संस्कृत सूची|संस्कृत साहित्य|उपनिषद‌|
निर्वाणोपनिषत्

निर्वाणोपनिषत्

जन्ममरणाचे निवारण करून ब्रह्मपदाला पोचविणारी विद्या म्हणजे उपनिषद्.

Upanishad are highly philosophical and metaphysical part of Vedas.


 

 

॥ निर्वाणोपनिषत् ॥ ( ऋग्वेदीय संन्यासोपनिषत्)

निर्वाणोपनिषद्वेद्यं निर्वाणानन्दतुन्दिलम् । त्रैपदानन्दसाम्राज्यं स्वमात्रमिति चिन्तयेत् ॥

ॐ वाङ्मे मनसि प्रतिष्ठिता । मनो मे वाचि प्रतिष्ठितम् । आविरावीर्म एधि । वेदस्य मा आणीस्थः । श्रुतं मे मा प्रहासीः ।

अनेनाधीतेनाहोरात्रान्सन्दधामि । ऋतं वदिष्यामि । सत्यं वदिष्यामि । तन्मामवतु । तद्वक्तारमवतु । अवतु मामवतु वक्तारम् ।

ॐ शान्तिः शान्तिः शान्तिः ॥

अथ निर्वाणोपनिषदं व्याख्यास्यामः । परमहंसः सोऽहम् । परिव्राजकाः पश्चिमलिङ्गाः । मन्मथ क्षेत्रपालाः ।

गगनसिद्धान्तः अमृतकल्लोलनदी । अक्षयं निरञ्जनम् । निःसंशय ऋषिः । निर्वाणोदेवता । निष्कुलप्रवृत्तिः ।

निष्केवलज्ञानम् । ऊर्ध्वाम्नायः । निरालम्ब पीठः । संयोगदीक्षा । वियोगोपदेशः । दीक्षासन्तोषपानं च ।

द्वादशावदित्यावलोकनम् । विवेकरक्षा । करुणैव केलिः । आनन्दमाला । एकान्तगुहायां मुक्तासनसुखगोष्टी ।

अकल्पितभिक्षाशी । हंसाचारः ।सर्वभूतान्तर्वर्ती हंस इति प्रतिपादनम् । धैर्यकन्था । उदासीन कौपीनम् । विचारदण्डः ।

ब्रह्मावलोकयोगपट्टः ।श्रियां पादुका । परेच्छाचरणम् । कुण्डलिनीबन्धः । परापवादमुक्तो जीवन्मुक्तः । शिवयोगनिद्रा च ।

खेचरीमुद्रा च । परमानन्दी । निर्गतगुणत्रयम् । विवेकलभ्यं मनोवागगोचरम् । अनित्यं जगद्यज्जनितं स्वप्नजगदभ्रगजादितुल्यम् ।

तथा देहादिसङ्घातं मोहगुणजालकलितं तद्रज्जुसर्पवत्कल्पितम् । विष्णुविध्यादिशताभिधानलक्ष्यम् । अङ्कुशो मार्गः ।

शून्यं न सङ्केतः । परमेश्वरसत्ता । सत्यसिद्धयोगो मठः । अमरपदं तत्स्वरूपम् । आदिब्रह्मस्वसंवित् । अजपा गायत्री ।

विकारदण्डो ध्येयः । मनोनिरोधिनी कन्था । योगेन सदानन्दस्वरूपदर्शनम् । आनन्द भिक्षाशी । महाश्मशानेऽप्यानन्दवने वासः ।

एकान्तस्थानम् । आनन्दमठम् । उन्मन्यवस्था । शारदा चेष्टा । उन्मनी गतिः । निर्मलगात्रम् । निरालम्बपीठम् ।

अमृतकल्लोलानन्दक्रिया । पाण्डरगगनम् । महासिद्धान्तः । शमदमादिदिव्यशक्त्याचरणे क्षेत्रपात्रपटुता । परावरसंयोगः ।

तारकोपदेशाः । अद्वैतसदानन्दो देवता । नियमः स्वातरिन्द्रियनिग्रहः । भयमोहशोकक्रोधत्यागस्त्यागः । अनियामकत्वनिर्मलशक्तिः ।

स्वप्रकाशब्रह्मतत्त्वे शिवशक्तिसम्पुटित प्रपञ्चच्छेदनम् । तथा पत्राक्षाक्षिकमण्डलुः । भवाभावदहनम् । बिभ्रत्याकाशाधारम् ।

शिवं तुरीयं यज्ञोपवीतम् । तन्मया शिखा । चिन्मयं चोत्सृष्टिदण्डम् । सन्तताक्षिकमण्डलुम् । कर्मनिर्मूलनं कन्था ।

मायाममताहङ्कारदहनम् । स्प्रशाने अनाहताङ्गी । निस्त्रैगुण्यस्वरूपानुसन्धानं समयम् । भ्रान्तिहरणम् । कामादिवृत्तिदहनम् ।

काठिन्यदृढकौपीनम् । चीराजिनवासः । अनाहतमन्त्रः । अक्रिययैव जुष्टम् । स्वेच्छाचारस्वस्वभावो मोक्षः परं ब्रह्म । प्लववदाचरणम् ।

ब्रह्मचर्यशान्तिसंग्रहणम् । ब्रह्मचर्याश्रमेऽधीत्य ससर्वसंविन्न्यासं संन्यासम् । अन्ते ब्रह्माखण्डाकारम् । नित्यं सर्वसन्देहनाशनम् ।

एतन्निर्वाणदर्शनम् । शिष्यं पुत्रं विना न देयमित्युपनिषत् । ॐ वाङ्मे मनसीति शान्तिः ॥

॥ इति निर्वाणोपनिषत्समाप्ता ॥

N/A

N/A
Last Updated : December 14, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP