संस्कृत सूची|संस्कृत साहित्य|उपनिषद‌|
शरभोपनिषत्

शरभोपनिषत्

जन्ममरणाचे निवारण करून ब्रह्मपदाला पोचविणारी विद्या म्हणजे उपनिषद्.

Upanishad are highly philosophical and metaphysical part of Vedas.


॥ शरभोपनिषत् ॥ अथर्व वेद,शैव उपनिषद्

सर्वं सन्त्यज्य मुनयो यद्भजन्त्यात्मरूपतः ।

तच्छारभं त्रिपाद्ब्रह्म स्वमात्रमवशिष्यते ॥

ॐ भद्रं कर्णेभिः शृणुयाम देवाः ।

भद्रं पश्येमाक्षभिर्यजत्राः ।

स्थिरैरङ्गैस्तुष्टुवाँसस्तनूभिः ।

व्यशेम देवहितं यदायुः ।

स्वस्ति न इन्द्रो वृद्धश्रवाः ।

स्वस्ति नः पूषा विश्वदेवाः ।

स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः ।

स्वस्ति नो बृहस्पतिर्दधातु ॥

ॐ शान्तिः शान्तिः शान्तिः ॥

अथ हैनं पैप्पलादो ब्रह्माणमुवाच भो भगवन्

ब्रह्मविष्णुरुद्राणां मध्ये को वा अधिकतरो ध्येयः

स्यात्तत्त्वमेव नो ब्रूहीति ।

तस्मै स होवाच पितामहश्च

हे पैप्पलाद शृणु वाक्यमेतत् ।

बहूनि पुण्यानि कृतानि येन

तेनैव लभ्यः परमेश्वरोऽसौ ।

यस्याङ्गजोऽहं हरिरिन्द्रमुख्या

मोहान्न जानन्ति सुरेन्द्रमुख्याः ॥१॥

प्रभुं वरेण्यं पितरं महेशं

यो ब्रह्माणं विदधाति तस्मै ।

वेदांश्च सर्वान्प्रहिणोति चाग्र्यं

तं वै प्रभुं पितरं देवतानाम् ॥२॥

ममापि विष्णोर्जनकं देवमीड्यं

योऽन्तकाले सर्वलोकान्संजहार ॥३॥

स एकः श्रेष्ठश्च सर्वशास्ता स एव वरिष्ठश्च ।

यो घोरं वेषमास्थाय शरभाख्यं महेश्वरः ।

नृसिंहं लोकहन्तारं संजघान महाबलः ॥४॥

हरिं हरन्तं पादाभ्यामनुयान्ति सुरेश्वराः ।

मावधीः पुरुषं विष्णुं विक्रमस्व महानसि ॥५॥

कृपया भगवान्विष्णुं विददार नखैः खरैः ।

चर्माम्बरो महावीरो वीरभद्रो बभूव ह ॥६॥

स एको रुद्रो ध्येयः सर्वेषां सर्वसिद्धये ।

यो ब्रह्मणः पञ्चवक्रहन्ता

तस्मै रुद्राय नमो अस्तु ॥७॥

यो विस्फुलिङ्गेन ललाटजेन सर्वं जगद्भस्मसात्संकरोति ।

पुनश्च सृष्ट्वा पुनरप्यरक्षदेवं स्वतन्त्रं प्रकटीकरोति ।

तस्मै रुद्राय नमो अस्तु ॥८॥

यो वामपादेन जघान कालं घोरं पपेऽथो हालहलं दहन्तम् ।

तस्मै रुद्राय नमो अस्तु ॥९॥

यो वामपादार्चितविष्णुनेत्रस्तस्मै ददौ चक्रमतीव हृष्टः ।

तस्मै रुद्राय नमो अस्तु ॥१०॥

यो दक्षयज्ञे सुरसङ्घान्विजित्य

विष्णुं बबन्धोरगपाशेन वीरः ।

तस्मै रुद्राय नमो अस्तु ॥११॥

यो लीलयैव त्रिपुरं ददाह

विष्णुं कविं सोमसूर्याग्निनेत्रः ।

सर्वे देवाः पशुतामवापुः

स्वयं तस्मात्पशुपतिर्बभूव ।

तस्मै रुद्राय नमो अस्तु ॥१२॥

यो मत्स्यकूर्मादिवराहसिंहा-

न्विष्णुं क्रमन्तं वामनमादिविष्णुम् ।

विविक्लवं पीड्यमानं सुरेशं

भस्मीचकार मन्मथं यमं च ।

तस्मै रुद्राय नमो अस्तु ॥१३॥

एवं प्रकारेण बहुधा प्रतुष्ट्वा

क्षमापयामासुर्नीलकण्ठं महेश्वरम् ।

तापत्रयसमुद्भूतजन्ममृत्युजरादिभिः ।

नाविधानि दुःखानि जहार परमेश्वरः ॥१४॥

एवं मन्त्रैः प्रार्थ्यमान आत्मा वै सर्वदेहिनाम् ।

शङ्करो भगवानाद्यो ररक्ष सकलाः प्रजाः ॥१५॥

यत्पादाम्भोरुहद्वन्द्वं मृग्यते विष्णुना सह ।

स्तुत्वा स्तुत्यं महेशानमवाङ्मनसगोचरम् ॥१६॥

भक्त्या नम्रतनोर्विष्णोः प्रसादमकरोद्विभुः ।

यतो वाचो निवर्तन्ते अप्राप्य मनसा सह ।

आनन्दं ब्रह्मणो विद्वान्न बिभेति कदाचनेति ॥१७॥

अणोरणीयान्महतो महीया-

नात्मास्यजन्तोर्निहितो गुहायाम् ।

तमक्रतुं पश्यति वीतशोको

धातुःप्रसादान्महिमानमीशम् ॥१८॥

वसिष्ठवैयासकिवामदेव-

विरिञ्चिमुख्यैर्हृदि भाव्यमानः ।

सनत्सुजातादिसनातनाद्यै-

रीड्यो महेशो भगवानादिदेवः ॥१९॥

सत्यो नित्यः सर्वसाक्षी महेशो

नित्यानन्दो निर्विकल्पो निराख्यः ।

अचिन्त्यशक्तिर्भगवान्गिरीशः

स्वाविद्यया कल्पितमानभूमिः ॥२०॥

अतिमोहकरी माया मम विष्णोश्च सुव्रत ।

तस्य पादाम्बुजध्यानाद्दुस्तरा सुतरा भवेत् ॥२१॥

विष्णुर्विश्वजगद्योनिः स्वांशभूतैः स्वकैः सह ।

ममांशसंभवो भूत्वा पालयत्यखिलं जगत् ॥२२॥

विनाशं कालतो याति ततोऽन्यत्सकलं मृषा ।

ॐ तस्मै महाग्रासाय महादेवाय शूलिने ।

महेश्वराय मृडाय तस्मै रुद्राय नमो अस्तु ॥२३॥

एको विष्णुर्महद्भूतं पृथग्भूतायनेकशः ।

त्रींल्लोकान्व्याप्य भूतात्मा भुङ्क्ते विश्वभुगव्ययः ॥२४॥

चतुर्भिश्च चतुर्भिश्च द्वाभ्यां पञ्चमिरेव च ।

हूयते च पुनर्द्वाभ्यां स मे विष्णुः प्रसीदतु ॥२५॥

ब्रह्मार्पणं ब्रह्म हविर्ब्रह्माग्नौ ब्रह्मणा हुतम् ।

ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना ॥२६॥

शरा जीवास्तदङ्गेषु भाति नित्यं हरिः स्वयम् ।

ब्रह्मैव शरभः साक्षान्मोक्षदोऽयं महामुने ॥२७॥

मायावशादेव देवा मोहिता ममतादिभिः ।

तस्य माहात्म्यलेशांशं वक्तुं केनाप्य शक्यते ॥२८॥

परात्परतरं ब्रह्म यत्परात्परतो हरिः ।

परात्परतरो हीशस्तस्मात्तुल्योऽधिको न हि ॥२९॥

एक एव शिवो नित्यस्ततोऽन्यत्सकलं मृषा ।

तस्मात्सर्वान्परित्यज्य ध्येयान्विष्ण्वादिकान्सुरान् ॥३०॥

शिव एव सदा ध्येयः सर्वसंसारमोचकः ।

तस्मै महाग्रासाय महेश्वराय नमः ॥३१॥

पैप्पलादं महाशास्त्रं न देयं यस्य कस्यचित् ।

नास्तिकाय कृतघ्नाय दुर्वृत्ताय दुरात्मने ॥३२॥

दांभिकाय नृशंसाय शठायानृतभाषिणे ।

सुव्रताय सुभक्ताय सुवृत्ताय सुशीलिने ॥३३॥

गुरुभक्ताय दान्ताय शान्ताय ऋजुचेतसे ।

शिवभक्ताय दातव्यं ब्रह्मकर्मोक्तधीमते ॥३४॥

स्वभक्तायैव दातव्यमकृतघ्नाय सुव्रतम् ।

न दातव्यं सदा गोप्यं यत्नेनैव द्विजोत्तम ॥३५॥

एतत्पैप्पलादं महाशास्त्रं योऽधीते श्रावयेद्द्विजः

स जन्ममरणेभ्यो मुक्तो भवति ।

यो जानीते सोऽमृतत्वं

च गच्छति ।

गर्भवासाद्विमुक्तो भवति ।

सुरापानात्पूतो

भवति ।

स्वर्णस्तेयात्पूतो भवति ।

ब्रह्महत्यात्पूतो

भवति ।

गुरुतल्पगमनात्पूतो भवति ।

स सर्वान्वेदानधीतो

भवति ।

स सर्वान्देवान्ध्यातो भवति ।

स समस्तमहापातको-

पपातकात्पूतो भवति ।

तस्मादविमुक्तमाश्रितो भवति ।

स सततं शिवप्रियो भवति ।

स शिवसायुज्यमेति ।

न स

पुनरावर्तते न स पुनरावर्तते ।

ब्रह्मैव भवति ।

इत्याह

भगवान्ब्रह्मेत्युपनिषत् ॥

ॐ भद्रं कर्णेभिः शृणुयाम देवाः ।

भद्रं पश्येमाक्षभिर्यजत्राः ।

स्थिरैरङ्गैस्तुष्टुवाँसस्तनूभिः ।

व्यशेम देवहितं यदायुः ।

स्वस्ति न इन्द्रो वृद्धश्रवाः ।

स्वस्ति नः पूषा विश्ववेदाः ।

स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः ।

स्वस्ति नो बृहस्पतिर्दधातु ।

ॐ शान्तिः शान्तिः शान्तिः ॥

इति शरभोपनिषत्समाप्ता ॥

N/A

N/A
Last Updated : October 12, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP