TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|उपनिषद‌|
प्रश्नोपनिषत्

प्रश्नोपनिषत्

जन्ममरणाचे निवारण करून ब्रह्मपदाला पोचविणारी विद्या म्हणजे उपनिषद् .

Upanishad are highly philosophical and metaphysical part of Vedas.


प्रश्नोपनिषत्

॥ प्रश्नोपनिषत् ॥ अथर्व वेद,मुख्य उपनिषद्

ॐ भद्रं कर्णेभिः शृणुयाम देवा

भद्रम् पष्येमाक्षभिर्यजत्राः ।

स्थिरैरङ्गैस्तुष्तुवाँसस्तनूभिर्व्यशेम देवहितं यदायुः ॥

स्वस्ति न इन्द्रो वृद्धश्रवाः

स्वस्ति नः पूषा विश्ववेदाः ।

स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः

स्वस्ति नो बृहस्पतिर्दधातु ॥

ॐ शान्तिः शान्तिः शान्तिः ॥

 

ॐ सुकेशा च भारद्वाजः शैब्यश्च सत्यकामः सौर्यायणी

च गार्ग्यः कौसल्यश्चाश्वलायनो भार्गवो वैदर्भिः कबन्धी

कात्यायनस्ते हैते ब्रह्मपरा ब्रह्मनिष्ठाः परं

ब्रह्मान्वेषमाणा एष ह वै तत्सर्वं वक्ष्यतीति ते ह

समित्पाणयो भगवन्तं पिप्पलादमुपसन्नाः ॥१॥

 

तन् ह स ऋषिरुवच भूय एव तपसा ब्रह्मचर्येण श्रद्धया संवत्सरं संवत्स्यथ

यथाकामं प्रश्नान् पृच्छत यदि विज्ञास्यामः सर्वं ह वो वक्ष्याम इति ॥२॥

 

अथ कबन्धी कत्यायन उपेत्य पप्रच्छ ।

भगवन् कुते ह वा इमाः प्रजाः प्रजायन्त इति ॥३॥

 

तस्मै स होवाच प्रजाकामो वै प्रजापतिः स तपोऽतप्यत

स तपस्तप्त्वा स मिथुनमुत्पादयते ।

रयिं च प्रणंचेत्येतौ मे बहुधा प्रजाः करिष्यत इति ॥४॥

 

आदित्यो ह वै प्राणो रयिरेव चन्द्रमा रयिर्वा एतत्

सर्वं यन्मूर्तं चामूर्तं च तस्मान्मूर्तिरेव रयिः ॥५॥

 

अथादित्य उदयन्यत्प्राचीं दिशं प्रविशति तेन प्राच्यान्

प्राणान् रश्मिषु सन्निधत्ते । यद्दक्षिणां यत् प्रतीचीं यदुदीचीं

यदधो यदूर्ध्वं यदन्तरा दिशो यत् सर्वं प्रकाशयति

तेन सर्वान् प्राणान् रश्मिषु सन्निधत्ते ॥६॥

 

स एष वैश्वानरो विश्वरुपः प्राणोऽग्निरुदयते ।

तदेतदृचाऽभ्युक्तम् ॥७॥

 

विश्वरूपं हरिणं जातवेदसं

परायणं ज्योतिरेकं तपन्तम् ।

सहस्ररश्मिः शतधा वर्तमानः

प्राणः प्रजानामुदयत्येष सूर्यः ॥८॥

 

संवत्सरो वै प्रजापतिस्तस्यायने दक्षिणं चोत्तरं च ।

तद्ये ह वै तदिष्टापूर्ते कृतमित्युपासते ते चान्द्रमसमेव लोकमभिजयन्ते ।

त एव पुनरावर्तन्ते तस्मादेत ऋषयः प्रजाकामा दक्षिणं प्रतिपद्यन्ते ।

एष ह वै रयिर्यः पितृयाणः ॥९॥

 

अथोत्तरेण तपसा ब्रह्मचर्येण श्रद्धया

विद्ययाऽऽत्मानमन्विष्यादित्यमभिजयन्ते । एतद्वै

प्राणानामायतनमेतदमृतमभयमेतत् परायणमेतस्मान्न

पुनरावर्तन्त इत्येष निरोधस्तदेष श्लोकः ॥१०॥

 

पञ्चपादं पितरं द्वादशाकृतिं

दिव आहुः परे अर्धे पुरीषिणम् ।

अथेमे अन्य उ परे विचक्षणं

सप्तचक्रे षडर आहुरर्पितमिति ॥११॥

 

मासो वै प्रजापतिस्तस्य कृष्णपक्ष एव रयिः

शुक्लः प्रणस्तस्मादेत ऋषयः शुक्ल इष्टं कुर्वन्तीतर

इतरस्मिन् ॥१२॥

 

अहोरात्रो वै प्रजापतिस्तस्याहरेव प्राणो रात्रिरेव रयिः

प्राणं वा एते प्रस्कन्दन्ति ये दिवा रत्या संयुज्यन्ते

ब्रह्मचर्यमेव तद्यद्रात्रौ रत्या संयुज्यन्ते ॥१३॥

 

अन्नं वै प्रजापतिस्ततो ह वै तद्रेतस्तस्मादिमाः प्रजाः

प्रजायन्त इति ॥१४॥

 

तद्ये ह वै तत् प्रजापतिव्रतं चरन्ति ते मिथुनमुत्पादयन्ते ।

तेषामेवैष ब्रह्मलोको येषां तपो ब्रह्मचर्यं येषु सत्यं

प्रतिष्टितम् ॥१५॥

 

तेषामसौ विरजो ब्रह्मलोको न येषु जिह्ममनृतं न माया चेति ॥१६॥

 

इति प्रश्नोपनिषदि प्रथमः प्रश्नः ॥

 

अथ हैनं भार्गवो वैदर्भिः पप्रच्छ । भगवन् कत्येव

देवाः प्रचां दिधारयन्ते कतर एतत् प्रकशयन्ते कः

पुनरेषां वरिष्ठ इति ॥१॥

 

तस्मै स होवाचाकाशो ह वा एष देवो वायुरग्निरापः

पृथिवी वाङ्मनश्चक्षुः श्रोत्रं च । ते प्रकाश्याभिवदन्ति

वयमेतद्बाणमवष्टभ्य विधारयामः ॥२॥

 

तान् वरिष्ठः प्राण उवाच । मा मोहमापद्यथ अहमेवैतत्

पञ्चधाऽऽत्मानं प्रविभज्यैतद्बाणमवष्टभ्य

विधारयामीति

तेऽश्रद्दधाना बभूवुः ॥३॥

 

सोऽभिमानादूर्ध्वमुत्क्रामत इव तस्मिन्नुत्क्रामत्यथेतरे सर्व

एवोत्क्रामन्ते तस्मिश्च प्रतिष्ठमाने सर्व एव प्रतिष्ठन्ते ।

तद्यथा मक्षिका मधुकरराजानमुत्क्रामन्तं सर्व एवोत्क्रमन्ते

तस्मिष्च प्रत्ष्ठमाने सर्व एव प्रतिष्टन्त एवम् वाङ्मनष्चक्षुः

श्रोत्रं च ते प्रीताः प्राणं स्तुन्वन्ति ॥४॥

 

एषोऽग्निस्तपत्येष सूर्य

एष पर्जन्यो मघवानेष वायुः

एष पृथिवी रयिर्देवः

सदसच्चामृतं च यत् ॥५॥

 

अरा इव रथनाभौ प्राणे सर्वं प्रतिष्ठितम् ।

ऋचो यजूँषि सामानि यज्ञः क्षत्रं ब्रह्म च ॥६॥

 

प्रजापतिश्चरसि गर्भे त्वमेव प्रतिजायसे ।

तुभ्यं प्राण प्रजास्त्विमा बलिं हरन्ति

यः प्रणैः प्रतितिष्ठसि ॥७॥

 

देवानामसि वह्नितमः पितृणां प्रथमा स्वधा ।

ऋषीणां चरितं सत्यमथर्वाङ्गिरसामसि ॥८॥

 

इन्द्रस्त्वं प्राण तेजसा रुद्रोऽसि परिरक्षिता ।

त्वमन्तरिक्षे चरसि सूर्यस्त्वं ज्योतिषां पतिः ॥९॥

 

यदा त्वमभिवर्षस्यथेमाः प्राण ते प्रजाः ।

आनन्दरूपास्तिष्ठन्ति कामायान्नं भविष्यतीति ॥१०॥

 

व्रात्यस्त्वं प्राणैकर्षरत्ता विश्वस्य सत्पतिः ।

वयमाद्यस्य दातारः पिता त्वं मातरिश्व नः ॥११॥

 

या ते तनूर्वाचि प्रतिष्ठिता या श्रोत्रे या च चक्षुषि ।

या च मनसि सन्तता शिवां तां कुरू मोत्क्रमीः ॥१२॥

 

प्राणस्येदं वशे सर्वं त्रिदिवे यत् प्रतिष्ठितम् ।

मातेव पुत्रान् रक्षस्व श्रीश्च प्रज्ञां च विधेहि न इति ॥१३॥

 

इति प्रश्नोपनिषदि द्वितीयः प्रश्नः ॥

 

 

अथ हैनं कौशल्यष्चाश्वलायनः पप्रच्छ । भगवन् कुत

एष प्राणो जायते कथमायात्यस्मिञ्शरीर आत्मानं वा

प्रविभज्य कथं प्रतिष्ठते केनोत्क्रमते कथं बह्यमभिधते

कथमध्यात्ममिति ॥१॥

 

तस्मै स होउवाचातिप्रष्चान् पृच्छसि ब्रह्मिष्ठोऽसीति

तस्मात्तेऽहं ब्रवीमि ॥२॥

 

आत्मन एष प्राणो जायते ।

यथैषा पुरुषे छायैतस्मिन्नेतदाततं

मनोकृतेनायात्यस्मिञ्शरीरे ॥३॥

 

यथा सम्रादेवाधिकृतान् विनियुङ्क्ते । एतन् ग्रामानोतान्

ग्रामानधितिष्टस्वेत्येवमेवैष प्राण इतरान् प्राणान् पृथक्

पृथगेव सन्निधत्ते ॥४॥

 

पायूपस्थेऽपानं चक्षुःश्रोत्रे मुखनासिकाभ्यां प्राणःस्वयं प्रातिष्टते मध्ये तु समानः ।

एष ह्येतद्धुतमन्नं समंनयति तस्मादेताः सप्तार्चिषो भवन्ति ॥५॥

 

हृदि ह्येष आत्मा ।

अत्रैतदेकशतं नाडीनं तासां शतं शतमेकैकस्या द्वासप्ततिर्द्वासप्ततिः

प्रतिशाखानाडीसहस्राणि भवन्त्यासु व्यानश्चरति ॥६॥

 

अथैकयोर्ध्व उदानः पुण्येन पुण्यं लोकं नयति पापेन

पापमुभाभ्यामेव मनुष्यलोकम् ॥७॥

 

आदित्यो ह वै बाह्यः प्राण उदयत्येष ह्येनं चाक्षुषंप्राणमनुगृह्णानः ।

पृथिव्यां या देवता सैषा पुरुषस्य

अपानमवष्टभ्यान्तरा यदाकाशः स समानो वायुर्व्यानः ॥८॥

 

तेजो ह वा उदानस्तस्मादुपशान्ततेजाः । पुनर्भवमिन्द्रियैर्मनसि सम्पध्यमानैः ॥९॥

 

यच्चित्तस्तेनैष प्राणमायाति । प्राणस्तेजसा युक्तः सहात्मना

तथासङ्कल्पितं लोकं नयति ॥१०॥

 

य एवं विद्वान् प्राणं वेद न हास्य प्रजा हीयतेऽमृतो

भवति तदेषः श्लोकः ॥११॥

 

उत्पत्तिमायतिं स्थानं विभुत्वं चैव पञ्चधा ।

अध्यात्मं चैव प्राणस्य विज्ञायामृतमश्नुते

विज्ञायामृतमश्नुत इति ॥१२॥

 

इति प्रश्नोपनिषदि तृतीयः प्रश्नः ॥

 

अथ हैनं सौर्यायणि गार्ग्यः पप्रच्छ । भगवन्नेतस्मिन्

पुरुषे कानि स्वपन्ति कान्यस्मिञ्जाग्रति कतर एष देवः

स्वप्नान् पश्यति कस्यैतत् सुखं भवति कस्मिन्नु सर्वे

सम्प्रतिष्टिता भवन्तीति ॥१॥

 

तस्मै स होवच । यथ गार्ग्य मरीचयोऽर्कस्यास्तं

गच्छतः सर्वा एतस्मिंस्तेजोमण्डल एकीभवन्ति । ताः पुनः

पुनरुदयतः प्रचरन्त्येवं ह वै तत् सर्वं परे देवे मनस्येकीभवति

तेन तर्ह्येष पुरुषो न शृणोति न पश्यति न

जिघ्रति न रसयते न स्पृशते नाभिवदते नादत्ते नानन्दयते

न विसृजते नेयायते स्वपितीत्याचक्षते ॥२॥

 

प्राणाग्रय एवैतस्मिन् पुरे जाग्रति । गार्हपत्यो ह

वा एषोऽपानो व्यानोऽन्वाहार्यपचनो यद्गार्हपत्यात् प्रणीयते

प्रणयनादाहवनीयः प्राणः ॥३॥

 

 

यदुच्छ्वासनिःश्वासावेतावाहुती समं नयतीति स समानः ।

मनो ह वाव यजमानः । इष्टफलमेवोदानः ।

स एनं यजमानमहरहर्ब्रह्म गमयति ॥४॥

 

अत्रैष देवः स्वप्ने महिमानमनुभवति ।

यद्दृष्टंदृष्टमनुपश्यति

श्रुतं श्रुतमेवार्थमनुशृणोति देशदिगन्तरैश्च प्रत्यनुभूतं

पुनः पुनः प्रत्यनुभवति दृष्टं चादृष्टं च श्रुतं चाश्रुतं

चानुभूतं चाननुभूतं च स्च्चासच्च सर्वं पश्यति सर्वः पस्यति ॥५॥

 

स यदा तेजसाऽभिभूतो भवति । अत्रैष देवः स्वप्नान्न

पश्यत्यथ यदैतस्मिञ्शरीर एतत्सुखं भवति ॥६॥

 

स यथा सोभ्य वयांसि वसोवृक्षं संप्रतिष्ठन्ते ।

एवं ह वै तत् सर्वं पर आत्मनि संप्रतिष्ठते ॥७॥

 

पृथिवी च पृथिवीमात्रा चापश्चापोमात्रा च तेजश्च

तेजोमात्रा च वायुश्च वायुमात्रा चाकाशश्चाकाशमात्रा

च चक्षुश्च द्रष्टव्यं च श्रोत्रं च श्रोतव्यं च ग्राणं च

घ्रातव्यं च रसश्च रसयितव्यं च त्वक्च स्पर्शयितव्यं च

वाक्च वक्तव्यं च हस्तौ चादातव्यं चोपस्थश्चानन्दयितव्यं

च पायुश्च विसर्जयितव्यं च यादौ च गन्तव्यं च मनश्च

मन्तव्यं च बुद्धिश्च बोद्धिव्यं चाहङ्कारश्चाहङ्कर्तव्यं च

चित्तं च चेतयितव्यं च तेजश्च विद्योतयितव्यं च प्राणश्च

विद्यारयितव्यं च ॥८॥

 

एष हि द्रष्ट स्प्रष्टा श्रोता घ्राता रसयिता मन्ता

बोद्धा कर्ता विज्ञानात्मा पुरुषः ।

स परेऽक्षर आत्मनि संप्रतिष्ठते ॥९॥

 

परमेवाक्षरं प्रतिपद्यते स यो ह वै

तदच्छायमशरीरम्लोहितं

शुभ्रमक्षरं वेदयते यस्तु सोम्य ।

स सर्वज्ञः सर्वो भवति ।

तदेष श्लोकः ॥१०॥

 

विज्ञानात्मा सह देवैश्च सर्वैः

प्राणा भुतानि संप्रतिष्ठन्ति यत्र

तदक्षरं वेदयते यस्तु सोम्य

स सर्वज्ञः सर्वमेवाविवेशेति ॥११॥

 

इति प्रश्नोपनिषदि चतुर्थः प्रश्नः ॥

 

अथ हैनं सैब्यः सत्यकामः पप्रच्छ ।

स यो हवै तभ्दगवन्मनुष्येषु प्रायणान्तमोङ्कारमभिध्यायीत ।

कतमं वाव स तेन लोकं जयतीति ।

तस्मै स होवाच ॥१॥

 

एतद्वै सत्यकाम परं चापरं च ब्रह्म यदोङ्कारः ।

तस्माद्विद्वानेतेनैवायतनेनैकतरमन्वेति ॥२॥

 

स यध्येकमात्रमभिध्यायीत स तेनैव संवेदितस्तूर्णमेव जगत्याभिसंपध्यते ।

तमृचो मनुष्यलोकमुपनयन्ते स तत्र

तपसा ब्रह्मचर्येण श्रद्धया संपन्नो महिमानमनुभवति ॥३॥

 

अथ यदि द्विमात्रेण मनसि संपध्यते सोऽन्तरिक्षं यजुर्भिरुन्नीयते सोमलोकम् ।

स सोमलोके विभुतिमनुभूय पुनरावर्तते ॥४॥

 

यः पुनरेतं त्रिमात्रेणोमित्येतेनैवाक्षरेण परं पुरुषमभि-ध्यायीत स तेजसि सूर्ये संपन्नः ।

यथा पादोदरस्त्वचाविनिर्भुच्यत एवं ह वै स पाप्मना विनिर्भुक्तः स

सामभिरुन्नीयते ब्रह्मलोकं स एतस्माज्जीवघनात् परात्परं पुरुशयं पुरुषमीक्षते ।

तदेतौ श्लोकौ भवतः ॥५॥

 

तिस्रो मात्रा मृअत्युमत्यः प्रयुक्ता

अन्योन्यसक्ताः अनविप्रयुक्ताः ।

क्रियासु बाह्याभ्यन्तरमध्यमासु

सम्यक् प्रयुक्तासु न कम्पते ज्ञः ॥६॥

 

ऋग्भिरेतं यजुर्भिरन्तरिक्षं सामभिर्यत् तत् कवयो वेदयन्ते ।

तमोङ्कारेणैवायतनेनान्वेति विद्वान् यत्तच्छान्तमजरममृतमभयं परं चेति ॥७॥

 

इति प्रश्नोपनिषदि पञ्चमः प्रश्नः ॥

 

 

अथ हैनं सुकेशा भारद्वाजः पप्रच्छ ।

भगवन् हिरण्यनाभः

कौसल्यो राजपुत्रो मामुपेत्यैतं प्रश्नमपृच्छत ।

षोडशकलं भारद्वाज पुरुषं वेत्थ ।

तमहं कुमारम्ब्रुवं नाहमिमं वेद ।

यध्यहमिममवेदिषं कथं ते नावक्ष्यमिति ।

समूलो वाएष परिशुष्यति योऽनृतमभिवदति तस्मान्नार्हम्यनृतं वक्तुम् ।

स तूष्णीं रथमारुह्य प्रवव्राज ।

तं त्वा पृच्छामि क्वासौ पुरुष इति ॥१॥

 

तस्मै स होवाच । इहैइवान्तःशरीरे सोभ्य स पुरुषो

यस्मिन्नताः षोडशकलाः प्रभवन्तीति ॥२॥

 

स ईक्षाचक्रे । कस्मिन्नहमुत्क्रान्त उत्क्रान्तो भविष्यामि

कस्मिन्वा प्रतिष्टिते प्रतिष्टस्यामीति ॥३॥

 

स प्राणमसृजत प्राणाच्छ्रद्धां खं वायुर्ज्योतिरापः पृथिवीन्द्रियं मनः ।

अन्नमन्नाद्वीर्यं तपो मन्त्राः कर्म लोका लोकेषु च नाम च ॥४॥

 

स यथेमा नध्यः स्यन्दमानाः समुद्रायणाः समुद्रं प्राप्यास्तं

गच्छन्ति भिध्येते तासां नामरुपे समुद्र इत्येवं प्रोच्यते ।

एवमेवास्य परिद्रष्टुरिमाः षोडशकलाः पुरुषायणाः पुरुषं

प्राप्यास्तं गच्छन्ति भिध्येते चासां नामरुपे पुरुष इत्येवं

प्रोच्यते स एषोऽकलोऽमृतो भवति तदेष श्लोकः ॥५॥

 

अरा इव रथनाभौ कला यस्मिन्प्रतिष्टिताः ।

तं वेध्यं पुरुषं वेद यथ मा वो मृत्युः परिव्यथा इति ॥६॥

 

तान् होवाचैतावदेवाहमेतत् परं ब्रह्म वेद ।

नातः परमस्तीति ॥७॥

 

ते तमर्चयन्तस्त्वं हि नः पिता योऽस्माकमविध्यायाः परं परं तारयसीति ।

नमः परमऋषिभ्यो नमः परमऋषिभ्यः ॥८॥

 

इति प्रश्नोपनिषदि षष्ठः प्रश्नः ॥

 

ॐ भद्रं कर्णेभिः शृणुयाम देवा भद्रं पष्येमाक्षभिर्यजत्राः ।

स्थिरैरङ्गैस्तुष्तुवाँसस्तनूभिर्व्यशेम देवहितं यदायुः ॥

स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः ।

स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॥

ॐ शान्तिः शान्तिः शान्तिः ॥

Translation - भाषांतर
N/A

N/A
Last Updated : 2008-12-14T13:07:41.3370000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

inconvertible paper money

  • अरूपांतरणीय कागदी मुद्रा 
RANDOM WORD

Did you know?

'डांबिस' हा शब्द मराठी कि कुठल्या भाषेतून आलाय ? त्याचा अर्थ किंवा उगम कोणता?
Category : Dictionary
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site