संस्कृत सूची|संस्कृत साहित्य|उपनिषद‌|
ब्रह्मविद्योपनिषत्

ब्रह्मविद्योपनिषत्


जन्ममरणाचे निवारण करून ब्रह्मपदाला पोचविणारी विद्या म्हणजे उपनिषद्.
Upanishad are highly philosophical and metaphysical part of Vedas.


॥ ब्रह्मविद्योपनिषत् ॥ कृष्ण यजुर्वेद,योग उपनिषद्
स्वाविद्यातत्कार्यजातं यद्विद्यापह्नवं गतम् । तद्धंसविद्यानिष्पन्नं रामचन्द्रपदं भजे ॥
ॐ सह नाववतु ॥ सह नौ भुनक्तु ॥ सह वीर्यं करवावहै ॥ तेजस्विनावधीतमस्तु मा विद्विषावहै ॥
ॐ शान्तिः शान्तिः शान्तिः ॥
अथ ब्रह्मविद्योपनिषदुच्यते ॥
प्रसादाद्ब्रह्मणस्तस्य विष्णोरद्भुतकर्मणः । रहस्यं ब्रह्मविद्याया ध्रुवाग्निं संप्रचक्षते ॥१॥
ॐइत्येकाक्षरं ब्रह्म यदुक्तं ब्रह्मवादिभिः । शरीरं तस्य वक्ष्यामि स्थानं कालत्रयं तथा ॥२॥
तत्र देवास्त्रयः प्रोक्ता लोका वेदास्त्रयोऽग्नयः । तिस्रो मात्रार्धमात्रा च त्र्यक्षरस्य शिवस्य तु ॥३॥
ऋग्वेदो गार्हपत्यं च पृथिवी ब्रह्म एव च । आकारस्य शरीरं तु व्याख्यातं ब्रह्मवादिभिः ॥४॥
यजुर्वेदोऽन्तरिक्षं च दक्षिणाग्निस्तथैव च । विष्णुश्च भगवान्देव उकारः परिकीर्तितः ॥५॥
सामवेदस्तथा द्यौश्चाहवनीयस्तथैव च । ईश्वरः परमो देवो मकारः परिकीर्तितः ॥६॥
सूर्यमण्डलमध्येऽथ ह्यकारः शङ्खमध्यगः । उकारश्चन्द्रसंकाशस्तस्य मध्ये व्यवस्थितः ॥७॥
मकारस्त्वग्निसंकाशो विधूमो विद्युतोपमः । तिस्रो मात्रास्तथा ज्ञेया सोमसूर्याग्निरूपिणः ॥८॥
शिखा तु दीपसंकाशा तस्मिन्नुपरि वर्तते । अर्धमात्र तथा ज्ञेया प्रणवस्योपरि स्थिता ॥९॥
पद्मसूत्रनिभा सूक्ष्मा शिखा सा दृश्यते परा । सा नाडी सूर्यसंकाशा सूर्यं भित्त्वा तथापरा ॥१०॥
द्विसप्ततिसहस्राणि नाडीं भित्त्वा च मूर्धनि । वरदः सर्वभूतानां सर्वं व्याप्यावतिष्ठति ॥११॥
कांस्यघण्टानिनादस्तु यथा लीयति शान्तये । ओङ्कारस्तु तथा योज्यः शान्तये सर्वमिच्छता ॥१२॥
यस्मिन्विलीयते शब्दस्तत्परं ब्रह्म गीयते । धियं हि लीयते ब्रह्म सोऽमृतत्वाय कल्पते ॥१३॥
वायुः प्राणस्तथाकाशस्त्रिविधो जीवसंज्ञकः । स जीवः प्राण इत्युक्तो वालाग्रशतकल्पितः ॥१४॥
नाभिस्थाने स्थितं विश्वं शुद्धतत्त्वं सुनिर्मलम् । आदित्यमिव दीप्यन्तं रश्मिभिश्चाखिलं शिवम् ॥१५॥
सकारं च हकारं च जीवो जपति सर्वदा । नाभिरन्ध्राद्विनिष्क्रान्तं विषयव्याप्तिवर्जितम् ॥१६॥
तेनेदं निष्कलं विद्यात्क्षीरात्सर्पिर्यथा तथा । कारणेनात्मना युक्तः प्राणायामैश्च पञ्चभिः ॥१७॥
चतुष्कला समायुक्तो भ्राम्यते च हृदिस्थितः । गोलकस्तु यदा देहे क्षीरदण्डेन वा हतः ॥१८॥
एतस्मिन्वसते शीघ्रमविश्रान्तं महाखगः । यावन्निश्वसितो जीवस्तावन्निष्कलतां गतः ॥१९॥
नभस्थं निष्कलं ध्यात्वा मुच्यते भवबन्धनात् अनाहतध्वनियुतं हंसं यो वेद हृद्गतम् ॥२०॥
स्वप्रकाशचिदानन्दं स हंस इति गीयते । रेचकं पूरकं मुक्त्वा कुम्भकेन स्थितः सुधीः ॥२१॥
नाभिकन्दे समौ कृत्वा प्राणापानौ समाहितः । मस्तकस्थामृतास्वादं पीत्वा ध्यानेन सादरम् ॥२२॥
दीपाकारं महादेवं ज्वलन्तं नाभिमध्यमे । अभिषिच्यामृतेनैव हंस हंसेति यो जपेत् ॥२३॥
जरामरणरोगादि न तस्य भुवि विद्यते । एवं दिने दिने कुर्यादणिमादिविभूतये ॥२४॥
ईश्वरत्वमवाप्नोति सदाभ्यासरतः पुमान् । बहवो नैकमार्गेण प्राप्ता नित्यत्वमागताः ॥२५॥
हंसविद्यामृते लोके नास्ति नित्यत्वसाधनम् । यो ददाति महाविद्यां हंसाख्यां पारमेश्वरीम् ॥२६॥
तस्य दास्यं सदा कुर्यात्प्रज्ञया परया सह । शुभं वाऽशुभमन्यद्वा यदुक्तं गुरुणा भुवि ॥२७॥
तत्कुर्यादविचारेण शिष्यः सन्तोषसंयुतः । हंसविद्यामिमां लब्ध्वा गुरुशुश्रूषया नरः ॥२८॥
आत्मानमात्मना साक्षाद्ब्रह्म बुद्ध्वा सुनिश्चलम् । देहजात्यादिसम्बन्धान्वर्णाश्रमसमन्वितान् ॥२९॥
वेदशास्त्राणि चान्यानि पदपांसुमिव त्यजेत् । गुरुभक्तिं सदा कुर्याच्छ्रेयसे भूयसे नरः ॥३०॥
गुरुरेव हरिः साक्षान्नान्य इत्यब्रवीच्छृतिः ॥३१॥
श्रुत्या यदुक्तं परमार्थमेव तत्संशयो नात्र ततः समस्तम् ।
श्रुत्या विरोधे न भवेत्प्रमाणं भवेदनर्थाय विना प्रमाणम् ॥३२॥
देहस्थः सकलो ज्ञेयो निष्कलो देहवर्जितः । आप्तोपदेशगम्योऽसौ सर्वतः समवस्थितः ॥३३॥
हंसहंसेति यो ब्रूयाद्धंसो ब्रह्मा हरिः शिवः । गुरुवक्त्रात्तु लभ्येत प्रत्यक्षं सर्वतोमुखम् ॥३४॥
तिलेषु च यथा तैलं पुष्पे गन्ध इवाश्रितः । पुरुषस्य शरीरेऽस्मिन्स बाह्याभ्यन्तरे तथा ॥३५॥
उल्काहस्तो यथालोके द्रव्यमालोक्य तां त्यजेत् । ज्ञानेन ज्ञेयमालोक्य पश्चाज्ज्ञानं परित्यजेत् ॥३६॥
पुष्पवत्सकलं विद्याद्गन्धस्तस्य तु निष्कलः । वृक्षस्तु सकलं विद्याच्छाया तस्य तु निष्कला ॥३७॥
निष्कलः सकलो भावः सर्वत्रैव व्यवस्थितः । उपायः सकलस्तद्वदुपेयश्चैव निष्कलः ॥३८॥
सकले सकलो भावो निष्कले निष्कलस्तथा । एकमात्रो द्विमात्रश्च त्रिमात्रश्चैव भेदतः ॥३९॥
अर्धमात्र परा ज्ञेया तत ऊर्ध्वं परात्परम् । पञ्चधा पञ्चदैवत्यं सकलं परिपठ्यते ॥४०॥
ब्रह्मणो हृदयस्थानं कण्ठे विष्णुः समाश्रितः । तालुमध्ये स्थितो रुद्रो ललाटस्थो महेश्वरः ॥४१॥
नासाग्रे अच्युतं विद्यात्तस्यान्ते तु परं पदम् । परत्वात्तु परं नास्तीत्येवं शास्त्रस्य निर्णयः ॥४२॥
देहातीतं तु तं विद्यान्नासाग्रे द्वादशाङ्गुलम् । तदन्तं तं विजानीयात्तत्रस्थो व्यापयेत्प्रभुः ॥४३॥
मनोऽप्यन्यत्र निक्षिप्तं चक्षुरन्यत्र पातितम् । तथापि योगिनां योगो ह्यविच्छिन्नः प्रवर्तते ॥४४॥
एतत्तु परमं गुह्यमेतत्तु परमं शुभम् । नातः परतरं किञ्चिन्नातः परतरं शुभम् ॥४५॥
शुद्धज्ञानामृतं प्राप्य परमाक्षरनिर्णयम् । गुह्याद्गुह्यतमं गोप्यं ग्रहणीयं प्रयत्नतः ॥४६॥
नापुत्राय प्रदातव्यं नाशिष्याय कदाचन । गुरुदेवाय भक्ताय नित्यं भक्तिपराय च ॥४७॥
प्रदातव्यमिदं शास्त्रं नेतरेभ्यः प्रदापयेत् । दातास्य नरकं याति सिद्ध्यते न कदाचन ॥४८॥
गृहस्थो ब्रह्मचारी च वानप्रस्थश्च भिक्षुकः । यत्र तत्र स्थितो ज्ञानी परमाक्षरवित्सदा ॥४९॥
विषयी विषयासक्तो याति देहान्तरे शुभम् । ज्ञानादेवास्य शास्त्रस्य सर्वावस्थोऽपि मानवः ॥५०॥
ब्रह्महत्याश्वमेधाद्यैः पुण्यपापैर्न लिप्यते । चोदको बोधकश्चैव मोक्षदश्च परः स्मृतः ॥५१॥
इत्येषं त्रिविधो ज्ञेय आचार्यस्तु महीतले । चोदको दर्शयेन्मार्गं बोधकः स्थानमाचरेत् ॥५२॥
मोक्षदस्तु परं तत्त्वं यज्ज्ञात्वा परमश्नुते । प्रत्यक्षयजनं देहे संक्षेपाच्छृणु गौतम ॥५३॥
तेनेष्ट्वा स नरो याति शाश्वतं पदमव्ययम् । स्वयमेव तु संपश्येद्देहे बिन्दुं च निष्कलम् ॥५४॥
अयने द्वे च विषुवे सदा पश्यति मार्गवित् । कृत्वायामं पुरा वत्स रेचपूरककुम्भकान् ॥५५॥
पूर्वं चोभयमुच्चार्य अर्चयेत्तु यथाक्रमम् । नमस्कारेण योगेन मुद्रयारभ्य चार्चयेत् ॥५६॥
सूर्यस्य ग्रहणं वत्स प्रत्यक्षयजनं स्मृतम् । ज्ञानात्सायुज्यमेवोक्तं तोये तोयं यथा तथा ॥५७॥
एते गुणाः प्रवर्तन्ते योगाभ्यासकृतश्रमैः । तस्माद्योगं समादाय सर्वदुःखबहिष्कृतः ॥५८॥
योगध्यानं सदा कृत्वा ज्ञानं तन्मयतां व्रजेत् । ज्ञानात्स्वरूपं परमं हंसमन्त्रं समुच्चरेत् ॥५९॥
प्राणिनां देहमध्ये तु स्थितो हंसः सदाच्युतः । हंस एव परं सत्यं हंस एव तु शक्तिकम् ॥६०॥
हंस एव परं वाक्यं हंस एव तु वादिकम् । हंस एव परो रुद्रो हंस एव परात्परम् ॥६१॥
सर्वदेवस्य मध्यस्थो हंस एव महेश्वरः । पृथिव्यादिशिवान्तं तु अकाराद्याश्च वर्णकाः ॥६२॥
कूटान्ता हंस एव स्यान्मातृकेति व्यवस्थिताः । मातृकारहितं मन्त्रमादिशन्ते न कुत्रचित् ॥६३॥
हंसज्योतिरनूपम्यं मध्ये देवं व्यवस्थितम् । दक्षिणामुखमाश्रित्य ज्ञानमुद्रां प्रकल्पयेत् ॥६४॥
सदा समाधिं कुर्वीत हंसमन्त्रमनुस्मरन् । निर्मलस्फटिकाकारं दिव्यरूपमनुत्तमम् ॥६५॥
मध्यदेशे परं हंसं ज्ञानमुद्रात्मरूपकम् । प्राणोऽपानः समानश्चोदानव्यानौ च वायवः ॥६६॥
पञ्चकर्मेन्द्रियैरुक्ताः क्रियाशक्तिबलोद्यताः । नागः कूर्मश्च कृकरो देवदत्तो धनञ्जयः ॥६७॥
पञ्चज्ञानेन्द्रियैर्युक्ता ज्ञानशक्तिबलोद्यताः । पावकः शक्तिमध्ये तु नाभिचक्रे रविः स्थितः ॥६८॥
बन्धमुद्रा कृता येन नासाग्रे तु स्वलोचने । अकारेवह्निरित्याहुरुकारे हृदि संस्थितः ॥६९॥
मकारे च भ्रुवोर्मध्ये प्राणशक्त्या प्रबोधयेत् । ब्रह्मग्रन्थिरकारे च विष्णुग्रन्थिर्हृदि स्थितः ॥७०॥
रुद्रग्रन्थिर्भ्रुवोर्मध्ये भिद्यतेऽक्षरवायुना । अकारे संस्थितो ब्रह्मा उकारे विष्णुरास्थितः ॥७१॥
मकारे संस्थितो रुद्रस्ततोऽस्यान्तः परात्परः । कण्ठं सङ्कुच्य नाड्यादौ स्तम्भिते येन शक्तितः ॥७२॥
रसना पीड्यमानेयं षोडशी वोर्ध्वगामिनि । त्रिकूटं त्रिविधा चैव गोलाखं निखरं तथा ॥७३॥
त्रिशङ्खवज्रमोङ्कारमूर्ध्वनालं भ्रुवोर्मुखम् । कुण्डलीं चालयन्प्राणान्भेदयन्शशिमण्डलम् ॥७४॥
साधयन्वज्रकुम्भानि नवद्वाराणि बन्धयेत् । सुमनःपवनारूढः सरागो निर्गुणस्तथा ॥७५॥
ब्रह्मस्थाने तु नादः स्याच्छाकिन्यामृतवर्षिणी । षट्चक्रमण्डलोद्धारं ज्ञानदीपं प्रकाशयेत् ॥७६॥
सर्वभूतस्थितं देवं सर्वेशं नित्यमर्चयेत् । आत्मरूपं तमालोक्य ज्ञानरूपं निरामयम् ॥७७॥
दृश्यन्तं दिव्यरूपेण सर्वव्यापी निरञ्जनः । हंस हंस वदेद्वाक्यं प्राणिनां देहमाश्रितः ।
सप्राणापानयोर्ग्रन्थिरजपेत्यभिधीयते ॥७८॥
सहस्रमेकं द्वयुतं षट्शतं चैव सर्वदा । उच्चरन्पठितो हंसः सोऽहमित्यभिधीयते ॥७९॥
पूर्वभागे ह्यधोलिङ्गं शिखिन्यां चैव पश्चिमम् । ज्योतिर्लिङ्गं भ्रुवोर्मध्ये नित्यं ध्यायेत्सदा यतिः ॥८०॥
अच्युतोऽहमचिन्त्योऽहमतर्क्योऽहमजोऽस्म्यहम् । अप्राणोऽहमकायोऽहमनङ्गोऽस्म्यभयोऽस्म्यहम् ॥८१॥
अशब्दोऽहमरूपोऽहमस्पर्शोऽस्म्यहमद्वयः । अरसोऽहमगन्धोऽहमनादिरमृतोऽस्म्यहम् ॥८२॥
अक्षयोऽहमलिङ्गोऽहमजरोऽस्म्यकलोऽस्म्यहम् । अप्राणोऽहममूकोऽहमचिन्त्योऽस्म्यकृतोऽस्म्यहम् ॥८३॥
अन्तर्याम्यहमग्राह्योऽनिर्देश्योऽहमलक्षणः । अगोत्रोऽहमगात्रोऽहमचक्षुष्कोऽस्म्यवागहम् ॥८४॥
अदृश्योऽहमवर्णोऽहमखण्डोऽस्म्यहमद्भुतः । अश्रुतोऽहमदृष्टोऽहमन्वेष्टव्योऽमरोऽस्म्यहम् ॥८५॥
अवायुरप्यनाकाशोऽतेजस्कोऽव्यभिचार्यहम् । अमतोऽहमजातोऽहमतिसूक्ष्मोऽविकार्यहम् ॥८६॥
अरजस्कोऽतमस्कोऽहमसत्त्वोस्म्यगुणोऽस्म्यहम् । अमायोऽनुभवात्माहमनन्योऽविषयोऽस्म्यहम् ॥८७॥
अद्वैतोऽहमपूर्णोऽहमबाह्योऽहमनन्तरः । अश्रोतोऽहमदीर्घोऽहमव्यक्तोऽहमनामयः ॥८८॥
अद्वयानन्दविज्ञानघनोऽस्म्यहमविक्रियः । अनिच्छोऽहमलेपोऽहमकर्तास्म्यहमद्वयः ॥८९॥
अविद्याकार्यहीनोऽहमवाग्रसनगोचरः । अनल्पोऽहमशोकोऽहमविकल्पोऽस्म्यविज्वलन् ॥९०॥
आदिमध्यान्तहीनोऽहमाकाशसदृशोऽस्म्यहम् । आत्मचैतन्यरूपोऽहमहमानन्दचिद्घनः ॥९१॥
आनन्दामृतरूपोऽहमात्मसंस्थोहमन्तरः । आत्मकामोहमाकाशात्परमात्मेश्वरोस्म्यहम् ॥९२॥
ईशानोस्म्यहमीड्योऽहमहमुत्तमपूरुषः । उत्कृष्टोऽहमुपद्रष्टा अहमुत्तरतोऽस्म्यहम् ॥९३॥
केवलोऽहं कविः कर्माध्यक्षोऽहं करणाधिपः । गुहाशयोऽहं गोप्ताहं चक्षुषश्चक्षुरस्म्यहम् ॥९४॥
चिदानन्दोऽस्म्यहं चेता चिद्घनश्चिन्मयोऽस्म्यहम् । ज्योतिर्मयोऽस्म्यहं ज्यायाञ्ज्योतिषां ज्योतिरस्म्यहम् ॥९५॥
तमसः साक्ष्यहं तुर्यतुर्योऽहं तमसः परः । दिव्यो देवोऽस्मि दुर्दर्शो दृष्टाध्यायो ध्रुवोऽस्म्यहम् ॥९६॥
नित्योऽहं निरवद्योऽहं निष्क्रियोऽस्मि निरञ्जनः । निर्मलो निर्विकल्पोऽहं निराख्यातोऽस्मि निश्चलः ॥९७॥
निर्विकारो नित्यपूतो निर्गुणो निःस्पृहोऽस्म्यहम् । निरिन्द्रियो नियन्ताहं निरपेक्षोऽस्मि निष्कलः ॥९८॥
पुरुषः परमात्माहं पुराणः परमोऽस्म्यहम् । परावरोऽस्म्यहं प्राज्ञः प्रपञ्चोपशमोऽस्म्यहम् ॥९९॥
परामृतोऽस्म्यहं पूर्णः प्रभुरस्मि पुरातनः । पूर्णानन्दैकबोधोऽहं प्रत्यगेकरसोऽस्म्यहम् ॥१००॥
प्रज्ञातोऽहं प्रशान्तोऽहं प्रकाशः परमेश्वरः । एकदा चिन्त्यमानोऽहं द्वैताद्वैतविलक्षणः ॥१०१॥
बुद्धोऽहं भूतपालोऽहं भारूपो भगवानहम् । महाज्ञेयो महानस्मि महाज्ञेयो महेश्वरः ॥१०२॥
विमुक्तोऽहं विभुरहं वरेण्यो व्यापकोऽस्म्यहम् । वैश्वानरो वासुदेवो विश्वतश्चक्षुरस्म्यहम् ॥१०३॥
विश्वाधिकोऽहं विशदो विष्णुर्विश्वकृदस्म्यहम् । शुद्धोऽस्मि शुक्रः शान्तोऽस्मि शाश्वतोऽस्मि शिवोऽस्म्यहम् ॥१०४॥
सर्वभूतान्तरात्महमहमस्मि सनातनः । अहं सकृद्विभातोऽस्मि स्वे महिम्नि सदा स्थितः ॥१०५॥
सर्वान्तरः स्वयंज्योतिः सर्वाधिपतिरस्म्यहम् । सर्वभूताधिवासोऽहं सर्वव्यापी स्वराडहम् ॥१०६॥
समस्तसाक्षी सर्वात्मा सर्वभूतगुहाशयः । सर्वेन्द्रियगुणाभासः सर्वेन्द्रियविवर्जितः ॥१०७॥
स्थानत्रयव्यतीतोऽहं सर्वानुग्राहकोऽस्म्यहम् । सच्चिदानन्द पूर्णात्मा सर्वप्रेमास्पदोऽस्म्यहम् ॥१०८॥
सच्चिदानन्दमात्रोऽहं स्वप्रकाशोऽस्मि चिद्घनः । सत्त्वस्वरूपसन्मात्रसिद्धसर्वात्मकोऽस्म्यहम् ॥१०९॥
सर्वाधिष्ठानसन्मात्रः स्वात्मबन्धहरोऽस्म्यहम् । सर्वग्रासोऽस्म्यहं सर्वद्रष्टा सर्वानुभूरहम् ॥११०॥
एवं यो वेद तत्त्वेन स वै पुरुष उच्यत इत्युपनिषत् ॥ ॐ सह नाववतु ॥ सह नौ भुनक्तु ॥ सह वीर्यं करवावहै ॥
तेजस्विनावधीतमस्तु मा विद्विषावहै ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ इति ब्रह्मविद्योपनिषत्समाप्ता ॥

N/A

N/A
Last Updated : August 29, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP