संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|काव्यमीमांसा| एकादशो ऽध्यायः काव्यमीमांसा प्रथमो ऽध्यायः द्वितीयो ऽध्यायः तृतीयो ऽध्यायः चतुर्थो ऽध्यायः पञ्चमो ऽध्यायः षष्ठो ऽध्यायः सप्तमो ऽध्यायः चतुर्थो ऽध्यायः नवमो ऽध्यायः दशमोऽध्यायः एकादशो ऽध्यायः द्वदशो ऽध्यायः त्रयोदशो ऽध्यायः चतुर्दशो ऽध्यायः पञ्चदशो ऽध्यायः षोडशो ऽध्यायः सप्तदशो ऽध्यायः अष्टादशो ऽध्यायः काव्यमीमांसा - एकादशो ऽध्यायः संस्कृत कवि राजशेखरद्वारा द्वारा रचित काव्यमीमांसा अलंकार शास्त्र पर लिखा गया एक विशालकाय ग्रंथ था, जिसमें मूलत: 18 अधिकरण थे। राजशेखर महाराष्ट्र देशवासी थे और यायावर वंश में उत्पन्न हुए थे। Tags : kavyamimansarajashekharकाव्यमीमांसाराजशेखरसंस्कृत शब्दार्थहरणोपायाः Translation - भाषांतर शब्दार्थहरणोपायाः कविविशेषाः, तत्र शब्दहरणोपायाः ।शब्दहरणोपायाः ।परप्रयुक्तयोः शब्दार्थयोरुपनिबन्धो हरणम् ।तद्द्विधा परित्याज्यमनुग्राह्यं च ।तयोः शब्दहरणमेव तावत्पञ्चधा पदतः, पादतः, अर्द्धतः, वृत्ततः, प्रबन्धतश्च ।"तत्रैकपदरणं न दोषाय" इति आचार्याः ।"अन्यत्र द्वयर्थपदात्" इति यायावरीयः ।तत्र श्लिष्टस्य श्लिष्टपदेन हरणम्- "दूरकृष्टशिलीमुखव्यतिकारान्नो किं किरातानिमा नाराद्वयावृतपीतलोहितमुखान्किं वा पलाशानपि ।पान्थाः केसरिणं न पश्यत पुरोप्येनं वसन्तं वने मूढा रक्षत जीवितानि शरणं यात प्रियां देवताम्" ॥यथा च- "मा गाः पान्थ प्रियां त्यक्त्या दूराकृष्टशिलीमुखम् ।स्थितं पन्थानमावृत्य किं किरातं न पश्यसि" ॥श्लिष्टपदैकदेशेन हरणम्- "नाश्चर्यं यदनार्यात्पावस्तप्रीतिरयं मयि ।मांसोपयोगं कुर्वीत कथं क्षुद्रहितो जनः" ॥यथा च- "कोपान्मानिनि किं स्फुरत्यतितरां शोभाधरस्ते ऽधरः किं वा चुम्बनकारणाद्दयित नो वायोर्विकारादयम् ।तस्मात्सुभ्रु सुगन्धिमाहितरसं स्निग्धं भजस्वादरान् मुग्धे मांसरसं ब्रुवन्तिति तया गाढं समालिङ्गितः" ॥श्लिष्टस्य यमकेन हरणम्- "हलमपारयोनिधिविस्तृतं प्रहरता हलीना समराङ्गणे ।निजयशश्च शशाङ्ककलामलं निरवधीरितमाकुलमासुरम्" ॥यथा च- "दलयता विशिखैर्बलमुन्मदं निरवधीरितमाकुलमालुरम् ।दशसु दिक्षु च तेन यशः सितं निरवधीरितमाकुलमासुरम्" ॥श्लिष्टस्य प्रश्नोत्तरेण हरणम्- "यस्यां भुजङ्गवर्गः कर्णोयतेक्षणं कामिनीववदनं च" ॥यथा च- "किं करोति कियत्कालं वेश्यावेश्मनि कामुकः ।कीदृशं वदनं वीक्ष्य तस्याः कर्णायतेक्षणम्" ॥यमकस्य यमकेन हरणम्- "वरदाय नमो हरये पतति जनो ऽयं स्मरन्नपि न मोहरये ।बहुशश्चक्रन्द हता मनसि दितिर्येन दैत्यचक्रं दहता" ॥यथा च- चक्रं दहतारं चक्रन्द हतारं खङ्गेन तवाजौ राजन्नरिनारी ।एवमन्योन्यसमन्वये ऽन्ये ऽपि भेदाः ।नन्विदमुपदेश्यमेव न भवति ॥यदित्थं कथयन्ति- "पुंसः कालातिपातेन चौर्यमन्यद्विशीर्यति ।अपि पुत्रेषु पौत्रेषु वाक्चौर्यं च न शीर्यति" ॥"अयमप्रसिद्धः प्रसिद्धिमानहम्ष, अयमप्रतिष्ठः प्रतिष्ठावानहम्, अप्रक्रान्तमिदमस्य संविधानकं प्रक्रान्तं मम, गूडूचीवचनो ऽयं मृद्वीकावचनो ऽहम्, अनादृतभाषाविश्षो ऽयमहमादृतभाषाविशेषः, प्रशान्तज्ञातृकमिदं, देशान्तरितकर्त्तृकमिदम्, उच्छन्ननिबन्धनमूलमिदं, म्लेच्छितकोपनिबन्धमूलमिदमित्येवमादि भिः कारणैः शब्दहरणे ऽर्थहरणे चाभिरमेत" ॥इत्य् अवन्तिसुन्दरी ।"त्रिभ्यः पदेभ्यः प्रभृति त्वश्लिश्टेभ्यो हरणम्" इति आचार्याः- यथा- "स पातु वो यस्य जटाकलापे स्थितः शशाङ्कः स्फुटहारगौरः ।नीलोत्पलानामिव नालपुञ्जे निद्रायमाणः शरदीव हंसः" ॥यथा च- "स पासु वो यस्य हतावशेषास्तत्तुल्यवर्णाञ्जनरञ्जितेषु ।लावण्ययुक्तेष्वपि वित्रसन्ति दैत्याः स्वकान्तानयनोत्पलेषु" ॥"न" इति यायावरीयः ।उल्लेखवान्पदसन्दर्भः परिहरणीयो नाप्रत्यभिज्ञायातः पादो ऽपि ।तस्यापि साम्ये न किञ्चन दृष्टं स्यात् ।यथा- "इत्युक्तवानुक्तिविशेषरम्यं मनः समाधाय जयोपपत्तौ ।उदारचेता गिरमित्युदारां द्वैपायनेनाभिदधे नरेन्द्रः" ॥यथा च- "इत्युक्तवचनुक्तिविशेषरम्यं रामानुजन्मा विरराम मानी ।संक्षित्पमात्पावसरं च वाक्यं सेवाविधिज्ञैः पुरतः प्रभूणाम्" ॥उल्लेखवान्यथा- "नमः संसारनिर्वाणविषामृतविधायिने ।सत्पलोकोर्मिभङ्गाय शङ्करक्षीरसिन्धवे" ॥यथा च- "प्रसरद्बिन्दुनादाय शुद्धामृतमयात्मने ।नमो ऽनन्तप्रकाशाय शङ्करक्षीरसिन्धवे" ॥"पाद एवान्यथात्वकरणकारणं न हरणम्, अपि तु स्वीकरणम्" इति आचार्याः ।यथा--- "त्यागाधिकाः स्वर्गमुपाश्रयन्ते त्यागेन हीना नरक व्रजन्ति ।न त्यागिनां किञ्चिदसाध्यमस्ति त्यागो हि सर्वव्यसनानि हन्ति" ॥यथा च- "त्यागो हि सर्वव्यसनानि हन्तीत्यलीकमेतद्भुवि सम्प्रतीतम् ।जातानि सर्वव्यसनानि तस्यास्त्यागेन मे मुग्धविलोचनायाः" ॥तदिदं स्वीकरणापरनामधेयं हरणमेव (इति यायावरीयः-) ।तद्वदर्ध्दप्रयोगे ऽपि ।यथा- "पादस्ते नरवर दक्षिणे समुद्रे पादो ऽन्यो हिमवति हेमकूटलग्ने ।आक्रामत्यलघु महीतलं त्वयीत्थं भूपालाः प्रणतिमपास्य किन्नु कुर्युः" ॥यथा चोत्तरार्द्धे- "इत्थं ते विधृतपदद्वयस्य राजन् नाश्चर्यं कथमिव सीवनी न भिन्ना" ॥एवं व्यस्तार्द्धप्रयोगे ऽपि ।यथा- "तत्तावदेव शशिनः स्फुरितं महीयो यावन्न तिग्मरुचिमण्डलमभ्युदेति ।अभ्युद्गते सकलधामनिधौ तु तस्मिन् निन्दोः सिताभ्रशकलस्य च को विशेषः" ॥यथा च-- "तत्तावदेव शशिनः स्फिरितं महीयो यावन्न किञ्चिदपि गौरितरा हसन्ति ।ताभिः पुनर्विहसिताननपङ्कजाभिर् इन्दोः सिताभ्रशकलस्य च को विशेषः" ॥पाद एवान्यथात्वकरणं न स्वीकरणं पादोनहरणं वा ।यथा- "अरण्ये निर्जने रात्रावन्तर्वेश्मनि साहसे ।न्यासापह्नवने चैव दिव्या सम्भवति क्रिया" ॥यथा चोत्तरार्द्धे- "तन्वङ्गी यदी लभ्येत दिव्या सम्भगवति क्रिया" ।यथा वा--- "यस्य केशेषु जीमूता नद्यः सर्वाङ्गमन्धिषु ।कुक्षौ समुद्राश्चत्वारस्तस्मै तोयात्मने नमः" ॥यथा चोत्तरार्द्धे--- "कुक्षौ समुद्राश्चत्वारः स सहेत स्मरानलम्" ।भिन्नार्थानां तु पादानामेकेन पादेनान्वयनं कवित्वमेव ।यथा--- "किमिह किमपि दृष्टं स्थानमस्ति श्रुतं वा व्रजति दिनकरो ऽयं यन्न नास्तं कदाचित् ।भ्रमति विहगसार्थानित्थमापृच्छमानो रजनिविरहभीतश्चक्रवाको वराकः" ॥यथा च- "जयति सितविलोलव्तयालयज्ञोपवीती घनकपिलटानतर्भान्तगङ्गाजलौघः ।अविदितमृगजिह्नमिन्दुलेखां दधानः परिणतशितिकण्ठश्यामकण्ठः पिनाकी" ॥यथा च- "कुमुदवनमपश्रि श्रीमदम्भोजखण्डं त्यजति मदमुलूकः प्रीतिमांश्चक्रवाकः ।उदयमहिमरश्मिर्याति शीतांसुरस्तं हतविधिललितानां ही विचित्रो विपाकः ॥" यथा च- "किमिह किमपि दृष्टं स्थानमस्ति श्रुतं वा घनकपिलजटान्तर्भ्रान्तगङ्गाजलौधः ।निवसति स पिनाकी यत्र यायां तदस्मिन् हतविधिललितानां ही विचित्रो विपाकः" ॥पादोनवत्कतिपयपदप्रयोगो ऽपि यथा- "या व्यापारवती रसान् रसयितुं काचित्कवीनां नवा दृष्टिर्या परिनिष्ठितार्थविषयोन्मेषा च वैपश्चिती ।ते द्वे अप्यवलम्ब्य विश्वमनिशं निर्वार्णयन्तो वयं श्रान्ता नैव लब्धमब्धिशयन त्वद्भक्तितुल्यं सुखम्" ॥यथा च चतुर्थपादे- "श्रान्ता नैव च लब्धमुत्पलदृशां प्रेम्णः समानं सुखम्" ॥पादैकदेशाग्रहणमपि पदैकदेशोपलक्षणपरम् यथा- "असकलहसित्वात्क्षालितानीव कान्त्या मुकुलितनयनत्वाद्व्यक्तकर्णोत्पलानि ।पिबति मधुसुगन्धीन्याननानि प्रियाणां त्वयि विनिहितभारः कुन्तलानामधीशः" ॥यथा चोत्तरार्धे- "पिबतु मधुसुगन्धीन्याननानि प्रियाणां मयि विनिहितभारः कुन्तलानामधीशः" ।वाक्यस्यान्यथा व्याख्यानमपि न स्वीकरणं हरणं वा ।यथा- "सुभ्रु!त्वं कुपितेत्यपास्तमशनं त्यक्ता कथा योषितां दूरादेव मयोज्भ्फताः सुरभयः स्रग्दामधूपादयः ।कोपं रागिणि मुञ्च मय्यवनते दृष्टे प्रसीदाधुना सद्यस्त्वद्विरहाद्भवन्ति दयिते सर्वा ममान्धा दिशः" ॥एतञ्च कान्ताप्रसादनपरं वाक्यं कुपितदृष्टिपरतया व्यख्यातं, न स्वीकृतं हृतं वा ।यत्तु परकीयं स्वीयमिति प्रोक्तानामन्यतमेन कारणेन विलपन्ति, तन्न केवलं हरणम्, अपि तु दोषोदाहरणम् ।मुक्तकप्रबन्धविषयं तत् ।मूल्यक्रयो ऽपि हरणमेव ।वरमप्रात्पिर्यशसो न पुनर्दुर्यशः ।(सभापतिस्तु द्विधा, उपजीव्य, उपजीवकश्च ।तत्रोपजीवनमात्रेण न कश्चिद्दोषः ।यतः सर्वो ऽपि परेभ्य एव व्युत्पद्यते, केवलं तत्र समुदायो गुरुः) "तद्वहक्तिहरणम्" इति आचार्याः ।यथा - "ऊरुद्वयं सरसकदलीकाण्डसब्रह्मचारि" ।यथा च -- "उरुद्वयं कदलकन्दलयोः सवंशं श्रोणिः शिलाफलकसोदरसन्निवेशा ।वक्षः स्तनद्वितयताडितकुम्भशोभं सब्रह्मचारि शशिसश्च मुखं मृगाक्ष्याः" ॥उक्तयो ह्यर्थान्तरसङ्क्रान्ता न प्रत्यभियाज्ञन्ते, स्वदन्ते च॑ तदर्थस्तु हरणादपि हरणं स्युः" इति यायावरीयः ।"नास्त्यचौरः कविजनो नास्त्यचौरो वणिग्जनः ।स नन्दति विना वाच्यं यो जानात् निगूहितुम् ॥उत्पादकः कविः कश्चित्कश्चिञ्च परिवर्त्तकः ।आच्छादकस्तथा चान्यस्तथा संवर्गको ऽपरः ॥शब्दार्थोक्तिषु यः पश्चेदिह किञ्चन नूतनम् ।उल्लिखेत्किञ्चन प्राच्यं मन्यतां स महाकविः" ॥इति राजशेखरकृतौ काव्यमीमांसायां कविरहस्ये प्रथमे ऽधिकरणे एकादशो ऽध्यायः शब्दहरणानि ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP