TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|उपनिषद‌|
शारीरकोपनिषत्

शारीरकोपनिषत्

जन्ममरणाचे निवारण करून ब्रह्मपदाला पोचविणारी विद्या म्हणजे उपनिषद्.

Upanishad are highly philosophical and metaphysical part of Vedas.


शारीरकोपनिषत्

॥ शारीरकोपनिषत् ॥ ६२॥ कृष्ण यजुर्वेद,सामान्य उपनिषद्

तत्त्वग्रामोपायसिद्धं परतत्त्वस्वरूपकम् । शारीरोपनिषद्वेद्यं श्रीरामब्रह्म मे गतिः ॥

ॐ सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै । तेजस्वि नावधीतमस्तु । मा विद्विषावहै ॥

ॐ शान्तिः शान्तिः शान्तिः ॥

ॐ अथातः पृथिव्यादिमहाभूतानां समवायं शरीरम् ।

यत्कठिनं सा पृथिवी यद्द्रवं तदापो यदुष्णं तत्तेजो यत्संचरति स वायुर्यत्सुषिअरं तदाकाशम् श्रोत्रादीनि ज्ञानेन्द्रियाणि ।

श्रोत्रमाकाशे वायौ त्वगग्नौ चक्षुरप्सु जिह्वा पृथिव्यां घ्राणमिति ।

एवमिन्द्रियाणां यथाक्रमेण शब्दस्पर्शरूपरसगन्धाश्चैते विषयाः पृथिव्यादिमहाभूतेषु क्रमेणोत्पन्नाः ।

वाक्पाणिपादपायूपस्थाख्यानि कर्मेन्द्रियाणि ।

तेषां क्रमेण वचनादानगमनविसर्गानन्दश्चैते विषयाः पृथिव्यादिमहाभूतेषु क्रमेणोत्पनाः ।

मनोबुद्धिरहङ्कारश्चित्तमत्यन्तःकरणचतुष्टयम् । तेषां क्रमेण सङ्कल्पविकल्पाध्यवसायाभिमानावधारणास्वरूपश्चैते विषयाः ।

मनःस्थानं गलान्तं बुद्धेर्वदनमहङ्कारस्य हृदयं चित्तस्य नाभिरिति । अस्थिचर्मनाडीरोममांसाश्चेति पृथिव्यंशाः ।

मूत्रश्लेष्मरक्तशुक्रस्वेदा अबंशाः । क्षुत्तृष्णालस्यमोहमैथुनान्यग्नेः । प्रचारणविलेखनस्थूलाक्ष्युन्मेषनिमेषादि वायोः ।

कामक्रोधलोभमोहभयान्याकाशस्य । शब्दस्पर्शरूपरसगन्धाः पृथिवीगुणाः । शब्दस्पर्शरूपरसाश्चापां गुणाः ।

शब्दस्पर्शरूपाण्यग्निगुणाः । शब्दस्पर्षाविति वायुगुणौ । शब्द एक आकाशस्य । सात्त्विकराजसतामसलक्षणानि त्रयो गुणाः ॥

अहिंसा सत्यमस्तेयब्रह्मचर्यापरिग्रहाः । अक्रोधो गुरुशुश्रुषा शौचं सन्तोष आर्जवम् ॥१॥

अमानित्वमदम्भित्वमास्तिकत्वमहिंस्रता । एते सर्वे गुणा ज्ञेयाः सात्त्विकस्य विशेषतः ॥२॥

अहं कर्ताऽस्म्यहं भोक्ताऽस्म्यहं वक्ताऽभिमानवान् । एते गुणा राजसस्य प्रोच्यन्ते ब्रह्मवित्तमैः ॥३॥

निद्रालस्ये मोहरागौ मैथुनं चौर्यमेव च । एते गुणस्तामसस्य प्रोच्यन्ते ब्रह्मवादिभिः ॥४॥

ऊर्ध्वे सात्विको मध्ये रजसोऽधस्तामस इति । सत्यज्ञानं सात्त्विकम् । धर्मज्ञानं राजसम् । तिमिरान्धं तामसमिति ।

जाग्रत्स्वप्नसुषुप्तितुरीयमिति चतुर्विधा अवस्थाः । ज्ञानेन्द्रियकर्मेन्द्रियान्तःकरणचतुष्टयं चतुर्दशकरणयुक्तं जाग्रत् ।

अन्तःकरणचतुष्टयैरेव संयुक्तः स्वप्नः । चित्तैककरणा सुषुप्तिः । केवलजीवयुक्तमेव तुरीयमिति ।

उन्मीलितनिमीलितमध्यस्थजीवपरमात्मनोर्मध्ये जीवात्मा क्षेत्रज्ञ इति विज्ञायते ॥

बुद्धिकर्मेन्द्रियप्राणपञ्चकैर्मनसा धिया । शरीरं सप्तदशभिः सूक्ष्मं तल्लिङ्गमुच्यते ॥५॥

मनो बुद्धिरहङ्कारः खानिलाग्निजलानि भूः । एताः प्रकृतयस्त्वष्टौ विकाराः षोडशापरे ॥६॥

श्रोत्रं त्वक्चक्षुषी जिह्वा घ्राणं चैव तु पञ्चमम् । पायूपस्थौ करौ पादौ वाक्चैव दशमी मता ॥७॥

शब्दः स्पर्शश्च रूपं च रसो गन्धस्तथैव च । त्रयोविंशतिरेतानि तत्त्वानि प्रकृतानि तु ।

चतुर्विंशतिरव्यक्तं प्रधानं पुरुषः परः ॥८॥

इत्युपनिषत् ॥ ॐ सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै । तेजस्वि नावधीतमस्तु । मा विद्विषावहै ॥

॥ ॐ शान्तिः शान्तिः शान्तिः ॥

॥ इति कृष्णयजुर्वेदीय शारीरकोपनिषत्समाप्ता ॥

Translation - भाषांतर
N/A

N/A
Last Updated : 2008-12-14T13:07:55.2730000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

Receipts of silver refinery

  • चांदी शुद्ध करण्याच्या भट्टीपासून मिळालेल्या जमा रकमा 
RANDOM WORD

Did you know?

आषाढी एकादशीला "देवशयनी एकादशी" का म्हणतात?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.