकुट्टिमतलप्रतिबिम्बितेन कोपप्रभाप्रसरपाटलविग्रहेण ।भौमेन मूर्च्छितरसातलकुक्षिभाजा भूमिश्चचाल चलतोदरवर्त्तनेव" ॥अनुरागरक्तता यथा- "गुणानुरागमिश्रेण यशसा तव सर्पता ।दिग्वधूनां मुखे जातमकस्मादर्ध्दकुङ्कुमम्" ॥सतो ऽपि गुणस्यानिबन्धनम्, (यथा)- कुन्दकुड्मलानां कामिदन्तानां च रक्तत्वं, कमलमुकुलप्रभृतेश्च हरितत्वं, प्रियङ्गुषुष्पाणां च पीतत्वम् ।कुन्दकुड्मलाद्यरक्तता- "द्योतितान्तः सभैः कुन्दकुड्मलाग्रदतः स्मितैः ।स्नपितेवाभवत्तस्य शुद्धवर्णा सरस्वती" ॥पद्ममुकुलाहरितत्वम्- "उद्दण्डोदरपुण्डरीकमुकुलभ्रान्तिस्पृशा दंष्ट्रया मग्नां लावणसैन्धवे ऽम्भसि महीमुद्यच्छतो हेतया ।तत्कालाकुलदेवदानवकुलैरुत्तालकोलाहलं शौरेरादिवराहलीलमवतादभ्रंलिहाग्रं वपुः" ॥प्रियङ्गुपुष्पापीतत्वम्- "प्रियङ्गुश्याममम्भोधिरन्ध्रणां स्तनमण्जलम् ।अलङ्कर्तुमिव स्वच्छाः सूते मौक्तिकसम्पदः" ॥गुणनियमस्तु तद्यथा-सामान्योपादाने माणिक्यानां शोणता, पुष्पाणां शुक्लता, मेघानां शुक्लता, मेघानां कृष्णता च ।तत्र प्रथमः- "सांयात्रिकैरविरतोपहृतानि कूटैः श्यामासु तीरघनराजिषु सम्भृतानि ।रन्तानि ते दधति कञ्चिदिहायताक्षि मेधोदरोदितदिनाधिपबिम्बशङ्काम्" ॥पुष्पशुक्लता- "पुष्पं प्रवालोपहितं यदि स्यान्मुक्ताफलं वा स्फुटविद्रुमस्थम् ।ततो ऽनुकुर्याद्विशदस्य तस्यास्ताभ्रौष्ठपर्यस्तरुचः स्मितस्य" ॥मेघकार्ष्ण्यम्- "मेघश्यामेन रोमेण पूतवेदिर्विमानराट् ।मध्ये महेन्द्रनीलेन रत्नराशिरिवावभौ" ॥कृष्णनीलयोः, कृष्णहरितयोः, कृष्णश्यामयोः, पीतरक्तयोः, शुक्लगौरयोरेकत्वेन निबन्धनं च कविसमयः ।कथं कृष्णनीलयोरैक्यम्- "नदीं तूर्णं कर्णोप्यनुसृतपुलिनां दाक्षिणात्याङ्गनाभिः समुत्तीर्णो वर्णामुभयतटचलाबद्धवानीरहारम् ।ततः सह्यस्योच्चैः स्वसलिलनिवहो भाति नीलः स यस्याः प्रियस्यांसे पीने लुलित इव घनः केशपाशः सुकेश्याः" ॥कृष्णहरितयोरैक्यम्- "मरकतसदृशं च यामुनं स्फटिकशिलाविमलं च जाह्नवम् ।तदुभयमुदकं पुनातु वो हरिहरयोरिव सङ्गतं वपुः" ॥कृष्णश्यामलयोरैक्यम्- "एतत्सुन्दरि नन्दनं शशिमणिस्निग्धालवालद्रुमं मन्दाकिन्यभिषिक्तमौक्तिकशिले मेरोस्तटे नन्दति ।यत्र श्यामनिशासु मुञ्चति मिलन्मन्तः प्रदोषानिलाम् उद्दामामरयोषितामभिरतं कल्पद्रुमश्चन्द्रिकाम्" ॥पीतरक्तयोरैक्यम् - "लेखया विमलविद्रुमभासा सन्ततं तिमिरमिन्दुरुदासे ।दंष्ट्रया कनकभङ्गपिशङ्ग्या मण्डलं भुव इवादिवराहः" ॥शुक्लगौरयोरैक्यम् - "कैलासगौरं वृषमारुरुक्षोः पादार्पणानुग्रहपूतष्ठम् ।अवेहि मां किङ्करमष्टमूर्त्तेः कुम्भोदरं नाम निकुम्भपुत्रम्" ॥एवं वर्णान्तरेष्वपि ।चक्षुरादेरनेकवर्णोपवर्णनम् ।तत्र चक्षुषः शुक्लता- "तिष्ठन्त्या जनसङ्कुले ऽपि सुदृशा सायं गृहप्राङ्गणे तद्द्वारं मयि निःसहालसतनौ वीङ्खामृदु प्रेङ्खति ।हीनभ्राननयैव लोलसरलं निःश्वस्य तत्रान्तरे प्रेमार्द्राः शशिखण्डपाण्डिममुषो मुक्ताः कटाक्षच्छटाः" ॥श्यामता- "अथ पथि गमयित्वा रम्यकॢत्पोपकार्ये कतिचिदवनिपालः शर्वरीः शर्वकल्पः ।पुनरविशदयोध्यां मैथिलीदर्शिनीनां कुवलयितगवाक्षां लोचनैरङ्गनानाम्" ॥कृष्णता- "पादन्यासक्वणितरशनास्तत्र लीलावधूतै रत्नच्छायाखचितवलिभिश्चामरैः क्लान्तहस्ताः ।वेश्यास्त्वत्तो नखपदसुखान्प्राप्य वर्षाग्रबिन्दू-नामोक्ष्यन्ते त्वयि मधुकरश्रेणिदीर्घान् कटाक्षान्" ॥मिश्रवर्णता- "तामुत्तीर्य व्रज परिचितभ्रूलताविभ्रमाणां पक्ष्योत्क्षेपादुपरि विलसत्कृष्णशारप्रभाणाम् ।कुन्दक्षेपानुगमधुकरश्रीमुषामात्मबिम्बं पात्रीकुर्वन्दशपुरवधूनेत्रकौतूहलानाम्" ॥इति राजशेखरकृतौ काव्यमीमांसायां कविरहस्ये प्रथमे ऽधिकरणे गुणसमयस्थापना पञ्चदशो ऽध्यायः ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP