TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|उपनिषद‌|
एकाक्षरोपनिषत्

एकाक्षरोपनिषत्

जन्ममरणाचे निवारण करून ब्रह्मपदाला पोचविणारी विद्या म्हणजे उपनिषद्.

Upanishad are highly philosophical and metaphysical part of Vedas.


एकाक्षरोपनिषत्

॥ एकाक्षरोपनिषत् ॥ कृष्ण यजुर्वेद,सामान्य उपनिषद्

एकाक्षरपदारूढं सर्वात्मकमखण्डितम् । सर्ववर्जितचिन्मात्रं त्रिपान्नारायणं भजे ॥

ॐ सह नाववतु सह नौ भुनक्तु । सह वीर्यं करवावहै । तेजस्विनावधीतमस्तु मा विद्विषावहै ॥

ॐ शान्तिः शान्तिः शान्तिः ॥

हरिः ॐ एकाक्षरं त्वक्षरेऽत्रास्ति सोमे सषुम्नायां चेह दृढी स एकः ।

त्वं विश्वभूर्भूतपतिः पुराणः पर्जन्य एको भुवनस्य गोप्ता ॥१॥

विश्वे निमग्नपदवीः कवीनां त्वं जातवेदो भुवनस्य नाथः ।

अजातमग्रे स हिरण्यरेता यज्ञैस्त्वमेवैकविभुः पुराणः ॥२॥

प्राणः प्रसूतिर्भुवनस्य योनि-र्व्याप्तं त्वया एकपदेन विश्वम् ।

त्वं विश्वभूर्योनिपारः स्वगर्भे कुमार एको विशिखः सुधन्वा ॥३॥

वितत्य बाणं तरुणार्कवर्णं व्योमान्तरे भासि हिरण्यगर्भः ।

भासा त्वया व्योम्नि कृतः सुतार्क्ष्य-स्तवं वै कुमारस्त्वमरिष्टनेमिः ॥४॥

त्वं वज्रभृद्भूतपतिस्त्वमेव । कामः प्रजानां निहितोऽसि सोमे ।

स्वाहा स्वधा यच्च वषट् करोति रुद्रः पशूनां गुहया निमग्नः ॥५॥

धाता विधाता पवनः सुपर्णो विष्णुर्वराहो रजनी रहश्च ।

भूतं भविष्यत्प्रभवः क्रियाश्च । कालः क्रमस्त्वं परमाक्षरं च ॥६॥

ऋचो यजूंशि प्रसवन्ति वक्त्रा-त्सामानि सम्राड्वसुवन्तरिक्षम् ।

त्वं यज्ञनेता हुतभुग्विभुश्च रुद्रास्तथ दैत्यगणा वसुश्च ॥७॥

स एष देवोऽम्बरगश्च चक्रे अन्येऽभ्यधिष्ठेत तमो निरुन्ध्यः ।

हिरण्मयं यस्य विभाति सर्वं व्योमान्तरे रश्मिमिवांशुनाभिः ॥८॥

स सर्ववेत्ता भुवनस्य गोप्ता ताभिः प्रजानां निहिता जनानाम् ।

प्रोता त्वमोता विचितिः क्रमाणां प्रजापतिश्छन्दमयो विगर्भः ॥९॥

सामैश्चिदन्तो विरजश्च बाहूं हिरण्मयं वेदविदां वरिष्ठम् ।

यमध्वरे ब्रह्मविदः स्तुवन्ति सामैर्यजुर्भिः क्रतुभिस्त्वमेव ॥१०॥

त्वं स्त्री पुमांस्त्वं च कुमार एक-स्त्वं वै कुमारी ह्यथ भूस्त्वमेव ।

त्वमेव धाता वरुणश्च राजा त्वं वत्सरोऽग्न्यर्यम एव सर्वम् ॥११॥

मित्रः सुपर्णश्चन्द्र इन्द्रो रुद्र-स्त्वष्टा विष्णुः सविता गोपतिस्त्वम् ।

त्वं विष्णुर्भूतानि तु त्रासि दैत्यां-स्त्वयावृतं जगदुद्भवगर्भः ॥१२॥

त्वं भूर्भुवः स्वस्त्वं हि स्वयंभूरथ विश्वतोमुखः ।

य एवं नित्यं वेदयते गुहाशयं प्रभुं पुराणं सर्वभूतं हिरण्मयम् ॥१३॥

हिरण्मयं बुद्धिमतां परां गतिं स बुद्धिमान्बुद्धिमतीत्य तिष्ठतीत्युपनिषत् ॥

ॐ सह नाववतु सह नौ भुनक्तु । सह वीर्यं करवावहै । तेजस्विनावधीतमस्तु मा विद्विषावहै ॥

ॐ शान्तिः शान्तिः शान्तिः ॥ इत्येकाक्षरोपनिषत्समाप्ता ॥

Translation - भाषांतर
N/A

N/A
Last Updated : 2008-12-14T13:09:04.2470000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

भगवा (काळा) देवढा, लांब दोरे

  • ( महानु.) महानुभावी भगवीं किंवा काळीं वस्त्रें पेहरतात. साधुवृत्ति दाखवावयाची मग छानछोकी कशाला ? 
RANDOM WORD

Did you know?

अतिथी व अतिथीसत्कार याबद्दल माहिती द्यावी.
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site