संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|काव्यमीमांसा| चतुर्थो ऽध्यायः काव्यमीमांसा प्रथमो ऽध्यायः द्वितीयो ऽध्यायः तृतीयो ऽध्यायः चतुर्थो ऽध्यायः पञ्चमो ऽध्यायः षष्ठो ऽध्यायः सप्तमो ऽध्यायः चतुर्थो ऽध्यायः नवमो ऽध्यायः दशमोऽध्यायः एकादशो ऽध्यायः द्वदशो ऽध्यायः त्रयोदशो ऽध्यायः चतुर्दशो ऽध्यायः पञ्चदशो ऽध्यायः षोडशो ऽध्यायः सप्तदशो ऽध्यायः अष्टादशो ऽध्यायः काव्यमीमांसा - चतुर्थो ऽध्यायः संस्कृत कवि राजशेखरद्वारा द्वारा रचित काव्यमीमांसा अलंकार शास्त्र पर लिखा गया एक विशालकाय ग्रंथ था, जिसमें मूलत: 18 अधिकरण थे। राजशेखर महाराष्ट्र देशवासी थे और यायावर वंश में उत्पन्न हुए थे। Tags : kavyamimansarajashekharकाव्यमीमांसाराजशेखरसंस्कृत शिष्यप्रतिभे Translation - भाषांतर शिष्यप्रतिभे द्विविधं शिष्यमाचक्षते यदुत बुद्धिमानाहार्यबुद्धिश्च ।यस्य निसर्गतः शास्त्रमनुधावति बुद्धिः स बुद्धिमान् ।यस्य च शास्त्राभ्यासः संस्कुरुते बुद्धिमसावाहार्यबुध्दिः ।त्रिधा च सा, स्मृतिर्मतिः प्रज्ञेति ।अतिक्रान्तस्यार्थस्य स्मर्त्रीस्मृतिः ।वर्त्तमानस्य मन्त्री मतिः ।अनागतस्य प्रज्ञात्री प्रज्ञेति ।सा त्रिप्रकारापि कवीनामुपकर्त्री ।तयोर्बुद्धिमान् शुश्रूषते शृणोति गृह्णीते धारयति विजानात्यूहते ऽपोहति तत्त्वं चाभिनिविशते ।आहार्यबुद्धेरप्येत एव गुणाः किन्तु प्रशास्तारमपेक्षन्ते ।अहरहः सुगुरुपासना तयोः प्रकृष्टे गुणः ।सा हि बुद्धिविकासकामधेनुः ।तदाहुः-ऽप्रथयति पुरः प्रज्ञाज्योतिर्यथार्थपरिग्रहे तदनु जनयत्यूहापोहक्रियाविशदं मनः ।अभैनिविशते तस्मात्तत्त्वं तदेकमुखोदयं सह परिचयो विद्यावृद्धैः क्रमादमृतायतेऽ ॥ताभ्यामन्यथाबुद्धिर्दुर्बुद्धिः ।तत्र बुद्धिमतः प्रतिपत्तिः ।स खलु सकृदभिधानप्रतिपन्नार्थः कविमार्गं मृगयितुं गुरुकुलमुपासीत ।आहार्यबुद्धेस्तु द्वयमप्रतिपत्तिः सन्देहश्च ।स खल्वप्रतिपन्नमर्थं प्रतिपत्तुं सन्देहं च निराकर्तुमाचार्यानुपतिष्ठेत ।दुर्बुद्धेस्तु सर्वत्र मतिविपर्यास एव ।स हि नीलीमेचकितसिचयकल्पो ऽनाधेयगुणान्तरत्वात् तं यदि सारस्वतो ऽनुभावः प्रसादयति तमौपनिषदिके वक्ष्यामः ।ऽकाव्यकर्मणि कवेः समाधिः परं व्याप्रियते इति श्यामदेवः ।मनस एकाग्रता समाधिःऽ ।समाहितं चित्तमर्थान्पश्यति, उक्तञ्च- ऽसारस्वतं किमपि तत्सुमहारहस्यं दद्गोचरं च विदुषां निपुणैकसेव्यम् ।तत्सिद्धये परमयं परमो ऽभ्यपायो यच्चेतसो विदितवेद्यविधेः समाधिः ॥ऽऽभ्यासःऽ इति मङ्गलः ।अविच्छेदेन शीलनमभ्यासः ।स हि सर्वगामी सर्वत्र निरतिशयं कौशलमाधत्ते ।समाधिरान्तरः प्रयत्नो बाह्यस्त्वभ्यासः ।तावुभावपि शक्तिमुद्भासयतः ।ऽसा केवलं हेतुःऽ इति यायावरीयः ।विप्रसृतिश्च सा प्रतिभाव्युत्पत्तिभ्याम् ।शक्तिकर्तृकेहि प्रतिभाव्युत्पत्तिकर्मणी ।शक्तस्य प्रतिभाति शक्तश्च व्युत्पद्यते ।या शब्दग्राममर्थसार्थमलङ्कारतन्त्रमुक्तिमार्गमन्यदपि तथाविधमधिहृदयं प्रतिभासयति सा प्रतिभा ।अप्रतिभस्य पदार्थसार्थः परोक्ष इव, प्रतिभावतः पुनरपश्यतो ऽपि प्रत्यक्ष इव ।यतो मेघाविरुद्रकुमारदासादयो जात्यन्धाः कवयः श्रूयन्ते ।किञ्चन महाकवयो ऽपि देशद्वीपान्तरकथापुरुषादिदर्शनेन तत्रत्यां व्यवहृर्ति निबध्नन्तिस्म ।तत्र देशान्तरव्यवहारः- ऽप्राणानामनिलेन वृत्तिरुचिता सत्कल्पवृक्षे वने तोये काञ्चनपद्मरेणुकपिशे पुण्याभिषेकक्रिया ।ध्यानं रत्नशिलागृहेषु विबुधस्त्रीसन्निधौ संयमो यत्काङ्क्षन्ति तपोभिरन्यमुनयस्तर्स्मिस्तपस्यन्त्यमी ॥द्वीपान्तरव्यवहारः-अनेन सार्द्धं विहराम्बुराशेस्तीरेषु ताडीवनमर्मरेषु ।द्वीपान्तरानीतलवङ्गपुष्पैरपाकृतस्वेदलवे मरुद्भिः ॥कथापुरुषव्यवहारः-हरो ऽपि तावत्परिवृत्तधैर्यश्चन्द्रोदयारम्भ इवाम्बुराशिः ।उमामुखे बिम्बफलाधरोष्टे व्यापारयामास विलोचनानि ॥आदिग्रहणात्-तथागतायां परिहासपूर्वं सख्यां सखी वेत्रभृदाबभाषे ।बाले व्रजामो ऽन्यत इत्यथैनां वधूरसूयाकुटिलं ददर्श ॥सा च द्विधा कारयित्री भावयित्री च ।कवेरुपकुर्वाणा कारयित्री ।सापि त्रिविधा सहजाऽहार्यौपदेशिकी च ।जन्मान्तरसंस्कारापेक्षिणी सहजा ।इह जन्मसंस्कारयोनिराहार्या ।मन्त्रतन्त्राद्युपदेशप्रभवा औपदेशिकी ।ऐहिकेन कियतापि संस्कारेण प्रथमां तां सहजेति व्यपदिशन्ति ।महता पुनराहार्या ।औपदेशिक्याः पुनरैहिक एव उपदेशकालः, ऐहिक एव संस्कारकालः ।त इमे त्रयो ऽपि कवयः सारस्वतः, आभ्यासिकः, औपदेशिकश्च ।जन्मान्तरसंस्कारप्रवृत्तसरस्वतीको बुद्धिमान्सारस्वतः ।इह जन्माभ्यासोद्भासितभारतीक आहार्यबुद्धिराभ्यासिकः ।उपदेशितदर्शितवाग्विभवा दुर्बुद्धिरौपदेशिकः ।तस्मान्नेतरौ तन्त्रशेषमनुतिष्ठताम् ।ऽनहि प्रकृतिमधुरा द्राक्षा फाणिततसंस्कारमपेक्षतेऽ इत्याचार्याः ।ऽनऽिति यायावरीयः ।एकार्थं हि क्रियाद्वयं द्वैगुण्याय सम्पद्यते ।ऽतेषां पूर्वः पूर्वः श्रेयान्ऽ इति श्यामदेवः ।सारस्वतः स्वतन्त्रघः स्याद्भवेदाभ्यासिको मितः ।औपदेशकविस्त्वत्र वल्गु फल्गु च जल्यपि ॥ऽुत्कर्षः श्रेयान्ऽ इति यायावरीयः ।स चानेकगुणसन्निपाते भवति ।किञ्च- ऽबुद्धिमत्त्वं च काव्याङ्गविद्यास्वभ्यासकर्म च ।कवेश्चोपनिषच्छक्तिस्त्रयमेकत्रघ दुर्लभम् ॥काव्यकाव्याङ्गविद्यासु कृताभ्यासस्य धीमतः ।मन्त्रानुष्ठाननिष्ठस्य नेदिष्ठा कविराजताऽ ॥कवीनां तारतम्यतश्चैष प्रायोवादः ।यथा- ऽेकस्य तिष्ठति कवेर्गृह एव काव्यम् अन्यस्य गच्छति सुहृद्भवनानि यावत् ।न्यस्याविदग्धवदनेषु पदानि शश्चत् कस्यापि सञ्चरति विश्चकुतूहलीवऽ ॥सेयं कारयित्री ।भावकस्योपकुर्वाणा भावयित्री ।सा हि कवेः श्रममभिप्रायं च भावयति ।तया खलु फलितः कवेर्व्यापारतरुः ।अन्यथा सो ऽवकेशी स्यात् ऽकः पुनरनयोर्भेदो यत्कविर्भावयति भावकश्च कविःऽ इत्याचार्याः ।तदाहुः- ऽप्रतिभातारतम्येन प्रतिष्ठा भ्रुवि भूरिधा ।भावकस्तु कविः प्रायो न भजत्यधमां दशम् ॥"नऽिति कालिदासः ।पृथगेव हि कवित्वाभ्दावकत्वं, भावकत्वाच्च कवित्वम् ।स्वरुपभेदाद्विषयभेदाच्च ।यदाहुः- ऽकश्चिद्वाचं रचयितुमलं श्रोतुमेवापरस्तां कल्याणी ते मतिरुभयथा विस्मयं नस्तनोति ।नह्येकस्मिन्नतिशयवतां सन्निपातो गुणानाम् एकः सूते कनकम्रुपलस्तत्परीक्षाक्षमो ऽन्यः ॥"ते च द्विधारोचकिनः, सतृणाभ्यवहारिणश्चऽ इति मङ्गलः ।ऽकवयोपि भवन्तिऽिति वामनीयाः ऽ ।चतुर्धाऽ इति यायावरीयः ऽमत्सरिणस्तत्त्वाभिनिवेशिनश्चऽ ।ऽतत्र विवेकिनः पूर्वे तद्विपरीतास्तु ततो ऽनन्तराःऽिति वामनीयाः ।ऽरोचकिता हि तेषां नैसर्गिकी, ज्ञानयोनिर्वा ।नैसिर्गिकीं हि संस्कारशतेनापि वङ्गमिव कालिकां ते न जहति ।ज्ञानयोनौ तु तस्यां विशिष्टज्ञायवति वचसि रोचकितावृत्तिरेवऽ इति यायावरीयः ।. किञ्च सतृणाभ्यवहारिता सर्वसाधारणी ।तथाहि-व्युत्पित्सोः कौतुकिनः सर्वस्य सर्वत्र प्रथमं सा ।प्रतिभाविवेकविकलता हि न गुणागुणयोर्विभागसूत्रं पातयति ।ततो बहु त्यजति बहु च गृह्णाति ।विवेकानुसारेण हि बुद्धयो मधु निष्यन्दन्ते ।परिणामे तु यथार्थदर्शी स्यात् ।विभ्रमभ्रंशश्च निःश्रेयसं सन्तिधत्ते ।मत्सरिणस्तु प्रतिभातमपि न प्रतिभातं, परगुणेषु वाचंयमत्वात् ।स पुनरमत्सरी ज्ञाता च विरलः ।तदुक्तम्- ऽकस्त्वं भोः कविरस्मि काप्यभिनवा सूक्तिः सखे पठ्यतां त्यक्ता काव्यकथैव सम्प्रति मया कस्मादिदं श्रुयताम् ।यः सम्पग्विविनक्ति दोषगुणयोः सारं, स्वयं सत्कविः सो ऽस्मिन्भावक एव नास्त्यथ भवेद्दैवान्न निर्मत्सरःऽ ॥तत्त्वाभिनिवेशी तु मध्येसहस्रं यद्येकस्तदुक्तम्- ऽशब्दानां विविनक्ति गुम्फनविधीनामोदते सूक्तिभिः सान्दं लेढि रसामृतं विचिनुते तात्पर्यम्रुद्रां च यः ।पुण्यैः सङ्घटते विवेक्तृविरहादन्तर्मुखं ताम्यतां केषामेव कदाचिदेव सुधियां काव्यश्रमज्ञो जनः ॥स्वानी मित्रं च मन्त्री च शिष्यश्याचार्य एव च ।कवेर्भवति ही तित्रं किं हि तद्यन्न भावकः ॥काव्येन किं कवेस्तस्य तन्मनोमात्रवृत्तिना ।नीयन्ते भावकैर्यस्य न निबन्धा दिशो दश ॥सन्ति पुस्तकविन्यस्ताः काव्यबन्धा गृहे गृहे ।द्वित्रास्तु भावकमनः शिलापट्टनिकुट्टिताः ॥सत्काव्ये विक्रियाः कश्चिद्भावकस्योल्लसन्ति ताः ।सर्वाभिनयनिर्णीतौ दृष्टा नाट्यसृजा न, याः ॥वाग्भवको भवेत्कश्चित्कश्चिद्धृदयभावकः ।सात्त्विकैराङ्गिकैः कश्चिदनुभावैश्च भावकः ॥गुणादानपरः कश्चिद्दोषादानपरो ऽपरः ।गुणदोषाहृतित्यागपरः कश्चन भावकः ॥अभियोगे समाने ऽपि विचित्रो यदयं क्रमः ।तेन विद्मः, प्रसादे ऽत्र नृणां हेतुरमानुषः ॥न निसर्गकविः शास्त्रे न क्षुण्णः कवते च यः ।विडम्बयति सात्मानमाग्रहग्रहिलः किल ॥कवित्वं न स्थितं यस्य काव्ये च कृतकैतुकः ।तस्य सिद्धिः सरस्वत्यास्तन्त्रमन्त्रप्रयोगतः ॥यदान्तरं वेत्ति सुधीः स्ववाक्यपरवाक्ययोः ।तदा स सिद्धो मन्तव्यः, कुकविः कविरेव वा ॥कारयित्रीभावयिघत्र्यावितीमे प्रतिभाभिदे ।अथातः कथयिष्यामो व्युत्पत्तिं काव्यमातरम्ऽ ॥इति राजशेखरकृतौ काव्यमीमांसायां कविरहस्ये प्रथमे ऽधिकरणे शिष्यप्रतिभाव्याख्यानः चतुर्थो ऽध्यायः N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP