संस्कृत सूची|संस्कृत साहित्य|उपनिषद‌|
गोपालोत्तरतापिन्युपनिषद

गोपालोत्तरतापिन्युपनिषद

आपल्या प्राचीन वाङ्मयामध्ये उपनिषदांना फार महत्त्वाचे, म्हणजे प्रस्थानत्रयी मधील एक, असे स्थान आहे.
Upanishad are highly philosophical and metaphysical part of Vedas. Being the conclusive part of Vedas, Upanishad can be called the whole substance of Vedic wisdom.


ॐ एकदा हि व्रजस्त्रियः सकामाः शर्वरीमुषित्वा
सर्वेश्वरं गोपालं कृष्णमूचिरे । उवाच ताः
कृष्ण अमुकस्मै ब्राह्मणाय भैक्श्यं दातव्यमिति
दुर्वासस इति । कथं यास्यामो जलं तीर्त्वा यमुनायाः ।
यतः श्रेयो भवति कृष्णेति ब्रह्मचारीत्युक्त्वा मार्गं
वो दास्यति । यं मां स्मृत्वाऽगाधा गाधा भवति ।
यं मां स्मृत्वाऽपूतः पूतो भवति । यं मां स्मृत्वाऽव्रती
व्रती भवति । यं मां स्मृत्वा सकामो निष्कामो भवति ।
यं मां स्मृत्वाऽश्रोत्रियः श्रोत्रियो भवति । यं मां
स्मृत्वाऽगाधतः स्पर्शरहितापि सर्वा सरिद्गाधा भवति ।
श्रुत्वा तद्वाक्यं हि वै रौद्रं स्मृत्वा तद्वाक्येन तीर्त्वा
तत्सौर्यां हि वै गत्वाश्रमं पुण्यतमं हि वै नत्वा मुनिं
श्रेष्ठतमं हि वै रौद्रं चेति । दत्त्वास्मै ब्राह्मणाय
क्शीरमयं घृतमयमिष्टतमं हि वै मृष्टतमं
हि तुष्टः स्नात्वा भुक्त्वा हित्वशिषं प्रयुज्यान्नं ज्ञात्वादात् ।
कथं यास्यामो तीर्त्वा सौर्याम् । स होवाच मुनिर्दुर्वासनं
मां स्मृत्वा वो दास्यतीति मार्गम् । तासां मध्ये हि श्रेष्ठा
गान्धर्वी ह्युवाच तं तं हि वै तामिः । एवं कथं कृष्णो
ब्रह्मचारी । कथं दुर्वासनो मुनिः । तां हि मुख्यां विधाय
पूर्वमनुकृत्वा तूष्णीमासुः । शब्दवानाकाशः शब्दाकाशाभ्यां
भिन्नः । तस्मिन्नाकाशस्तिष्ठति । आकाशे तिष्ठति
स ह्याकाशस्तं न वेद । स ह्यात्मा ।
अहं कथं भोक्ता भवामि । रूपवदिदं तेजो रूपाग्निभ्यां
भिन्नम् । तस्मिन्नग्निस्तिष्ठति । अग्नौ तिष्ठति अग्निस्तं
न वेद । स ह्यात्मा । अहं कथं भोक्ता भवामि । रसवत्य
आपो रसाद्भ्यां भिन्नाः । तास्वापस्तिष्ठन्ति । अप्सु
भूमिर्गन्धभूमिभ्यां भिन्ना । तस्यां भूमिस्तिष्ठति ।
भूमौ तिष्ठति । भूमिस्तं न वेद । स ह्यात्मा । अहं कथं
भोक्ता भवामि । इदं हि मनसैवेदं मनुते । तानिदं हि गृह्णाति ।
यत्र सर्वमात्मैवाभूत्तत्र कुत्र वा मनुते । कथं वा गच्च्हतीति ।
स ह्यात्मा । अहं कथं भोक्ता भवामि । अयं हि कृष्णो यो हि
प्रेष्ठः शरीरद्वयकारणं भवति । द्वा सुपर्णा भवतो
ब्रह्मणोऽहं संभूतस्तथेतरो भोक्ता भवति । अन्यो हि साक्शी
भवतीति । वृक्शधर्मे तौ तिष्ठतः । अतू भोक्तभोक्तारौ । पूर्वो
हि भोक्ता भवति । तथेतरोऽभोक्ता कृष्णो भवतीति । यत्र विद्याविद्ये
न विदाम । विद्याविद्याभ्यां भिन्नो विद्यामयो हि यः कथं विषयी
भवतीति । यो ह वै कामेन कामान्कामयते स कामी भवति । यो ह वै
त्वकामेन कामान्कामयते सोऽकामी भवति । जन्मजराभ्यां
भिन्नः स्थाणुरयमच्च्हेद्योऽयं योऽसौ सूर्ये तिष्ठति योऽसौ
गोषु तिष्ठति । योऽसौ गोपान्पालयति । योऽसौ सर्वेषु देवेषु
तिष्ठति । योऽसौ सर्वैर्देवैर्गीयते । योऽसौ सर्वेषु भूतेष्वाविश्य
भूतानि विदधाति स वो हि स्वामी भवति । सा होवाच गान्धर्वी ।
कथं वास्मासु जातो गोपालः कथं वा ज्ञातोऽसौ त्वया मुने कृष्णः ।
को वास्य मन्त्रः किं स्थानम् । कथं वा देवक्या जातः । को वास्य
जायाग्रामो भवति । कीदृशी पूजास्य गोपालस्य भवति । साक्शात्प्रकृति
परोऽयमात्मा गोपालः कथं त्ववतीर्णो भूम्यां हि वै
सा गान्धर्वी मुनिमुवाच । स होवाच तां हि वै पूर्वं नारायणो
यस्मिंल्लोका ओताश्च प्रोताश्च तस्य हृत्पद्माजातोऽब्जयोनिस्तपस्तपस्तप्त्वा
तस्मै ह वरं ददौ । स कामप्रश्नमेव वव्रे । तं हास्मै ददौ ।
स होवाचाब्जयोनिः यो वावताराणां मध्ये श्रेष्ठोऽवतारः
को भवति । येन लोकास्तुष्टा भवन्ति । यं स्मृत्वा मुक्ता
अस्मात्संसाराद्भवन्ति । कथं वास्यावतारस्य ब्रह्मता भवति ।
स होवाच तं हि वै नारायणो देवः । सकाम्या मेरोः शृङ्गे
यथा सप्तपुर्यो भवन्ति तथा निष्काम्याः सकाम्या
भूगोपालचक्रे सप्तपुर्यो भवन्ति । तासां मध्ये साक्शाद्ब्रह्म
गोपालपुरी भवति । सकाम्या निष्काम्या देवानां सर्वेषां
भूतानां भवति । अथास्य भजनं भवति । यथा हि वै सरसि
पद्मं तिष्ठति तथा भूम्यां तिष्ठति । चक्रेण रक्शिता
मथुरा । तस्माद्गोपालपुरी भवति बृहद्बृहद्वनं मधोर्मधुवनं
तालस्तालवनं काम्यं काम्यवनं बहुला बहुलवनं कुमुदः
कुमुदवनं खदिरः खदिरवनं भद्रो भद्रवनं भाण्डीर इति
भाण्डीरवनं श्रीवनं लोहवनं वृन्दावनमेतैरावृता पुरी
भवति । तत्र तेष्वेव गगनेश्वेवं देवा मनुष्या गन्धर्वा नागाः
किंनरा गायन्ति नृत्यन्तीति । तत्र द्वादशादित्या एकादश रुद्रा
अष्टौ वसवः सप्त मुनयो ब्रह्मा नारदश्च पञ्च विनायका
वीरेश्वरो रुद्रेश्वरोऽम्बिकेश्वरो गणेश्वरो नीलकण्ठेश्वरो विश्वेश्वरो
गोपालेश्वरो भद्रेश्वर इत्यष्टावन्यानि लिङ्गानि चतुर्विंशतिर्भवन्ति ।
द्वे वने स्तः कृष्णवनं भद्रवनम् । तयोरन्तर्द्वादश वनानि
पुण्यानि पुण्यतमानि । तेश्वेव देवास्तिष्ठन्ति । सिद्धाः सिद्धिं प्राप्ताः ।
तत्र हि रामस्य राममूर्तिः प्रद्युम्नस्य प्रद्युम्नमूर्तिरनिरुद्धस्य
अनिरुद्धमूर्तिः कृष्णस्य कृष्णमूर्तिः । वनेश्वेवं मथुरास्वेवं
द्वादश मूर्तयो भवन्ति । एकां हि रुद्रा यजन्ति । द्वितीयां हि ब्रह्मा यजति ।
तृतीयां ब्रह्मजा यजन्ति । चतुर्थीं मरुतो यजन्ति । पञ्चमीं विनायका
यजन्ति । षष्ठीं च वसवो यजन्ति । सप्तमीमृषयो यजन्ति ।
नवमीमप्सरसो यजन्ति । दशमी वै ह्यन्तर्धाने तिष्ठति । एकादशीति
स्वपदानुगा । द्वादशीति भूम्यां तिष्ठति । तां हि ये यजन्ति ते
मृत्युं तरन्ति । मुक्तिं लभन्ते । गर्भजन्मजरामरणतापत्रयात्मकदुःखं
तरन्ति । तदप्येते श्लोका भवन्ति ।
संप्राप्य मथुरा रम्यां सदा ब्रह्मादिवन्दिताम् ।
शङ्खचक्रगदाशार्ङ्गरक्शितां मुसलादिभिः ॥१॥

यत्रासौ संस्थितः कृष्णः स्त्रीभिः शक्त्या समाहितः ।
रमानिरुद्धप्रद्युम्नै रुक्मिण्या सहितो विभुः ॥२॥
=========
२.२
चतुःशब्दो भवेदेको ह्योंकारश्च उदाहृतः । तस्मादेव
परो रजसेति सोऽहमित्यवधार्यात्मानं गोपालोऽहमिति भावयेत् ।
स मोक्शमश्नुते । स ब्रह्मत्वमधिगच्च्हति । स ब्रह्मविद्भवति ।
स गोपाञ्जीवानात्मत्वेन सृष्टिपर्यन्तमालाति । स गोपालो
ह्यों भवति । तत्सत्सोऽहम् । परं ब्रह्म कृष्णात्मको
नित्यानन्दैक्यस्वरूपः सोऽहम् । तत्सद्गोपालोऽहमेव । परं
सत्यमबाधितं सोऽहमित्यत्मानमादाय मनसैक्यं कुर्यात् ।
आत्मानं गोपालोऽहमिति भावयेत् । स एवाव्यक्तोऽनन्तो नित्यो गोपालः ।
मथुरायां स्थितिर्ब्रह्मन्सर्वदा मे भविष्यति ।
शङ्खचक्रगदापद्मवनमालाधरस्य वै ॥१॥

विश्वरूपं परंज्योतिः स्वरूपं रूपवर्जितम् ।
मथुरामण्डले यस्तु जम्बूद्वीपे स्थितोऽपि वा ॥२॥

योऽर्चयेत्प्रतिमां मां च स मे प्रियतरो भुवि ।
तस्यामधिष्ठितः कृष्णरूपी पूज्यस्त्वया सदा ॥३॥

चतुर्धा चास्यावतारभेदत्वेन यजन्ति माम् ।
युगानुवर्तिनो लोका यजन्तीह सुमेधसः ॥४॥

गोपालं सानुजं कृष्णं रुक्मिण्या सह तत्परम् ।
गोपालोऽहमजो नित्यः प्रद्युम्नोऽहं सनातनः ॥५॥

रामोऽहमनिरुद्धोऽहमात्मानं चार्चयेद्बुधः ।
मयोक्तेन स धर्मेण निष्कामेन विभागशः ॥६॥

तैरहं पूजनीयो हि भद्रकृष्णनिवासिभिः ।
तद्धर्मगतिहीना ये तस्यां मयि परायणाः ॥७॥

कलिना ग्रसिता ये वै तेषां तस्यामवस्थितिः ।
यथा त्वं सह पुत्रैस्तु यथा रुद्रो गणैः सह ॥८॥

यथा श्रियाभियुक्तोऽहं तथा भक्तो मम प्रियः ।
स होवाचाब्जयोनिश्चतुर्भिर्देवैः कथमेको देवः स्यात् ।
एकमक्शरं यद्विश्रुतमनेकाक्शरं कथं संभूतम् ।
स होवाच हि तं पूर्वमेकमेवाद्वितीयं ब्रह्मासीत् ।
तस्मादव्यक्तमेकाक्शरम् । तस्मदक्शरान्महत् ।
महतोऽहङ्कारः । तस्मादहङ्कारात्पञ्च तन्मात्राणि ।
तेभ्यो भूतानि । तैरावृतमक्शरम् ।
अक्शरोऽहमोंकारोऽयमजरोऽमरोऽभयोऽमृतो ब्रह्माभयं हि वै ।
स मुक्तोऽहमस्मि । अक्शरोऽहमस्मि ।
सत्तामात्रं चित्स्वरूपं प्रकाशं व्यापकं तथा ॥९॥

एकमेवाद्वयं ब्रह्म मायया च चतुष्टयम् ।
रोहिणीतनयो विश्व अकाराक्शरसंभवः ॥२.२.१०॥

तैजसात्मकः प्रद्युम्न उकाराक्शरसंभवः ।
प्राज्ञात्मकोऽनिरुद्धोऽसौ मकाराक्शरसंभवः ॥११॥

अर्धमात्रात्मकः कृष्णो यस्मिन्विश्वं प्रतिष्ठितम् ।
कृष्णात्मिका जगत्कर्त्री मूलप्रकृती रुक्मिणी ॥१२॥

व्रजस्त्रीजनसंभूतः श्रुतिभ्यो ज्ञानसंगतः ।
प्रणवत्वेन प्रकृतित्वं वदन्ति ब्रह्मवादिनः ॥१३॥

तस्मादोंकारसंभूतो गोपालो विश्वसंस्थितः ।
क्लीमोंकारस्यैकतत्वं वदन्ति ब्रह्मवादिनः ॥१४॥

मथुरायां विशेषेण मां ध्यायन्मोक्शमश्नुते ।
अष्टपत्रं विकसितं हृत्पद्मं तत्र संस्थितम् ॥१५॥

दिव्यध्वजातपत्रैस्तु चिह्नितं चरणद्वयम् ।
श्रीवत्सलाञ्च्हनं हृत्स्थं कौस्तुभं प्रभया युतम् ॥१६॥

चतुर्भुजं शङ्खचक्रशार्ङ्गपद्मगदान्वितम् ।
सुकेयूरान्वितं बाहुं कण्ठमालसुशोभितम् ॥१७॥

द्युमत्किरीटमभयं स्फुरन्मकरकुण्डलम् ।
हिरण्मयं सौम्यतनुं स्वभक्तायाभयप्रदम् ॥१८॥

ध्यायेन्मनसि मां नित्यं वेणुशृङ्गधरं तु वा ।
मथ्यते तु जगत्सर्वं ब्रह्मज्ञानेन येन वा ॥१९॥

मत्सारभूतं यद्यत्स्यान्मथुरा सा निगद्यते ।
अष्टदिक्पालकैर्भूमिपद्मं विकसितं जगत् ॥२.२.२०॥

संसारार्णवसंजातं सेवितं मम मानसे ।
चन्द्रसूर्यत्विषो दिव्या ध्वजा मेरुर्हिरण्मयः ॥२१॥

आतपत्रं ब्रह्मलोकमथोर्ध्वं चरणं स्मृतम् ।
श्रीवत्सस्य स्वरूपं तु वर्तते लाञ्च्हनैः सह ॥२२॥

श्रीवत्सलक्षणं तस्मात्कथ्यते ब्रह्मवादिभिः ।
येन सूर्याग्निवाक्चन्द्रतेजसा स्वस्वरूपिणा ॥२३॥

वर्तते कौस्तुभाख्यमणिं वदन्तीशमानिनः ।
सत्त्वं रजस्तम इति अहंकारश्चतुर्भुजः ॥२४॥

पञ्चभूतात्मकं शङ्खं करे रजसि संस्थितम् ।
बालस्वरूपमित्यन्तं मनश्चक्रं निगद्यते ॥२५॥

आद्या माया भवेच्छार्ङ्गं पद्मं विश्वं करे स्थितम् ।
आद्या विद्या गदा वेद्या सर्वदा मे करे स्थिता ॥२६॥

धर्मार्थकामकेयूरैर्दिव्यैर्दिव्यमयेरितैः ।
कण्ठं तु निर्गुणं प्रोक्तं माल्यते आद्ययाऽजया ॥२७॥

माला निगद्यते ब्रह्मंस्तव पुत्रैस्तु मानसैः ।
कूटस्थं सत्त्वरूपं च किरीटं प्रवदन्ति माम् ॥२८॥

क्शीरोत्तरं प्रस्फुरन्तं कुण्डलं युगलं स्मृतम् ।
ध्यायेन्मम प्रियं नित्यं स मोक्शमधिगच्च्हति ॥२९॥

स मुक्तो भवति तस्मै स्वात्मानं तु ददामि वै ।
एतत्सर्वं मया प्रोक्तं भविष्यद्वै विधे तव ॥२.२.३०॥

स्वरूपं द्विविधं चैव सगुणं निर्गुणात्मकम् ॥३१॥
=============

२.३
स होवाचाब्जयोनिः । व्यक्तीनां मूर्तीनां प्रोक्तानां कथं
चाभरणानि भवन्ति । कथं वा देवा यजन्ति । रुद्रा यजन्ति ।
ब्रह्मा यजति । ब्रह्मजा यजन्ति । विनायका यजन्ति । द्वादशादित्या
यजन्ति । वसवो यजन्ति । गन्धर्वा यजन्ति । सपदानुगा अन्तर्धाने
तिष्ठन्ति । कां मनुष्या यजन्ति । सहोवाच तं हि वै नारायणो
देव आद्या व्यक्ता द्वादश मूर्तयः सर्वेषु लोकेषु सर्वेषु
देवेषु सर्वेषु मनुष्येषु तिष्ठन्तीति । रुद्रेषु रौद्री
ब्रह्माणीषु ब्राह्मी देवेषु दैवी मनुष्येषु मानवी विनायकेषु
विघ्नविनाशिनी आदित्येषु ज्योतिर्गन्धर्वेषु गान्धर्वी अप्सरःस्वेवं
गौर्वसुष्वेवं काम्या अन्तर्धानेष्वप्रकाशिनी आविर्भावतिरोभावा
स्वपदे तिष्ठन्ति । तामसी राजसी सात्त्विकी मानुषी विज्ञानघन
आनन्दसच्चिदानन्दैकरसे भक्तियोगे तिष्ठति ।
ॐ प्राणात्मने ॐ तत्सद्भूर्भुवः सुवस्तस्मै प्राणात्मने नमोनमः ॥.१॥

ॐ श्रीकृष्णाय गोविन्दाय गोपीजनवल्लभाय ॐ तत्सद्भूर्भुवः सुवस्तस्मै नमोनमः ॥२॥

ॐअपानात्मने ॐ तत्सद्भूर्भुवः सुवस्तस्मै अपानात्मने नमोनमः ॥३॥

ॐ श्रीकृष्णायानिरुद्धाय ॐ तत्सद्भूर्भुवः सुवस्तस्मै वै नमोनमः ॥४॥

ॐ व्यानात्मने ॐ तत्सद्भूर्भुवः सुवस्तस्मै व्यानात्मने नमोनमः ॥५॥

ॐ श्रीकृष्णाय रामाय ॐ तत्सद्भूर्भुवः सुवस्तस्मै वै नमोनमः ॥६॥

ॐउदानात्मने ॐ तत्सद्भूर्भुवः सुवस्तस्मै उदानात्मने नमोनमः ॥७॥

ॐ श्रीकृष्णाय देवकीनन्दनाय ॐ तत्सद्भूर्भुवः सुवस्तस्मै वै नमोनमः ॥८॥

ॐ समानात्मने ॐ तत्सद्भूर्भुवः सुवस्तस्मै समानात्मने नमोनमः ॥९॥

ॐ श्रीगोपालाय निजस्वरूपाय ॐ तत्सद्भूर्भुवः सुवस्तस्मै वै नमोनमः ॥१०॥

ॐ योऽसौ प्रधानात्मा गोपाल ॐ तत्सद्भूर्भुवः सुवस्तस्मै वै नमोनमः ॥११॥

ॐ योऽसाविन्द्रियात्मा गोपाल ॐ तत्सद्भूर्भुवः सुवस्तस्मै वै नमोनमः ॥१२॥

ॐ योऽसौ भूतात्मा गोपाल ॐ तत्सद्भूर्भुवः सुवस्तस्मै वै नमोनमः ॥१३॥

ॐ योऽसावुत्तमपुरुषो गोपाल ॐ तत्सद्भूर्भुवः सुवस्तमै वै नमोनमः ॥१४॥

ॐ योऽसौ ब्रह्म परं वै ब्रह्म ॐ तत्सद्भूर्भुवः सुवस्तस्मै वै नमोनमः ॥१५॥

ॐ योऽसौ सर्वभूतात्मा गोपाल ॐ तत्सद्भूर्भुवः सुवस्तस्मै नमोनमः ॥१६॥

ॐ जाग्रत्स्वप्नसुषुप्तितुरीयतुरीयातीतोऽन्तर्यामी गोपाल ॐ तत्सद्भूर्भुवः सुवस्तस्मै वै नमोनमः ॥१७॥

एको देवः सर्वभूतेषु गूढः
सर्वव्यापी सर्वभूतान्तरात्मा ।
कर्माध्यक्शः सर्वभूताधिवासः
साक्शी चेता केवलो निर्गुणश्च ॥१८॥

रुद्राय नमः । आदित्याय नमः । विनायकाय नमः । सूर्याय नमः ।
विद्यायै नमः । इन्द्राय नमः । अग्नये नमः । यमाय नमः ।
निरृतये नमः । वरुणाय नमः । वायवे नमः । कुबेराय नमः ।
ईशानाय नमः । सर्वेभ्यो देवेभ्यो नमः ।
दत्त्वा स्तुतिं पुण्यतमां ब्रह्मणे स्वस्वरूपिणे ।
कर्तृत्वं सर्वभूतानामन्तर्धानो बभूव सः ॥१९॥

ब्रह्मणे ब्रह्मपुत्रेभ्यो नारदात्तु श्रुतं मुने ।
तथा प्रोक्तं तु गान्धर्वि गच्च्ह त्वं स्वालयान्तिकम् ॥२०॥ इति ॥

ॐ भद्रं कर्णेभिः शृणुयाम देवाः ॥भद्रं पश्येमाक्शभिर्यजत्राः ॥

स्थिरैरङ्गैस्तुष्टुवा{\म्+}सस्तनूभिः ॥व्यशेम देवहितं यदायुः ॥

स्वस्ति न इन्द्रो वृद्धश्रवाः ॥स्वस्ति नः पूषा विश्ववेदाः ॥

स्वस्ति नस्तार्क्श्यो अरिष्टनेमिः ॥स्वस्ति नो बृहस्पतिर्दधातु ॥

ॐ शान्तिः शान्तिः शान्तिः ॥हरिः ॐ तत्सत् ॥

इति गोपालोत्तरतापिन्युपनिषत्समाप्ता ॥

N/A

References : N/A
Last Updated : January 11, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP