संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|काव्यमीमांसा| त्रयोदशो ऽध्यायः काव्यमीमांसा प्रथमो ऽध्यायः द्वितीयो ऽध्यायः तृतीयो ऽध्यायः चतुर्थो ऽध्यायः पञ्चमो ऽध्यायः षष्ठो ऽध्यायः सप्तमो ऽध्यायः चतुर्थो ऽध्यायः नवमो ऽध्यायः दशमोऽध्यायः एकादशो ऽध्यायः द्वदशो ऽध्यायः त्रयोदशो ऽध्यायः चतुर्दशो ऽध्यायः पञ्चदशो ऽध्यायः षोडशो ऽध्यायः सप्तदशो ऽध्यायः अष्टादशो ऽध्यायः काव्यमीमांसा - त्रयोदशो ऽध्यायः संस्कृत कवि राजशेखरद्वारा द्वारा रचित काव्यमीमांसा अलंकार शास्त्र पर लिखा गया एक विशालकाय ग्रंथ था, जिसमें मूलत: 18 अधिकरण थे। राजशेखर महाराष्ट्र देशवासी थे और यायावर वंश में उत्पन्न हुए थे। Tags : kavyamimansarajashekharकाव्यमीमांसाराजशेखरसंस्कृत अर्थहरणेष्वालेख्यप्रख्यादिभेदाः Translation - भाषांतर अर्थहरणेष्वालेख्यप्रख्यादिभेदाः आलेख्यप्रख्यपरिसङ्ख्याः ।सदृशञ्चारणं समक्रमः ।यथा- "अस्ताद्रिवेश्मनि दिशो वरुणप्रियायास् तिर्यक्कथञ्चिदपयन्त्रणमास्थितायाः ।गण्डैकपार्श्वमिव कुङ्कुमपङ्कचिम्बु बिम्बं रुचामधिपतेरगुणं रराज" ॥१॥यथा च- "प्राग्दिशः प्रतिकलं विलसन्त्याः कुङ्कुमारुणकपोलतलेन ।साम्यमेति कलितोदयरागः पश्य सुन्दरि तुषारमयूखः" ॥अलङ्कृतमनलङ्कृत्याभिधीयत इति विभूषणमोषः ।यथा- "कुवलयसिति मूले बालचन्द्राङ्कुराभं तदनु खलु ततो ऽग्रे पाकपीताम्रपीतम् ।अभिनवरविरोचिर्धूमधूभ्रं शिखायाम् इति विवधविकारं दिद्युते दैपमर्चिः" ॥अत्रार्थे- "मनाङ्मूले नीलं तदनु कपिशोन्मेषमुदरे ततः पाण्डु स्तोकं स्फुरदरुणलेखं च तदनु ।शिखायामाधूभ्रं धृतविविधवर्णक्रममिति क्षणादर्चिर्दैपं दलयति तमः पुञ्जितमपि" ॥क्रमेणाभिहितस्यार्थस्य विपरीताभिधानं व्युत्क्रमः ।यथा तत्रैव-- "श्यामं शिखाभुवि मनागरुणं ततो ऽधः स्तोकावपाण्डुरधनं च ततो ऽप्यधस्तात् ।आपिञ्जरं तदनु तस्य तले च नीलम् अन्धं तमः पटलमर्द्दति दैपमर्चिः" ॥सामान्यनिबन्धे विशेषाभिधानं विशेषोक्तिः ।यथा- "इत्युद्गते शशिनि पेशलकान्तदूती-संलापसञ्चलितलोचनमानसाभिः ।अग्राहि मण्डनविधिर्विपरीतभूषा-विन्यासहासितसखीजनमङ्गनाभिः" ॥अत्रार्थे- " चकार काचित्सितचन्दनाङ्के काञ्चीकलापं स्तनभारदृष्टे ।प्रियं प्रति प्रेषितचित्तवृत्तिर्नितम्बबिम्बे च बबन्ध हारम्" ॥उपसर्जनस्यार्थस्य प्रधानतायामुत्तंसः ।यथा- "दीपयन्नथ नभः किरणौधैः कुङ्कुमारुणपयोधरगौरः ।हेमकुम्भ इव पूर्वपयोधेरुन्ममञ्ज शनकैस्तुहिनांशुः" ॥अत्रार्थे- "ततस्तमः श्यामलपट्टकञ्चुकं विपाटयत्किञ्चिद्ददश्यतान्तरा ।निशातरुण्याः स्थितशेषकुङ्कुमस्तनाभिरामं सकलं कलावतः" ॥तदेव वस्तूक्तिवशादन्यथा क्रियत इति नटनेपथ्यम् ।यथा-- "आननेन्दुशशलक्ष्मकपोले सादरं विरचितं तिलकं यत् ।तत्प्रिये विरचितावधिभङ्गे धौतमीक्षणजलैस्तरलाक्ष्याः" ॥अत्रार्थे-- "शोकाश्रुभिर्वासरखण्डितानां सिक्ताः कपोलेषु विलासिनीनाम् ।कान्तेषु कालात्ययमाचरन्सु स्वल्पायुषः पत्रलता बभूवुः" ॥परिकरसाम्ये सत्यपि परिकार्यस्यान्यथात्वादेकपरिकार्यः" ।अव्याद्गजेन्द्रवदनः स इमां त्रिलोकीं यस्योद्गतेन गगने महता करेण ।मूलावलग्रसितदन्तबिसाङ्कुरेण नालायितं तपनबिम्बसरोहस्य" ॥अत्रार्थे - "सरलकरदण्डनालं गजवपुषः पुष्करं विभोर्जयति ।मूलबिसकाण्डभूमौ यत्राभूदेकदंष्ट्रैव" ॥विकृतेः प्रकृतिप्रापणं प्रत्यापत्तिः ।यथा-- "रविसङ्क्रान्तसौभाग्यस्तुषारावृतमण्डलः ।निःश्वारान्ध इवादर्शश्चन्द्रमा न प्रकाशते" ॥अत्रार्थे - "तस्याः प्रतिद्वन्द्विभवाद्विषादात् सद्यो विमुक्तं मुखमाबभासे ।निःश्वासबाष्पापगमे प्रसन्नः प्रसादमात्मीयमिवात्मदर्शः" ॥ता इमा आलेख्यप्रख्यस्य भिदाः ।सो ऽयमनुग्राह्यो मार्गः ।आहुश्च- "सो ऽयं भणितिवैचित्र्यात्समस्तो वस्तुविस्तरः ।नटवद्वर्णिकायागादन्यथान्यथात्वमिवार्च्छति" ॥अथ तुल्यदेहितुल्यस्य भिदाः ।तस्यैव वस्तुनो विषयान्तरयोजनादन्यरुपापत्तिर्विशयपरिवर्त्तिः ।यथा- "ये सीमन्तितगात्रभस्मरजसो ये कुम्भकद्वेषिणो ये लीढाः श्रवणाश्रयेण फणिना ये चन्द्रशैत्यद्रुहः ।ते कुप्यद्गिरिजाविभक्तवपुषश्चित्तव्यथासाक्षिणः स्थाणोर्दक्षिणनासिकापुटभ्रुवः श्वासानिलाः पान्तु वः" ॥अत्रार्थे-- "ये कीर्णाक्वथितोदराब्जमधवो ते म्लापितोरः स्त्रजो ये तापात्तरलेन तल्पफणिना पीतप्रतापोभ्फिज्ताः ।ते राधास्मृतिसाक्षिणः कमलया सासूयमाकर्णिता गाढान्तर्दवथोः प्रतत्पसरलाः श्वासा हरेः पान्तु वः" ॥द्विरुपस्य वस्तुनो ऽन्यतररुपोपादानं द्वन्द्वविच्छित्तिः ।यथा- "उत्क्लेशं केशबन्धः कुसुमशररिपोः कल्मषं वः स मुष्याद् यत्रेन्दनं वीक्ष्य गङ्गाजलभरलुलितं बालभावादभूताम् ।क्रौञ्चारातिश्च फाण्टस्फुरितशफरिकामोहलोलेक्षणश्रीः सद्यः प्रोद्यन्मृणालीग्रहणरसलसत्पुष्करश्च द्विपास्यः" ॥अत्रार्थे- "दिश्याद्धूर्जटिजूटकोटिसरिति ज्योत्स्नालवोद्भासिनी शाशाङ्की कलिका जलभ्रमिवशाद् द्राग दृष्टनष्टा सुखम् ।यां चञ्चत्सफरीभ्रमेण मुकुलीकुर्वन्फणालीं मुहुर्मुह्यल्लक्ष्यमहिर्जिघृक्षतितमामाकुञ्चनप्राञ्चनैः" ॥पूर्वोर्थानामर्थान्तरैरन्तरणं रत्नमाला ।यथा-- "कपोले मार्जारः पय इति करांल्लेढि शशिनस् तरुच्छिद्रप्रोतान्बिसमिति करेणुः कलयति ।रतान्ते तल्पस्थान्हरति वनिताप्यंशुकमिति प्रभामत्तश्चन्द्रो जगदिदमहो विभ्रमयति" ॥अत्रर्थे-- "ज्योत्स्नार्चिर्दुग्धबुद्ध्या कवलितमसकृद्भाजने राजहंसैः स्वांसे कर्पूरपांसुच्छुरणरभसतः सम्भृतं सुन्दरीभिः ।पुभ्भिर्व्यस्तं स्तनान्तात्सिचयमिति रहः सम्भ्रमे वल्लभानां लीढं द्राक्सिन्धुवारेष्वभिनवसुमनोलम्पटैः षट्पदैश्च" ॥सङ्ख्यावैषम्येणार्थप्रणयनं सङ्ख्योल्लेखः ।यथा-- "नमन्नारायणच्छायाच्छुरिताः पादयोर्नखाः ।त्वच्चन्द्रमिव सेवन्ते रुद्र रुद्रेन्दवो दश" ॥अत्रार्थे- "उमैकपादाम्बुरुहे स्फुरन्नखे कृतागसो यस्य शिरः समागमे ।षडात्मतामाश्रयतीव चन्द्रमाः स नीलकण्ठः प्रियमातनोतु वः" ॥सममभिधायाधिकस्योपन्यासश्चूलिका ।द्विधा च सा संवादिनी विसंवादिनी च ।तयोः प्रथमा यथा- "अङ्गणे शशिमरीचिलेपने सुत्पमिन्दुकरपुञ्जसन्निभम् ।राजहंसमसमीक्ष्य कातरा रौति हंसवनिताश्रुगद्गगम्" ॥अत्रार्थे- "चन्दप्रभाप्रसरहिसिनि सौधपृष्टे दुर्लक्षपक्षतिपुटां न विवेद जायाम् ।मूढश्रुतिर्मुखरनूपुरनिःस्वनेन व्याहारिणीमपि पुरो गृहराजहंसः" ॥द्वितीया तत्रैवार्थे यथा- "ज्योत्स्नाजलस्नायिनि सौधपृष्टे विविक्तमुक्ताफलपुज्जरौरम् ।विवेद हंसी वयितं कथञ्चिच् चुलत्तुलाकोटिकलैर्निनादैः" ॥निषेधस्य विधिना निबन्धो विधानापहारः ।यथा- "कुरबक कुचाघातक्रीडारसेन वियुज्यसे बकुलविटपिन् स्मर्त्तव्यं ते मुखासवसेचनम् ।चरणघटनाशून्यो यास्यस्यशोक सशोकताम् इति निजपुरत्यागे यस्य द्विषां जगदुः स्त्रियः" ॥अत्रार्थे-- "मुखमदिरया पादन्यासैर्विलासविलोकितैर् बकुलविटपी रक्ताशोकस्तता तिलकद्रुमः ।जलनिधितटीकान्ताराणां क्रमात्ककुभां जये झगिति गमिता यद्वर्ग्याभिर्विकासमहोत्सवम्" ॥बहूनामर्थानामेकत्रोपसंहारो माणिक्यपुज्जः ।यथा- "शैलच्छलेन स्वं दीर्घं भुजमुक्तभ्य भूवधूः ।निशासख्या करोतीव शशाङ्कतिलकं मुखे" ॥यथा च -- "फुल्लातिमुक्तकुसुमस्तवकाभिराम दूरोल्लसत्किरणकेसरमिन्दुर्सिंहम् ।दृष्ट्वोदयाद्रिशिखरस्थितमन्धकार-दुर्वारवारणघटा व्यघटन्त सद्यः" ॥यथा च- "संविधातुमभिषेकमुदासे मन्मथस्य लसर्दशुजलौघः ।यामिनीवनितया ततचिह्नः सोत्पलो रजतकुम्भ इवेन्दुः" ॥यथा च-- "उदयति पश्य कृशोदरि दलितत्व(क्)क्षीरकरणिभिः किरणैः ।उदयाचलचूडमणिरेष पुरा रोहिणीरमणः" ॥यथा च-- "उदयति नवनीतपिण्डपाण्डुः कुमुदवनान्यवघट्टयन्कराग्रैः ।उदयगिरितटस्फटाट्टहासो रजनिवधीमुखदर्पणः शशाङ्कः" ॥यथा च- "प्रेषिदैकेन्दुहंसे ऽस्मिन्सस्नाविव तमो ऽम्बुभिः ।नभस्तडागे मदनस्ताराकुमुदहासिनि" ॥अत्रार्थे- "रजनिपुरन्ध्रिरोध्रतिलकस्तिमिरद्विपयूथकेसरी रजतमयो ऽभिषेककलशः कुसुमायुधमेदिनीपतेः ।अयमुदयाचलैकचूडामणिरभिनवदर्पणो दिशाम् उदयति गगनसरसि हंसस्य हसन्निव विभ्रमं शशी" ॥कन्दभूतो ऽर्थः कन्दलायमानैर्विशेषैरभिधीयत इति कन्दः ।यथा च-- "विशिखामुखेषु विसरति पुञ्जीभवतीव सौधशिखरेषु ।कुमुदाकरेषु विकसति शशिकलशपरिस्त्रुता ज्योत्स्ना" ॥अत्रार्थे- "वियति विसर्पतीव कुमुदेषु बहूभवतीव योषितां प्रतिफलतीव जरठशरकाण्डुषु गण्डभित्तिषु ।अम्भसि विकसतीव लसतीव सुधाधवलेषु धामसु ध्वजपटपल्लवेषु ललतीव समीरचलेषु चन्द्रिका" ॥स्फटिकमणिघट इवेन्दुस्तस्यामपिधानमाननमिवाङ्कः ।क्षरति चिरं येन यथा ज्योत्स्ना घनसारधूलिरिव ॥सितमणिकलशाकदिन्दोर्हरिणहरित्तृणपिधानत्.ओ गलितैः ।रजनिभुजिष्या सिञ्चति नभो ऽङ्गणं चन्द्रिकाम्भोभिः ॥संविधातुमभिषेकमुदासे मन्यथस्य लसदंशुजलौघः ।यामिनीवनितया ततचिह्नः सोत्पलो रजतकुम्भ इवेन्दुः" ॥ता इमास्तुल्यदेहितुल्यस्य परिसंख्याः" ।सो ऽयमुल्लेखवाननुग्राह्यो मार्गः" इति सुरानन्दः ।तदाह-- "सरस्वती सा जयति प्रकामं देवी श्रुतिः स्वस्त्ययनं कवीनाम् ।अनर्घतामानयति स्वभङ्ग्या योल्लिख्य यत्किञ्चदिहार्थनत्नम्" ॥अथ परपुरप्रवेशसद्दशस्य भिदाः ।उपनिबद्धस्य वस्तुनो युक्तिमती परिवृत्तिर्हुङ्डयुद्धम् ।यथा-- "कथमसौ न भजत्यशरीरतां हतविवेकपदो हतमन्यथः ।प्रहरतः कदलीदलकोमले भवति यस्य दया न वधूजने" ॥अत्रार्थे-- "कथमसौ मदनो न नमस्यतां स्थितविवेकपदो मकरध्वजः ।मृगदृशां कदलीललितं वपुर्यदभिहन्ति शरैः कुसुमोद्भवैः" ॥प्रकारान्तरेण विसदृशं यद्वस्तु तस्य निबन्धः प्रतिकञ्चुकम् ।यथा-- "माद्यञ्चकोरेक्षणतुल्यधाम्नो धारां दधाना मधुना मधुनः पतन्तीम् ।चञ्च्वग्रदष्टोत्पलनालहृद्या हंसीव रेजे शशिरत्नपारी" ॥अत्रार्थे- "मसारपारेण बभौ ददाना काचित्सुरां विद्रुमनालकेन ।वल्लूरवल्लीं दधतेव चञ्च्वा केलीशुकेनाञ्जलिना धृतेन" ॥उपमानस्योपमानान्तरपरिवृत्तिर्वस्तुसंचारः ।यथा- "अविरलमिव दाम्ना पौण्डरीकेण बद्धः स्नपित इव च दुग्धस्रोतसा निर्भरेण ।कवलित इव कृत्स्नश्चक्षुषा स्फारितेन प्रसभममृतमेघेनेव सान्द्रेण सिक्तः" ॥अत्रार्थे- "मुक्तानामिव रज्जवो हिमरुचेर्मालाः कलानामिव क्षीराब्धेरिव वीचयः क्लममुषः पीयूषधारा इव ।दीर्घापाङ्गनदीं विलङ्ध्य सहसा लीलानुभावाञ्चिताः सद्यः प्रेमभरोल्लसा भृगदृशो मामभ्यषिञ्चन्दृशः" ॥शब्दालङ्कारस्यार्थालङ्कारेणान्यथात्वं धातुवादः ।यथा- "जयन्ति बाणासुरमौलिलालिताः दशास्यचूडामणिचक्रचुम्बिनः ।सुरासुराधीशशिखान्तशायिनो भवच्छिदस्त्र्यम्बकपादपांशवः" ॥अत्रार्थे- "सन्मार्गालोकनप्रौढिनीरजीकृतजन्तवः ।जयन्त्यपूर्वव्यापाराः पुरारेः पादपांशवः" ॥तस्यैव वस्तुन उत्कर्षेणान्यथाकरणं सत्कारः ।यथा- "स्नानार्द्रार्दैर्विधुतकबरीबन्धलोलैरिदानीं श्रोणीभारः कृतपरिचयः पल्लवैः कुन्तलानाम् ।अप्येतेभ्यो नभसि पततः पङ्क्तिशो वारिबिन्दून् स्थित्वोद्ग्रीवं कुवलयदृशां केलिहंसाः पिबन्ति" ॥अत्रार्थे- "लक्ष्म्याः क्षीरनिधेरुदक्तवपुषो वेणीलताग्रच्युता ये मुक्ताग्रथनामसूत्रसुभगाः प्रात्पाः पयोबिन्दवः ।ते वः पान्तु विशेषसस्पृहद्दशा दृष्टाश्चिरं शार्ङ्गिणा हेलोद्ग्रीवजलेशहंसवनितालीढाः सुधास्वादवः" ॥पूर्वं सदृशः पश्चाद्भिन्नो जीवञ्चीवकः ।यथा- "नयनोदरयोः कपोलभागे रुचिमद्रत्नगणेषु भूषणेषु ।सकलप्रतिबिम्बितेन्दुबिम्बा शतचन्द्राभरणैव काचितासीत्" ॥अत्रार्थे- "भास्वत्कपोलतलकुण्डलपारिहार्य-सन्मेखलामणिगणप्रतिबिम्बितेन ।चन्द्रेण भाति रमणी रमणीयवक्त्र-शोभाभिभूतवपुषेव निषेव्यमाणा" ॥प्राक्तनवाक्याभिप्रायनिबन्धो भावमुद्रा ।यथा- "ताम्बूलवल्लीपरिणद्धपूगास्वेलालतालिङ्गितचन्दनासु ।तमालपत्रास्तरणासु रन्तुं प्रसीद शश्चन्मलयस्थलीषु" ॥अत्रार्थे- "निश्वेतनानामपि युक्तयोगदो नूनं स एनं मदनो ऽधिष्ठति ।एला यदाश्लिष्टवतीह चन्दनं पूगद्रुमं नागलताधिरोहति" ॥पूर्वार्थपरिपन्थिनी वस्तुरचना तद्विरोधी (धिनी) ।यथा- "हारो वक्षसि दन्तपत्रविशदं कर्णे दलं कौमुदं माला मूर्ध्नि दुकूलिनी तनुलता कर्पूरशुक्लौ स्तनौ ।वक्त्रे चन्दनबिन्दुरिन्दुधवलं बालं मृणालं करे वेषः किं सित एष सुन्दरि शरश्चन्द्रात्त्वया शिक्षितः" ॥अत्रार्थे- "मूर्तिर्नीलदुकूलिनी मृगमदैः प्रत्यङ्गपत्रक्रिया वाहू मेचकरत्नकङ्कणभृतौ कण्ठे मसारावली ।व्यालम्बालकवल्लरीकमलिकं कान्ताभिसारोत्सवे यत्सत्यं तमसा मृगाक्षि विहितं वेषे तवाचार्यकम्" ॥इत्यर्थहरणोपाया द्वार्त्रिंशदुपदर्शिताः ।हानोपादानविज्ञाने कवित्वं तत्र मां प्रति ॥कि.ं चैते हरणोपाया ज्ञेयाः सप्रतियोगिनः ।अर्थस्य वैपरीत्येन विज्ञेया प्रतियोगिता ॥किञ्च- शब्दार्थशासनविदः कति नो कवन्ते यद्वाङ्मयं श्रुतिधनस्य चकास्ति चक्षुः ।किन्त्वस्ति यद्वचसि वस्तु नवं सदुक्ति-सन्दर्भिणां स धुरि तस्य गिरः पवित्राः ॥इति राजशेखरकृतौ काव्यमीमांसायां कविरहस्ये प्रथमे ऽधिकरणे अर्थहरणेष्वालेख्यप्रख्यादिभेदास्त्रयोदशो ऽध्यायः ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP