संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|काव्यमीमांसा| द्वदशो ऽध्यायः काव्यमीमांसा प्रथमो ऽध्यायः द्वितीयो ऽध्यायः तृतीयो ऽध्यायः चतुर्थो ऽध्यायः पञ्चमो ऽध्यायः षष्ठो ऽध्यायः सप्तमो ऽध्यायः चतुर्थो ऽध्यायः नवमो ऽध्यायः दशमोऽध्यायः एकादशो ऽध्यायः द्वदशो ऽध्यायः त्रयोदशो ऽध्यायः चतुर्दशो ऽध्यायः पञ्चदशो ऽध्यायः षोडशो ऽध्यायः सप्तदशो ऽध्यायः अष्टादशो ऽध्यायः काव्यमीमांसा - द्वदशो ऽध्यायः संस्कृत कवि राजशेखरद्वारा द्वारा रचित काव्यमीमांसा अलंकार शास्त्र पर लिखा गया एक विशालकाय ग्रंथ था, जिसमें मूलत: 18 अधिकरण थे। राजशेखर महाराष्ट्र देशवासी थे और यायावर वंश में उत्पन्न हुए थे। Tags : kavyamimansarajashekharकाव्यमीमांसाराजशेखरसंस्कृत अर्थहरणोपायाः Translation - भाषांतर अर्थहरणोपायाः, कविप्रभेदाः, प्रतिबिम्ब-कल्पविकल्पस्य समीक्षा च ।"पुराणकविक्षुण्णे वर्त्मनि दुरापमस्पृष्टं वस्तु, ततश्च तदेव संस्कृर्तुं प्रयतेत" इति आचार्याः ।"न" इति वाक्पतिराजः ।"आसंसारमुदारैः कविभिः प्रतिदिनगृहीतसारो ऽपि ।अद्याप्यभिन्नमुद्रो विभाति वाचां परिस्यन्दः" ॥तत्प्रतिभासाय च परप्रबन्धेष्ववदधीत ।"तदवगाहने हि तदेकयोनयो ऽर्थाः पृथक् पृथक् प्रथन्ते" इत्येके ।"तत्रत्यानामर्थानां छायया परिवृत्तिः फलम्" इत्यपरे ।महात्मनां हि संवादिन्यो बुद्धय एकमेवार्थमुपस्थापयन्ति, तत्परित्यागायतानाद्रियेत इति च केचित् ।"न" इति यायावरीयः ।सारस्वतं चक्षुरवाङ्मनसगोचरेण प्रणिधानेन दृष्टमदृष्टं चार्थजातं स्वयं विभजति ।तदाहुः- सुत्पस्यापि महाकवेः शब्दार्थौ सरस्वती दर्शयति ।तदितरस्य तत्र जाग्रतो ऽप्यन्धं चक्षुः ।अन्यदृष्टचरे ह्यर्थे महाकवयो जात्यन्धास्तद्विपरीते तु दिव्यदृशः ।न तत् त्र्यक्षाः सहस्रोक्षो वा यञ्चर्मचक्षुषो ऽपि कवयः पश्यन्ति ।मदिदर्पणे कवीनां विश्वं प्रतिफलति ।कथं नु वयं दृश्यामह इति महात्मनामहम्पूर्विकयैव शब्दार्थाः पुरो धावन्ति ।यत्सिद्धप्रणिधाना योगिनः पश्यन्ति, तत्र वाचा विचरन्ति कवयः इत्यनन्ता महाकविषु सूक्तयः (इति) ।"समस्तमर्स्ति" किन्तु त्रिपथमर्थमध्यगीष्महि ।इति यायावरीयः ।यदुतान्ययोनिर्निह्णुतयोनिरयोनिश्च ।तत्रान्ययोनिद्विधा प्रतिबिम्बकल्पः, आलेख्ययप्रख्यश्च ।निह्नुतयोनिरपि द्विधा तुल्यदेहितुल्यः परपुरप्रवेशसदृश्च ।अयोनिः पुनरेकादृश एव ।तत्र- अर्थः स एव सर्वो वाक्यान्तरविरचनापरं यत्र ।तदपरमार्थविभेदं काव्यं प्रतिबिम्बिकल्पं स्यात् ॥यथा-- "ते पान्तु वः पशुपतेरलिनीलभासः कण्ठप्रदेशघटिताः फणिनः स्फुरन्तः ।चन्द्रामृदाम्बुकणसेकसुखप्ररुढैर् यैरङ्कुरैरिव विराजति कालकूटः" ॥यथा च- "जयन्ति नीलकण्ठस्य कण्ठे नीलाः महाहयः ।गलद्गङ्गाम्बुसंसिक्तकालकूटाङ्कुरा इव" ॥कियताषि यत्र संस्कारकर्मणा वस्तु भिन्नवद्भाति ।तत्कथितमर्थचतुरैरालेख्यप्रख्यमिति काव्यम् ॥तत्रैवार्थे यथा- "जयन्ति धवलव्यालाः शम्भोर्जूटावलम्बिनः ।गलद्गङ्गाम्बुसंसिक्तचन्द्रकन्दाङ्कुरा इव" ॥विषयस्य यत्र भेदे ऽप्यभेदबुद्धिर्नितान्तसादृश्यात् ।तत्तुल्यदेहितुल्य काव्यं बध्नन्ति सुधियो ऽपि ॥यथा-- "अवीनादौ कृत्वा भवति तुरगो यावदवधिः पशुर्धन्यस्तावत्प्रतिवसति यो जीवति सुखम् ।अमीषां निर्माणं किमपि तदभूद्दग्धकरिणां वनं वा क्षेणीभृद्भवनमथवा येन शरणम्" ॥अत्रार्थे-- "प्रतिगृहमुपलानामेक एव प्रकारो म्रुहुरुपकरणत्वादर्घिताः पूजिताश्च ।स्फुरति हतमणीनां किन्तु तद्धाम येन क्षितिपतिभवने वा स्वाकरे वा निवासः" ॥मूलैक्यं यत्र भवेत्परिकरबन्धस्तु दूरतो ऽनेकः ।तत्परपुरप्रवेशप्रतिमं काव्यं सुकविभाव्यम् ॥यथा-- "यस्यारातिनितम्बिनीभीरभितो वीक्ष्याम्बरं प्रावृषि स्फूर्जद्गर्जितनिर्जिताम्बुधिरवस्फाराभ्रवृन्दाकुलम् ।उत्सृष्टप्रसभाभिषेणनभयस्पष्टप्रमोदाश्रुभिः किञ्चित्कुञ्चितलोचनाभिरसकृद् घ्राताः कदम्बानिलाः" ॥अत्रार्थे-- "आच्छिद्य प्रियतः कदम्बकुसुमं यस्यारिदारैर्नवं यात्राभङ्गविधायिनो जलमुचां कालस्य चिह्नं महत् ।हृष्यद्भिः परिचुम्बुतं नयनयोर्न्यस्तं हृदि स्थापितं सीमन्ते निहितं कथञ्चन ततः कार्णावतंसीकृतम् ॥" तदेतच्चतुष्टयनिबन्धनाश्च कवीनां द्वात्रिंशद्धरणोपायाः ।अमीषां चार्थानामन्वर्था अयस्कान्तवञ्चत्वारः कवयः पञ्चमश्चादृष्टचरार्थदर्शी ।तदाहुः- "भ्रामकश्चुम्बकः किञ्च कर्षको द्रावकश्च यः ।स कविर्लौकिको ऽन्यस्तु चिन्तामणिरलौकिकः ॥तन्वानो ऽनन्यदृष्टत्वं पुराणस्यापि वस्तुनः ।यो ऽप्रसिद्धयादिभिर्भाभ्यत्यसौ स्याद् भ्रामकः कविः ॥यश्चुम्बति परस्यार्थं वाक्येन स्वेन हारिणा ।स्तोकार्पितनवच्छायं चुम्बकः स कविर्मतः ॥परवाक्यार्थमाकृष्य यः स्ववाचि निवेशयेति ।समुल्लेकेन केनापि स स्मृतः कर्षकः कविः ॥अप्रत्यभिज्ञेयतया स्ववाक्ये नवतां नयेत् ।यो द्रावयित्वा मूलार्थं द्रावकः स भवेत्कविः ॥चिन्तासमं यस्य रसैकसूतिरुदेति चित्राकृतिरर्थसार्थः ।अदृष्टपूर्वो निपुणैः पुराणैः कविः स चिन्तामणिरद्वितीयः" ॥तस्य चाचोनिरर्थः ।स च त्रिधा लौकिकालौकिकभेदेन, तयोर्मिश्रत्वेन च ।लौकिकः - "मा कोशकारलतिके वह वर्णगर्वं किं डम्बरेण चणिके तव कौसुमेन ।पुण्ड्रेक्षुयष्टिरियमेकतरा चकास्तु या स्यन्दते रसमृते ऽपि हि यन्त्रयोगात्" ॥अलौकिकः- "देवी पुत्रमसून नृत्यत गणाः किं तिष्ठतेत्युद्भुजे" हर्षाद्भृङ्गिरिटावुदाः हृतगिरा चामुण्डयालिङ्गिते ।पायाद्वो जितदेवदुन्दुभिघनध्वानप्रवृत्तिस्तयोर् अन्योन्याङ्कनिपातजर्जरजरत्स्थूलास्थिजन्मा रवः" ॥मिश्रः- "स्थिते कुक्षेरन्तर्मुरचयिनि निःश्वासमरुतो जनन्यास्तन्नाभीसरसिजपरागोत्करमुचः ।निपाताः सानन्दं रचितफणचक्रेण हलिना लमन्तादस्यासुः प्रतिदिवसमेनांसि भवतः" ॥तेषां च चतुर्णामर्थानाम्- चत्वार एते कथिता मयैव ये ऽर्थाः कवीनां हरणोपदेशे ।प्रत्तयेकमष्टत्ववशाद्भवन्ति द्वात्रिंशता ते ऽनुगताः प्रभेदैः ॥तत्र प्रतिबिम्बकल्पविकल्पाः ।स एवार्थः पौर्वापर्यविपर्यासाद् व्यस्तकः ।यथा- "दृष्ट्वान्येभं छेदमुत्पाद्य रज्ज्वा यन्तुर्वाचं मन्यमानस्तृणाय ।गच्छन्दघ्रे नागराजः करिण्या प्रेम्णा तुल्यं बन्धनं नास्ति जन्तोः" ॥अत्रार्थे- "निर्विवेकमनसो ऽपि हि जन्तोः प्रेमबन्धनमशृङ्खलदाम ।यत्प्रति प्रतिगजं गजराजः प्रस्थितश्चिरमधारि करिण्या" ॥बृहतो ऽर्थस्यार्द्धप्रणयनं खण्डम् ।"पुरा पाण्डुप्रायं तदनु कपिशिन्मा कृतपदं ततः पाकोद्रेकाररुणगुणसंवर्गितवपुः ।शनैः शोषारम्भे स्थपुटनिजविष्कम्भविषमं वने वीतामोदं बदरमरसत्वं कलयति" ॥अत्रार्थे- "पाकक्रियापरिचयप्रगुणीकृतेन संवर्द्धितारुणगुणं वपुषा निजेन ।आपादितस्थपुटसंस्यितिशोषपोषादेतद्वने विरसतां बदरं बिभर्त्ति" ॥संक्षित्पार्थविस्तरेण तैलबिन्दुः ।यथा- "यस्य तन्त्रभराक्रान्त्या पातालतलगामिनी ।महावराहृदंष्ट्राया भूयः सस्मार मेदिनी" ॥अत्रार्थे- "यत्तन्त्राक्रान्तिमज्जत्पृथुलमणिशिलाशल्यवेल्लत्फणान्ते क्लान्ते पत्यावहीनां चलदचलमहास्तम्भसम्भारसीमा ।सस्मार स्फारचन्द्रद्युति पुनरवनिस्तद्धिरण्याक्षवक्षः-स्थूलास्थिश्रेणिशाणानिकाषणसितमप्याशु दंष्ट्राग्रमुग्रम्" ॥अन्यतमभाषानिबन्द्धं भाषान्तरेण परिवर्त्त्यत इति नटनेपथ्यम् ।यथा- "नेच्छै पासासंकी काओ दिण्णं पि पहिअघरिणीए ।ओहत्तकरयलोग्गलियवलयमज्झदिट्रिठां पिण्डं" ॥("नेच्छति पाशाशङ्की काको दत्तमपि पथिकगृहिण्या ।अनवरतकरतलोद्गतवलयमध्यस्थितं पिण्डम्" ॥) अत्रार्थे- "दत्तं पिण्डं नयनसलिलक्षालनाधौतगण्डं द्वारोपान्ते कथमपि तया सङ्गमाशानुबन्धात् ।वक्रग्रीवश्चलनतशिराः पार्श्रसञ्चारिचक्षुः पाशाशङ्की गलितवलयं नैनमश्नाति काकः" ॥छन्दसा परिवृत्तिश्छन्दोविनिमयः ।यथा- "कान्ते तल्पमुपागते विगलिता नीवी स्वयं बन्धनात् तद्वासः श्लथमेखलागुणधृतं किञ्चिन्नितम्बे स्थितम् ।एतावत्सखि वेद्मि केवलमहं तस्याङ्गसङ्गे पुनः को ऽसौ कास्मि रतं नु किं कथमिति स्वल्पापि मे न स्मृतिः" ॥अत्रार्थे- "धन्यास्तु याः कथयथ प्रियसङ्गमे ऽपि विश्रब्धचाटुकशतानि रतान्तरेषु ।नीवीं प्रति प्रणिहिते तु करे प्रियेण सख्यः शपामि यदि किञ्चिदपि स्मरामि" ॥कारणपरावृत्त्या हेतुव्यत्ययः ।यथा- "ततो ऽरुणपरिस्पन्दमन्दीकृतरुचिः शशी ।दघ्रे कामपरिक्षामकामिनीगण्डपाण्डुताम्" ॥अत्रार्थे-- "समं कुसुमचापेन गर्भिणीगण्डपाण्डुना ।उदयाद्रिशिरःसीम्नि निहितं पदमिन्दुना" ॥दृष्टस्य वस्तुनो ऽन्यत्र संक्रमितिः सङ्क्रान्तकम् ।यथा- "स्नानार्द्रैर्विधुतकवरीबन्धलोलैरिदानीं श्रोणीभारः कृतपरिचयः पल्लवैः कुन्तलानाम् ।अप्येतेभ्यो नभसि पततः पङ्किशो वारिबिन्दून् स्थित्वोद्ग्रीवं कुवलयदृशां कोलिहंसाः पिबन्ति" ॥अत्रार्थे- "सद्यः स्नातजपत्तपोधनजटाप्रान्तस्त्रुताः प्रोन्मुखैः पीयन्ते ऽम्बुकणाः कुरङ्गशिशुभिस्तृष्णाव्यथाविक्लवैः ।एतां प्रेमभरालसां च सहसा शुष्यन्मुखीमाकुलः श्लिष्यन् रक्षति पक्षसम्पुटकृतच्छायः शकुन्तः प्रियाम्" ॥उभयवाक्यार्थोपादानं सम्पुटः ।यथा- "विन्ध्यस्याद्रेः परिसरनदी नर्मदा सुभ्रु सैषा यादोभर्त्तुः प्रथमगृहिणीं यां विदुः पश्चिमस्य ।यस्यामन्तः स्फुरितशफरत्रासहासाकुलाक्षी स्वैरं स्वैरं कथमपि मया तीरमृत्तारितासि" ॥यथा- "नाभीगुहाबिलविशश्चलवीचिजातमञ्जुध्वनिश्रुतिकणत्कलकुक्कुभानि ।रेवाजलान्यविरलं ग्रहिलीक्रियन्ते लाटाङ्गनाभिरपराह्ननिमज्जनेषु" ॥अत्रार्थे- "यद्वर्ग्याभिर्जगाहे गुरुशकुलकुलास्फालनत्रासहास-व्यस्तोरुस्तम्भिकाभिदिंशि दिशि सरितां दिग्जयप्रक्रमेषु ।अम्भो गम्भीरनाभीकुहरकवलनोन्मुक्तिपर्यायलोलत्-कल्लोलाबद्धमुग्धध्वनिचकितरणत्कुक्कुभं कामिनीभिः" ॥सो ऽयं कवेरकवित्वदायी सर्वथा प्रतिबिम्बकल्पः परिहरणीयः ।यतः-- "पृथक्त्वेन न गृह्णान्ति वस्तु काव्यान्तरस्थितम् ।पृथक्त्वेन न गृह्णन्ति स्ववपुः प्रतिबिम्बितम्" ॥इति राजशेखरकृतौ काव्यमीमांसायां कविरहस्ये प्रथमे ऽधिकणे शब्दार्थहरणोपायाः कविप्रभेदाः प्रतिबिम्बकल्पविकल्पस्य समीक्षा द्वादशो ऽध्यायः ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP