संस्कृत सूची|संस्कृत साहित्य|उपनिषद‌|
अमृतबिन्दु उपनिषद्

अमृतबिन्दु उपनिषद्

जन्ममरणाचे निवारण करून ब्रह्मपदाला पोचविणारी विद्या म्हणजे उपनिषद्.

Upanishad are highly philosophical and metaphysical part of Vedas.


॥ अमृतबिन्दु ॥ कृष्ण यजुर्वेद,योग उपनिषद्

ॐ भद्रं कर्णेभिः शृणुयाम देवाः भद्रं पश्येमाक्षभिर्यजत्राः . स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिर्व्यशेम देवहितं यदायुः ।

स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः . स्वस्ति नस्तार्क्ष्योऽरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ।

ॐ शान्तिः शान्तिः शान्तिः

हरिः ॐ ॥

मनो हि द्विविधं प्रोक्तं शुद्धं चाशुद्धमेव च . अशुद्धं कामसंकल्पं शुद्धं कामविवर्जितम् ॥१॥

मन एव मनुष्याणां कारणं बन्धमोक्षयोः . बन्धाय पिष्यासक्तं मुक्तंये निर्विषयं स्मृतम् ॥२॥

यतो निर्विष्यस्यास्य मनसो मुक्तिरिष्यते . अतो निर्विषयं नित्यं मनः कार्यं मुमुक्षुणा ॥३॥

निरस्तनिषयासङ्गं संनिरुद्धं मनो हृदि . यदाऽऽयात्यात्मनो भावं तदा तत्परमं पदम् ॥४॥

तावदेव निरोद्धव्यं यावद्धृति गतं क्षयम् . एतज्ज्ञानं च ध्यानं च शेषो न्यायश्च विस्तरः ॥५॥

नैव चिन्त्यं न चाचिन्त्यं न चिन्त्यं चिन्त्यमेव च . पक्षपातविनिर्मुक्तं ब्रह्म संपद्यते तदा ॥६॥

स्वरेण संधयेद्योगमस्वरं भावयेत्परम् . अस्वरेणानुभावेन नाभावो भाव इष्यते ॥७॥

तदेव निष्कलं ब्रह्म निर्विकल्पं निरञ्जनम् . तदब्रह्मामिति ज्ञात्वा ब्रह्म संपद्यते ध्रुवम् ॥८॥

निर्विकल्पमनन्तं च हेतुद्याष्टान्तवर्जितम् . अप्रमेयमनादिं च यज्ञात्वा मुच्यते बुधः ॥९॥

न निरोधो न चोत्पत्तिर्न बद्धो न च साधकः . न मुमुक्षुर्न वै मुक्त इत्येषा परमार्थता ॥१०॥

एक एवाऽऽत्मा मन्थव्यो जाग्रत्स्वप्नसुषुप्तिषु . स्थानत्रयव्यतीतस्य पुनर्जन्म न विद्यते ॥११॥

एक एव हि भूतात्मा भूते भूते व्यवस्थितः . एकधा बहुधा चैव दृष्यते जलचन्द्रवत् ॥१२॥

घटसंवृतमाकाशं नीयमानो घटे यथा . घटो नीयेत नाऽकाशः तद्धाज्जीवो नभोपमः ॥१३॥

घटवद्विविधाकारं भिद्यमानं पुनः पुनः . तद्भेदे न च जानाति स जानाति च नित्यशः ॥१४॥

शब्दमायावृतो नैव तमसा याति पुष्करे . भिन्नो तमसि चैकत्वमेक एवानुपश्यति ॥१५॥

शब्दाक्षरं परं ब्रह्म तस्मिन्क्षीणे यदक्षरम् . तद्विद्वानक्षरं ध्यायेच्द्यदीच्छेछान्तिमात्मनः ॥१६॥

द्वे विद्ये वेदितव्ये तु शब्दब्रह्म परं च यत् . शब्दब्रह्माणि निष्णातः परं ब्रह्माधिगच्छति ॥१७॥

ग्रन्थमभ्यस्य मेधावी ज्ञानवीज्ञानतत्परः . पलालमिव धान्यार्यी त्यजेद्ग्रन्थमशेषतः ॥१८॥

गवामनेकवर्णानां क्षीरस्याप्येकवर्णता . क्षीरवत्पष्यते ज्ञानं लिङ्गिनस्तु गवां यथा ॥१९॥

धृतमिव पयसि निगूढं भूते भूते च वसति विज्ञानम् . सततं मनसि मन्थयितव्यं मनु मन्थानभूतेन ॥२०॥

ज्ञाननेत्रं समाधाय चोद्धरेद्वह्गिवत्परम् . निष्कलं निश्चलं शान्तं तद्ब्रह्माहमिति स्मृतम् ॥२१॥

सर्वभूताधिवासं यद्भूतेषु च वसत्यपि . सर्वानुग्राहकत्वेन तद्स्म्यहं वासुदेवः ॥२२॥

ॐ भद्रं कर्णेभिः शृणुयाम देवाः भद्रं पश्येमाक्षभिर्यजत्राः . स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिर्व्यशेम देवहितं

यदायुः . स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः . स्वस्ति नस्तार्क्ष्योऽरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ।

ॐ शान्तिः शान्तिः शान्तिः

हरिः ॐ ॥

॥ इत्यथर्ववेदेऽमृत्बिन्दूपनिषत्समाप्ता ॥

N/A

N/A
Last Updated : December 14, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP