संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|काव्यमीमांसा| नवमो ऽध्यायः काव्यमीमांसा प्रथमो ऽध्यायः द्वितीयो ऽध्यायः तृतीयो ऽध्यायः चतुर्थो ऽध्यायः पञ्चमो ऽध्यायः षष्ठो ऽध्यायः सप्तमो ऽध्यायः चतुर्थो ऽध्यायः नवमो ऽध्यायः दशमोऽध्यायः एकादशो ऽध्यायः द्वदशो ऽध्यायः त्रयोदशो ऽध्यायः चतुर्दशो ऽध्यायः पञ्चदशो ऽध्यायः षोडशो ऽध्यायः सप्तदशो ऽध्यायः अष्टादशो ऽध्यायः काव्यमीमांसा - नवमो ऽध्यायः संस्कृत कवि राजशेखरद्वारा द्वारा रचित काव्यमीमांसा अलंकार शास्त्र पर लिखा गया एक विशालकाय ग्रंथ था, जिसमें मूलत: 18 अधिकरण थे। राजशेखर महाराष्ट्र देशवासी थे और यायावर वंश में उत्पन्न हुए थे। Tags : kavyamimansarajashekharकाव्यमीमांसाराजशेखरसंस्कृत अर्थानुशासनम् Translation - भाषांतर अर्थानुशासनम् (अर्थव्यात्पिः) "स त्रिधा" इति द्रौहिणिः॑दिव्यो, दिव्यमानुशषो, मानुषश्च ।"सत्पधा"इति यायावरीयः पातालीयो,॑ मर्त्त्यपातालीयो, दिव्यपातालीयो, दिव्यमर्त्त्यपातालीयश्च ।तत्र दिव्यः- "स्मृत्वा यन्निजवारवासगतया वीणासमं तुम्बुरोर् उद्गीतं नलकूवरस्य विरहादुत्कञ्चुलं रम्भया ।तेनैरावणकर्णचापलमुषा शक्रो ऽपि निद्रा जहद् भूयः कारित एव हासिनि शचीवक्त्रे दृशं सम्भ्रमम्" ॥दिव्यमानुषस्ति चतुर्द्धा ।दिव्यस्य मर्त्यागमने, मर्त्यस्य च स्वर्गगमन इत्येको भेदः ।दिव्यस्य मर्त्यभावे, मर्त्यस्य च दिव्यभाव इति द्वितीयः ।दिव्येतिवृत्तपरिकल्पनया तृतीयः ।प्रभावाविर्भूतदिव्यरुपतया चतुर्थः ।तत्र दिव्यस्य मर्त्यागमनम्--- "श्रियः पतिः श्रीमति शासितुं जगज्जगन्निवासो वसुदेवसद्मनि ।वसन्तदर्शावतरन्तरमम्बराद्धिरण्यगर्भाङ्गभुवं मुनिं हरिः" ॥मर्त्यस्य स्वर्गगमनम् - "पाण्डोर्नन्दन नन्दनं वनमिदं सङ्कल्पजैः शीधुभिः कॢत्पापानककेलिकल्पतरुषु द्वन्द्वैः सुधालेहिनाम् ।अप्यत्रेन्दुशिलालवालवलयं सन्तानकानां तले ज्योत्स्नासंगलदच्छनिर्झरजलैर्यत्नं विना पूर्यते" ॥दिव्यस्य मर्त्यभावः- "इति विकसति तस्मिन्नन्ववाये यदूनां समजनि वसुदेवो देवकी यत्कलत्रम् ।किमपरमथ तस्मात्षोडशस्त्रीसहस्र-प्रणिहितपरिरम्भः पद्मनाभो बभूव" ॥मर्त्यस्य दिव्यभावः- "आकाशयानतटकोटिकृतैकपादास् तद्वेमदण्डयुगलान्यवलम्ब्य हस्तैः ।कौतूहलात्तव तरङ्गविघट्टितानि पश्यन्ति देवि मनुजाः स्वकलेवराणि" ॥दिव्येतिवृत्तपरिकल्पना- "ज्योत्स्नापूरप्रसरविशदे सैकते ऽस्मिन्सरय्वा वदद्यूतं चिरतरमभूत्सिद्धयूनोः कयोश्चित् ।एको ब्रूते प्रथमनिहतं कैटभं कंसमन्यः स त्वं तत्त्वं कथय भवता को हतस्तत्र पूर्वम्" ॥प्रभावाविर्भूतदिव्यभावः--- "मा गाः पातालमुर्वि स्फुरसि किमपरं पाट्यमानः कुदैत्यत? त्रैलोक्यं पादपीतप्रथिम, नहि बले? पूरस्यूनमङ्घ्रेः ।इत्युत्स्वप्नायमाने भुवनभृति शिखावङ्कसुत्पे यशोदा पायाच्चक्राङ्कपादप्रणतिपुलकितस्मेरगण्डस्थला वः" ॥मर्त्यः--- "वधूः श्वश्रूस्थाने व्यवहरति पुत्रः पितृपदे पदे रिक्ते रिक्ते विनिहितपदार्थान्तरमिति ।नदीस्रोतोन्यायादकलितविवेकक्रमघनं न च प्रत्यावृत्तिः प्रवहति जगत्पूर्णमथ च" ॥पातालीयः- "कर्कोटः कोटिकृत्वः प्रणमति पुरतस्तक्षके देहि चक्षुः सज्जः सेवाज्जलिस्ते कपिलकुलिकयोः स्तैति च स्वस्तिकस्त्वां ।पद्मः सद्मैष भक्तेरवलगति पुरः कम्बलो ऽयं बलो ऽयं सोत्सर्पः सर्पराजो व्रजतु निजगृहं प्रेष्यतां शङ्खपालः" ॥मर्त्यपातालीयः- "आर्द्रावले!व्रज न वेत्स्यपकर्ण!कर्णं द्विः सन्दधाति न शरं हरशिष्यशिष्यः ।तत्साम्प्रतं समिति पश्य कुतूहलेन मर्त्यैः शरैरपि किरीटिकिरीटमाथम्" ॥इहापि पूर्ववस्तमस्तमिश्रभेदानुगमः ।दिव्यपातालीयः- "स पातु वो यस्य शिखाश्मकर्णिकं स्वदेहनालं फणपत्रसञ्चयम् ।विभाति जिह्वायुगलोलकेसरं पिनाकिनः कर्णभुजङ्गपङ्कजम्" ॥स्वर्गमर्त्यपातालीयः- "आस्तीको ऽस्ति मुनिः स्म विस्मयकृतः पारीक्षितीयान्मखात् त्राता तक्षकलक्ष्मणः फणभृतां वंशस्य शक्रस्य च ।उद्देल्लन्मलयाद्रिचन्दनलतास्वान्दोलनप्रक्रमे यस्याद्यापि सविभ्रमं फणिवधूवृन्दैर्यशो गीयते" ॥सो ऽयमित्थङ्कारमुल्लिख्योपजीव्यमानो निःसीमोर्थसार्थः सम्पद्यते इत्याचार्याः ।"अस्तु नाम निःसीमोर्थसार्थः ।किन्तु द्विरुप एवासौ विचारितसुस्थो ऽविचारितरमणीयश्च ।तयोः पूर्वमाश्रितानि शास्त्राणि तदुत्तरं काव्यानि" इत्यौद्भटाः ।यथा- "अपां लङ्घयितुं राशिं रुचा पिञ्जरयन्नभः ।खमुत्पपात हनुमान्नीलोत्पलदलद्युतिः" ॥यथा वा- "त आकाशमसिश्याममुत्पस्त्य परर्षयः ।आसेदुरोषधिप्रस्थं मनसा समरंहसः" ॥यथा च- "तदेव वारि सिन्धूनां महत्स्थेमार्चिषामिति" इत्यादि ॥"न स्वरुपनिबन्धनमिदं रुपमाकाशस्य सरिल्सलिलादेर्वा किन्तु प्रतिभासनिबन्दनम् ।न च प्रतिभासस्तादत्भ्येन वस्तुन्यवतिष्ठते, यदि तथा स्यात्सूर्याचन्द्रमसोर्मण्डले दृष्ट्या परिच्छिद्यमानद्वादशाङ्गुलप्रमाणे पुराणाद्यागमनिवेदितधरावलयमात्रे न स्तः इति यायावरीयः ।एवं नक्षत्रादीनां सरित्सलिलादीनामन्येषां च ।यथाप्रतिभासं च वस्तुनः स्वरुपं शास्त्रकाव्ययोर्निबन्धोपयोगि" ।शास्त्रे यथा- "प्रशान्तजलभृत्पङ्के विमले वियदम्भसि ।ताराकुमुदसम्बन्धे हंसायत इवोडुराट्" ॥काव्यानि पुनरेतन्मयान्येव ।"अस्तु नाम निःसीमार्थसार्थः ।कुन्तु रसवत एव निबन्धो युक्तो न नीरसस्य" इति आपराजितिः ।यदाह- "मज्जमपुष्पावजयनसन्ध्याचन्द्रोदयादिवाक्यमिह ।सरसमपि नातिबहुलं प्रकृतरसानन्वितं रचयेत् ॥यस्तु सरिदद्रिसागरपुरतुरगरथादिवर्णने यत्नः ।कविशक्तिख्यातिफलो विततधियां नो मतः स इह" ॥"आम्" इति यायावरीयः ।अस्ति चानुभूयमानो रसस्यानुगुणो विगुणश्चार्थः, काव्ये तु कविवचनानि रसयन्ति विरसयन्ति च नार्थाः, अन्वयव्यतिरेकाभ्यां चेतमुपलभ्यते ।तत्र सरिद्वर्णनरसवत्ता- "एतां विलोकय तलोदरि ताम्रपर्णीम् अब्धोनिधौ विवृतशुक्तिपुटोद्धृतानि ।यस्याः पयांसि परिणाहिषु हारमूर्त्त्या वामभ्रुवां परिणमन्ति पयोधरेषु" ॥अद्रिवर्णनरसवत्ता- "एतास्ता मलयोपकण्ठसरितामेणाक्षिरोधोभुवश् चापाभ्यासनिकेतनं भगवतः प्रेयो मनोजन्मनः ।यासु श्यामनिशासु पीततमसो मुक्तामयीश्चन्द्रिकाः पीयन्ते विवृतोर्ध्दचञ्चु विचलत्कण्ठं चकोराङ्गनाः" ॥सागरवर्णनरसवत्ता- "धत्ते यत्किलकिञ्चितैकगुरुतामेणीदृशां वारुणी वैधुर्यं विदधाति दम्पतिरुषां यच्चन्द्रिकार्द्रं नभः ।यच्च स्वर्गसदां वयः स्मरसुहृन्नित्यं सदा सम्पदां यल्लक्ष्मीरधिदैवतं च जलधेस्तत्कान्तमाचेष्टितम्" ॥एवं पुरतुरगादिवर्णनरसवत्तापि ।विप्रलम्भेप्यतिरसवत्ता- "विधर्माणो भावास्तदुपहितवृत्तेर्न धृतये सरुपत्वादन्ये विहितविफलौत्सुक्यवरसाः ।ततः स्वेच्छं पूर्वेष्वसजदितरेभ्यः प्रतिहतं क्व हीनं प्रेयस्या हृदयमिदमन्यत्र रमताम्" ॥कुकविर्विप्रलम्भे ऽपि रसवत्तां निरस्यति ।अस्तु वस्तुषु मा वा भूत्कविवाचि रसः स्थितः ॥"यथा तथा वास्तु वस्तुनो रुपं, वक्तप्रकृतिविशेषायत्ता तु रसवत्ता ।तथा च यमर्थं रक्तः स्तौति तं विरक्तो विनिन्दति मध्यस्थस्तु तत्रघोदास्ते" इति पाल्यकीर्तिः ।"येषां वल्लभया समं क्षणमिव स्फारा क्षपा क्षीयते तेषां शीततरः शशी विरहिणामुल्केव सन्तापकृत् ।अस्माकं न तु वल्लभा न विरहस्तेनोभयभ्रंशिनाम् इन्दू राजति दर्पणाकृतिरयं नोष्णो न वा शीतलः" ॥"विदग्धभणितिभङ्गिनिवेद्यं वस्तुनो रुपं न नियतस्वभावम्" इति अवन्तिसुन्दरी ।तदाह- "वस्तुस्वभावो ऽत्र कवेरतन्त्रे गुणागुणावुक्तिवशेन काव्ये ।स्तुवन्निवध्नात्यमृतांशुमिन्दुं निन्दुंस्ति दोषाकरमाह धूर्त्तः" ॥"उभयमुपपन्नम्" इति यायावरीयः ।स पुनर्द्विधा ।मुक्तकप्रबन्धत्रिषयत्वेन ।तावपि प्रत्येकं पञ्चधा ।शुद्धः, चित्रः, कथोत्थः, संविधानकभूः, आख्यानकवांश्च ।तत्र मुक्तेतिवृत्तः शुद्धः ।स एव सप्रपञ्चश्चित्रः ।वृत्तेतिवृत्तः कथोत्थः ।सम्भावितेतिवृत्तः संविधानकभूः ।परिकल्पितेतिवृत्तः आख्यानकवान् ।तत्र ।मुक्तके-शुद्धः- "सा पत्युः प्रथमापराधकरणे शिक्षोपदेशं विना नो जनाति सविभ्रमाङ्गवलना वक्रोक्तिचित्रां गतिम् ।स्वच्छैरच्छकपोलमूलमूलगलितैः पर्यस्तनेत्रोत्पला बाला केवलमेव रोदिति लुठल्लोलोदकैरश्रुभिः" ॥चित्रः- "दूरादुत्सकमागते विवसितं सम्भाषिणि स्फारितं संश्लिष्यत्यरुणं गृहीतवसने कोपाञ्चितभ्रूतलम् ।मानिन्याश्चरणानतिव्यतिकरे बाष्पाम्बुपूर्णां क्षणाच् चक्षुर्जातमहो प्रपञ्चचतुरं जातागसि प्रेयसि" ॥कथोत्थः- "दत्त्वा रुद्भगतिः खसाधिपतये देवीं ध्रुवस्वामिनीं यस्मात्खण्डितसाहसो निववृते श्रीशर्मगुत्पो नृपः ।तस्मिन्नेव हिमालये गुरुगुहाकोणक्वणत्किन्नरे गीयन्ते तव कार्त्तिकेयनगरस्त्रीणां गणैः कीर्त्तयः" ॥संविधानक्रभूः- "दृष्ट्रवैकासनसंस्थिते प्रियतमे पश्चादुपेत्यादराद् एकस्या नयने निमील्य विहितक्रीडानुबन्धच्छलः ।ईषद्वक्रितकन्धरः सपुलकः प्रेमोल्लसन्मानसाम् अन्तर्हासलसत्कपोलफलकां धूर्तो ऽपरां चुम्बति" ॥यथा च- "कुवर्त्या कुङ्कुमाभ्भः कपिशितवपुषं यत्तदा राजहंसीं क्रीडाहंशो मयासावजानि विरहितश्चक्रवाकीभ्रमेण ।तस्यैतत्पाप्मनो मे परिणमति फलं यत्पुरे प्रेमबन्धाद् एकत्रावां वसावो न च दयित दृशाप्यस्ति नौ सन्निकर्षः" ॥आख्यानकवान्- "अर्थिजनार्थधृतानां वनकरिणां प्रथमकल्पितैर्दशनैः ।चक्रे परोपकारी हैहयजन्मा गृहं शम्भोः" ॥निबन्धे शुद्धः- "स्तिमितविकसितानामुल्लसद्भ्रूलतानां मसृणमुकुलितानां प्रान्तविस्तारभाजाम् ।प्रतिनयननिपाते किञ्चिदाकुञ्चितानां सुचिरमहमभूवं पात्रमालोकितानाम्" ॥चित्रः- "अलसवलितमुग्धस्निग्धनिष्पन्दमन्दैर् अधिकविकसदन्तर्विस्मयस्मेरतारैः ।हृदयमशरणं मे पक्ष्मलाक्ष्याः कटाक्षैर् अपहृतमपविद्धं पीतमुन्मीलितं च" ॥कथोत्थ-- "अभिलाषमुदीरितेन्द्रियः स्वसुतायामकरोत्प्रजापतिः ।अथ तेन निगृह्य विक्रियामभिशत्पः फलमेतदन्वभूत्" ॥संविधानकभूः- "क्रोधं प्रभो संहर संहरेति यावद्भिरः रवे मरुतां चरन्ति ।तावत्स वह्णिर्भवनेत्रजन्मा भस्मावशेषं मदनं चकार" ॥आख्यानकवान्- "पत्युः शिरश्चन्द्रकलामनेन स्पृशेति सख्या परिहासपूर्वम् ।सा रज्जयित्वा चरणौ कृताशीर्माल्येन तां निर्वचनं जघान" ॥किञ्च- संस्कृतवत्सर्वास्वपि भाषासु यथासामर्थ्यं यथारुचि यथा- कौतुकं चावहितः स्यात् ।शब्दार्थयोश्चाभिधानाभिधेयव्यापारप्रगुणतामवबुध्येत ।तदुक्तम्- एको ऽर्थः संस्कृतोक्त्या स सुकविरचनः प्राकृतेनापरो ऽस्मिन् अन्यो ऽपभ्रंशगीर्भिः किमपरमपरो भूतभाषाक्रमेण ।द्वित्राभिः को ऽपि वाग्भिर्भवति चतसृभिः किञ्च कश्चिद्विवेक्तुं यस्येत्थं धीः प्रपन्ना स्नपयति सुकवेस्तस्य कीर्त्तिर्जगन्ति ॥इत्थङ्कारं घनैरथैर्व्युत्पन्नमनसः कवेः ।दुर्गमे ऽपि भवेन्मार्गे कुण्ठिता न सरस्वती ॥इति राजशेखरकृतौ काव्यमीमांसायां कविरहस्ये प्रथमे ऽधिकरणे अर्थानुशासने (अर्थव्यात्पिः) नवमो ऽध्यायः ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP