संस्कृत सूची|संस्कृत साहित्य|उपनिषद‌|
योगचूडामण्युपनिषत्

योगचूडामण्युपनिषत्

जन्ममरणाचे निवारण करून ब्रह्मपदाला पोचविणारी विद्या म्हणजे उपनिषद्.

Upanishad are highly philosophical and metaphysical part of Vedas.


॥ योगचूडामण्युपनिषत् ॥ साम वेद,योग उपनिषद्

मूलाधारादिषट्चक्रं सहस्रारोपरि स्थितम् । योगज्ञानैक फलकं रामचन्द्रपदं भजे ॥

ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः श्रोत्रमथो बलमिन्द्रियाणि च ॥

सर्वाणि सर्वं ब्रह्मोपनिषदं माहं ब्रह्म निराकुर्यां मा मा ब्रह्म निराकरोदनिराकरणमस्त्वनिराकरणं

मेस्तु तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि सन्तु ते मयि सन्तु ॥

ॐ शान्तिः शान्तिः शान्तिः ॥

ॐ योगचूडामणिं वक्ष्ये योगिनां हितकाम्यया । कैवल्यसिद्धिदं गूढं सेवितं योगवित्तमैः ॥१॥

आसनं प्राणसंरोधः प्रत्याहारश्च धारणा । ध्यानं समाधिरेतानि योगाङ्गानि भवन्ति षट् ॥२॥

एकं सिद्धासनं प्रोक्तं द्वितीयं कमलासनम् । षट्चक्रं षोडशाधारं त्रिलक्ष्यं व्योमपञ्चकम् ॥३॥

स्वदेहे यो न जानाति तस्य सिद्धिः कथं भवेत् । चतुर्दलं स्यादाधारं स्वाधिष्ठानं च षड्दलम् ॥४॥

नाभौ दशदलं पद्मं हृदये द्वादशारकम् । षोडशारं विशुद्धाख्यं भ्रूमध्ये द्विदलं तथा ॥५॥

सहस्रदलसङ्ख्यातं ब्रह्मरन्ध्रे महापथि । आधारं प्रथमं चक्रं स्वाधिष्ठानं द्वितीयकम् ॥६॥

योनिस्थानं द्वयोर्मध्ये कामरूपं निगद्यते । कामाख्यं तु गुदस्थाने पङ्कजं तु चतुर्दलम् ॥७॥

तन्मध्ये प्रोच्यते योनिः कामाख्या सिद्धवन्दिता । तस्य मध्ये महालिङ्गं पश्चिमाभिमुखं स्थितम् ॥८॥

नाभौ तु मणिवद्बिम्बं यो जानाति स योगवित् । तप्तचामीकराभासं तडिल्लेखेव विस्फुरत् ॥९॥

त्रिकोणं तत्पुरं वह्नेरधोमेढ्रात्प्रतिष्ठितम् । समाधौ परमं ज्योतिरनन्तं विश्वतोमुखम् ॥१०॥

तस्मिन्दृष्टे महायोगे यातायातो न विद्यते । स्वशब्देन भवेत्प्राणः स्वाधिष्ठानं तदाश्रयः ॥११॥

स्वाधिष्ठाश्रयादस्मान्मेढ्रमेवभिधीयते । तन्तुना मणिवत्प्रोतो योऽत्र कन्दः सुषुम्नया ॥१२॥

तन्नाभिमण्डले चक्रं प्रोच्यते मणिपूरकम् । द्वादशारे महाचक्रे पुण्यपापविवर्जिते ॥१३॥

तावज्जीवो भ्रमत्येवं यावत्तत्त्वं न विन्दति । ऊर्ध्वं मेढ्रादधो नाभेः कन्दे योनिः खगाण्डवत् ॥१४॥

तत्र नाड्यः समुत्पन्नाः सहस्राणां द्विसप्ततिः । तेषु नाडीसहस्रेषु द्विसप्ततिरुदाहृता ॥१५॥

प्रधानाः प्राणवाहिन्यो भूयस्तासु दशस्मृताः । इडा च पिङ्गला चैव सुषुम्ना च तृतीयगा ॥१६॥

गान्धारी हस्तिजिह्वा च पूषा चैव यशस्विनी । अलम्बुसा कुहूश्चैव शङ्खिनी दशमी स्मृता ॥१७॥

एतन्नाडीमहाचक्रं ज्ञातव्यं योगिभिः सदा । इडा वामे स्थिता भागे दक्षिणे पिङ्गला स्थिता ॥१८॥

सुषुम्ना मध्यदेशे तु गान्धारी वामचक्षुषि । दक्षिणे हस्तिजिह्वा च पूषा कर्णे च दक्षिणे ॥१९॥

यशस्विनी वामकर्णे चानने चापुअलम्बुसा । कुहूश्च लिङ्गदेशे तु मूलस्थाने तु शङ्खिनी ॥२०॥

एवं द्वारं समाश्रित्य तिष्ठन्ते नाडयः क्रमात् । इडापिङ्गलासौषुम्नाः प्राणमार्गे च संस्थिताः ॥२१॥

सततं प्राणवाहिन्यः सोमसूर्याग्निदेवताः । प्राणापानसमानाख्या व्यानोदानौ च वायवः ॥२२॥

नागः कूर्मोऽथ कृकरो देवदत्तो धनञ्जयः । हृदि प्राणः स्थितो नित्यमपानो गुदमण्डले ॥२३॥

समानो नाभिदेशे तु उदानः कण्ठमध्यगः । व्यानः सर्वशरीरे तु प्रधानाः पञ्चवायवः ॥२४॥

उद्गारे नाग आख्यातः कूर्म उन्मीलने तथा । कृकरः क्षुत्करो ज्ञेयो देवदत्तो विजृम्भणे ॥२५॥

न जहाति मृतं वापि सर्वव्यापी धनञ्जयः । एते नाडीषु सर्वासु भ्रमन्ते जीवजन्तवः ॥२६॥

आक्षिप्तो भुजदण्डेन यथा चलति कन्दुकः । प्राणापानसमाक्षिप्तस्तथा जीवो न तिष्ठति ॥२७॥

प्राणापानवशो जीवो ह्यधश्चोर्ध्वं च धावति । वामदक्षिणमार्गाभ्यां चञ्चलत्वान्न दृश्यते ॥२८॥

रज्जुबद्धो यथा श्येनो गतोऽप्याकृष्यते पुनः । गुणबद्धस्तथा जीवः प्राणापानेन कर्षति ॥२९॥

प्राणापानवशो जीवो ह्यधश्चोर्ध्वं च गच्छति । अपानः कर्षति प्राणं प्राणोऽपानं च कर्षति ॥३०॥

ऊर्ध्वाधःसंस्थितावेतौ यो जानाति स योगवित् । हकारेण बहिर्याति सकारेण विशेत्पुनः ॥३१॥

हंसहंसेत्यमुं मत्रं जीवो जपति सर्वदा । षट्शतानि दिवारात्रौ सहस्राण्येकविंशतिः ॥३१॥

एतत्सङ्ख्यान्वितं मन्त्रं जीवो जपति सर्वदा । अजपानाम गायत्री योगिनां मोक्षदा सदा ॥३३॥

अस्याः सङ्कल्पमात्रेण सर्वपापैः प्रमुच्यते । अनया सदृशी विद्या अनया सदृशो जपः ॥३४॥

अनया सदृशं ज्ञानं न भूतं न भविष्यति । कुण्डलिन्या समुद्भूता गायत्री प्राणधारिणी ॥३५॥

प्राणविद्या महाविद्या यस्तां वेत्ति स वेदवित् । कन्दोर्ध्वे कुण्डलीशक्तिरष्टधा कुण्डलाकृतिः ॥३६॥

ब्रह्मद्वारमुखं नित्यं मुखेनाच्छाय तिष्ठति । येन द्वारेण गन्तव्यं ब्रह्मद्वारमनामयम् ॥३७॥

मुखेनाच्छाद्य तद्द्वारं प्रसुप्ता परमेश्वरी । प्रबुद्धा वह्नियोगेन मनसा मरुता सह ॥३८॥

सूचिवद्गात्रमादाय व्रजत्यूर्ध्वं सुषुम्नया ।

उद्घाटयेत्कवाटं तु यथाकुञ्चिकया गृहम् । कुण्डलिन्यां तथा योगी मोक्षद्वारं प्रभेदयेत् ॥३९॥

कृत्वा संपुटितौ करौ दृढतरं बध्वा तु पद्मासनं

गाढं वक्षसि संनिधाय चुबुकं ध्यानं च तच्चेष्टितम् ।

वारंवारमपानमूर्ध्वमनिलं प्रोच्छारयेत्पूरितं

मुञ्चन्प्राणमुपैति बोधमतुलं शक्तिप्रभावान्नरः ॥४०॥

अङ्गानां मर्दनं कृत्वा श्रमसंजातवारिणा । कट्वम्ललवणत्यागी क्षीरभोजनमाचरेत् ॥४१॥

ब्रह्मचारी मिताहारी योगी योगपरायणः । अब्दादूर्ध्वं भवेत्सिद्धो नात्र कार्या विचारणा ॥४२॥

सुस्निग्धमधुराहारश्चतुर्थांशविवर्जितः । भुञ्जते शिवसंप्रीत्या मिताहारी स उच्यते ॥४३॥

कन्दोर्ध्वे कुण्डलीशक्तिरष्टधा कुण्डलीकृतिः । बन्धनाय च मूढानां योगिनां मोक्षदा सदा ॥४४॥

महामुद्रा नभोमुद्रा ओड्याणं च जलन्धरम् । मूलबन्धं च यो वेत्ति स योगी मुक्तिभाजनम् ॥४५॥

पार्ष्णिघातेन संपीड्य योनिमाकुञ्चयेद्दृढम् । अपानमूर्ध्वमाकृष्य मूलबन्धो विधीयते ॥४६॥

अपानप्राणयोरैक्यं क्षयान्मूत्रपुरीषयोः । युवा भवति वृद्धोऽपि सततं मूलबन्धनात् ॥४७॥

ओड्याणं कुरुते यस्मादविश्रान्तं महाखगः । ओड्डियाणं तदेव स्यान्मृत्युमातङ्गकेसरी ॥४८॥

उदरात्पश्चिमं ताणमधो नाभेर्निगद्यते । ओड्याणमुदरे बन्धस्तत्र बन्धो विधीयते ॥४९॥

बध्नाति हि शिरोजातमधोगामि नभोजलम् । ततो जालन्धरो बन्धः कष्टदुःखौघनाशनः ॥५०॥

जालन्धरे कृते बन्धे कण्ठसङ्कोचलक्षणे । न पीयूषं पतत्यग्नौ न च वायुः प्रधावति ॥५१॥

कपालकुहरे जिह्वा प्रविष्टा विपरीतगा । भ्रुवोरन्तर्गता दृष्टिर्मुद्रा भवति खेचरी ॥५२॥

न रोगो मरणं तस्य न निद्रा न क्षुधा तृषा । न च मूर्च्छा भवेत्तस्य यो मुद्रां वेत्ति खेचरीम् ॥५३॥

पीड्यते न च रोगेण लिख्यते न स कर्मभिः । बाध्यते न च केनापि यो मुद्रां वेत्ति खेचरीम् ॥५४॥

चित्तं चरति खे यस्माज्जिह्वा चरति खे यतः । तेनेयं खेचरी मुद्रा सर्वसिद्धनमस्कृता ॥५५॥

बिन्दुमूलशरीरणि शिरास्तत्र प्रतिष्ठिताः । भावयन्ती शरीराणि आपादतलमस्तकम् ॥५६॥

खेचर्या मुद्रितं येन विवरं लम्बिकोर्ध्वतः । न तस्य क्षीयते बिन्दुः कामिन्यालिङ्गितस्य च ॥५७॥

यावद्बिन्दुः स्थितो देहे तावन्मृत्युभयं कुतः । यावद्बद्धा नभोमुद्रा तावद्बिन्दुर्न गच्छति ॥५८॥

ज्वलितोऽपि यथा बिन्दुः संप्राप्तश्च हुताशनम् । व्रजत्यूर्ध्वं गतः शक्त्या निरुद्धो योनिमुद्रया ॥५९॥

स पुनर्द्विविधो बिन्दुः पाण्डरो लोहितस्तथा । पाण्डरं शुक्लमित्याहुर्लोहिताख्यं महारजः ॥६०॥

सिन्दूरव्रातसङ्काशं रविस्थानस्थितं रजः । शशिस्थानस्थितं शुक्लं तयोरैक्यं सुदुर्लभम् ॥६१॥

बिन्दुर्ब्रह्मा रजः शक्तिर्बिन्दुरिन्दू रजो रविः । उभयोः सङ्गमादेव प्राप्यते परमं पदम् ॥६२॥

वायुना शक्तिचालेन प्रेरितं च यथा रजः । याति बिन्दुः सदैकत्वं भवेद्दिव्यवपुस्तदा ॥६३॥

शुक्लं चन्द्रेण संयुक्तं रजः सूर्येण सङ्गतम् । तयोः समरसैकत्वं यो जानाति स योगवित् ॥६४॥

शोधनं नाडिजालस्य चालनं चन्द्रसूर्ययोः । रसानां शोषणं चैव महामुद्राभिधीयते ॥६५॥

वक्षोन्यस्तहनुः प्रपीड्य सुचिरं योनिं च वामाङ्गिणा हस्ताभ्यामनुधारयन्प्रसरितं पादं तथा दक्षिणम् ।

आपूर्य श्वसनेन कुक्षियुगलं बध्वा शनै रेचये-त्सेयं व्याधिविनाशिनी सुमहती मुद्रा नृणां कथ्यते ॥६६॥

चन्द्रांशेन समभ्यस्य सूर्यांशेनाभ्यसेत्पुनः । या तुल्या तु भवेत्सङ्ख्या ततो मुद्रां विसर्जयेत् ॥६७॥

नहि पथ्यमपथ्यं वा रसाः सर्वेऽपि नीरसाः । अतिभुक्तं विषं घोरं पीयूषमिव जीर्यते ॥६८॥

क्षयकुष्ठगुदावर्तगुल्माजीर्णपुरोगमाः । तस्य रोगाः क्षयं यान्ति महामुद्रां तु योऽभ्यसेत् ॥६९॥

कथितेयं महामुद्रा महासिद्धिकरी नृणाम् । गोपनीया प्रयत्नेन न देया यस्य कस्यचित् ॥७०॥

पद्मासनं समारुह्य समकायशिरोधरः । नासाग्रदृष्टिरेकान्ते जपेदोङ्कारमव्ययम् ॥७१॥

ॐ नित्यं शुद्धं बुद्धं निर्विकल्पं निरञ्जनं निराख्यातमनादिनिधनमेकं तुरीयं यद्भूतं भवद्भविष्यत्परिवर्तमानं

सर्वदाऽनवच्छिन्नं परंब्रह्म तस्माज्जाता परा शक्तिः स्वयं ज्योतिरात्मिका । आत्मन आकाशः संभूतः । आकाशाद्वायुः ।

वायोरग्निः । अग्नेरापः । अद्भ्यः पृथिवी । एतेषां पञ्चभूतानां पतयः पञ्च सदाशिवेश्वररुद्रविष्णुब्रह्माणश्चेति ।

तेषां ब्रह्मविष्णुरुद्राश्चोत्पत्तिस्थितिलयकर्तारः । राजसो ब्रह्मा सात्विको विष्णुस्तामसो रुद्र इति एते त्रयो गुणयुक्ताः ।

ब्रह्मा देवानां प्रथमः संबभूव । धाता च सृष्टौ विष्णुश्च स्थितौ रुद्रश्च नाशे भोगाय चन्द्र इति प्रथमजा बभूवुः ।

एतेषां ब्रह्मणो लोका देवतिर्यङ्ग- रस्थावराश्च जायन्ते । तेषां मनुष्यादीनां पञ्चभूतसमवायः शरीरम् ।

ज्ञानकर्मेन्द्रियै- र्ज्ञानविषयैः प्राणादिपञ्चवायुमनोबुद्धिचित्ताहङ्कारैः

स्थूलकल्पितैः सोऽपि स्थूलप्रकृतिरित्युच्यते । ज्ञानकर्मेन्द्रियै- र्ज्ञानविषयैः प्राणादिप

ञ्चवायुमनोबुद्धिभिश्च सूक्ष्मस्थोऽपि लिङ्गमेवेत्युच्यते । गुणत्रययुक्तं कारणम् । सर्वेषामेवं त्रीणि शरीराणि वर्तन्ते ।

जाग्रत्स्वप्नसुषुप्ति- तुरीयाश्चेत्यवस्थाश्चतस्रः तासामवस्थानामधिपतय- श्चत्वारः पुरुषा विश्वतैजसप्राज्ञात्मानश्चेति ।

विश्वो हि स्थूलभुङ्नित्यं तैजसः प्रविविक्तभुक् । आनन्दभुक्तया प्राज्ञः सर्वसाक्षीत्यतः परः ॥७२॥

प्रणतः सर्वदा तिष्ठेत्सर्वजीवेषु भोगतः । अभिरामस्तु सर्वासु ह्यवस्थासु ह्यधोमुखः ॥७३॥

अकार उकारो मकारश्चेति वेदास्त्रयो लोकास्त्रयो गुणास्त्रीण्यक्षराणि त्रयः स्वरा एवं प्रणवः प्रकाशते ।

अकारो जाग्रति नेत्रे वर्तते सर्वजन्तुषु । उकारः कण्ठतः स्वप्ने मकारो हृदि सुप्तितः ॥७४॥

विराड्विश्वः स्थूलश्चाकारः । हिरण्यगर्भस्तैजसः सूक्ष्मश्च उकारः । कारणाव्याकृतप्राज्ञश्च मकारः ।

अकारो राजसो रक्तो ब्रह्म चेतन उच्यते । उकारः सात्त्विकः शुक्लो विष्णुरित्यभिधीयते ॥७५॥

मकारस्तामसः कृष्णो रुद्रश्चेति तथोच्यते । प्रणवात्प्रभवो ब्रह्मा प्रणवात्प्रभवो हरिः ॥७६॥

प्रणवात्प्रभवो रुद्रः प्रणवो हि परो भवेत् । अकारे लीयते ब्रह्मा ह्युकारे लीयते हरिः ॥७७॥

मकारे लीयते रुद्रः प्रणवो हि प्रकाशते । ज्ञानिनामूर्ध्वगो भूयादज्ञाने स्यादधोमुखः ॥७८॥

एवं वै प्रणवस्तिष्ठेद्यस्तं वेद स वेदवित् । अनाहतस्वरूपेण ज्ञानिनामूर्ध्वगो भवेत् ॥७९॥

तैलधारामिवाच्छिन्नं दीर्घघण्टानिनादवत् । प्रणवस्य ध्वनिस्तद्वत्तदग्रं ब्रह्म चोच्यते ॥८०॥

ज्योतिर्मयं तदग्रं स्यादवाच्यं बुद्धिसूक्ष्मतः । ददृशुर्ये महात्मानो यस्तं वेद स वेदवित् ॥८१॥

जाग्रन्नेत्रद्वयोर्मध्ये हंस एव प्रकाशते । सकारः खेचरी प्रोक्तस्त्वंपदं चेति निश्चितम् ॥८२॥

हकारः परमेशः स्यात्तत्पदं चेति निश्चितम् । सकारो ध्यायते जन्तुर्हकारो हि भवेद्धृवम् ॥८३॥

इन्द्रियैर्बध्यते जीव आत्मा चैव न बध्यते । ममत्वेन भवेज्जीवो निर्ममत्वेन केवलः ॥८४॥

भूर्भुवः स्वरिमे लोकाः सोमसूर्याग्निदेवताः । यस्य मात्रासु तिष्ठन्ति तत्परं ज्योतिरोमिति ॥८५॥

क्रिया इच्छा तथा ज्ञानं ब्राह्मी रौद्री च वैष्णवी । त्रिधा मात्रास्थितिर्यत्र तत्परं ज्योतिरोमिति ॥८६॥

वचसा तज्जपेन्नित्यं वपुषा तत्समभ्यसेत् । मनसा तज्जपेन्नित्यं तत्परं ज्योतिरोमिति ॥८७॥

शुचिर्वाप्यशुचिर्वापि यो जपेत्प्रणवं सदा । न स लिप्यति पापेन पद्मपत्रमिवाम्भसा ॥८८॥

चले वाते चलो बिन्दुर्निश्चले निश्चलो भवेत् । योगी स्थाणुत्वमाप्नोति ततो वायुं निरुन्धयेत् ॥८९॥

यावद्वायुः स्थितो देहे तावज्जीवो न मुञ्चति । मरणं तस्य निष्क्रान्तिस्ततो वायुं निरुन्धयेत् ॥९०॥

यावद्वायुः स्थितो देहे तावज्जीवो न मुञ्चति । यावद्दृष्टिर्भ्रुवोर्मध्ये तावत्कालं भयं कुतः ॥९१॥

अल्पकालभयाद्ब्रह्मन्प्राणायमपरो भवेत् । योगिनो मुनश्चैव ततः प्राणान्निरोधयेत् ॥९२॥

षड्विंशदङ्गुलिर्हंसः प्रयाणं कुरुते बहिः । वामदक्षिणमार्गेण प्राणायामो विधीयते ॥९३॥

शुद्धिमेति यदा सर्वं नाडीचक्रं मलाकुलम् । तदैव जायते योगी प्राणसंग्रहणक्षमः ॥९४॥

बद्धपद्मासनो योगी प्राणं चन्द्रेण पूरयेत् । धारयेद्वा यथाशक्त्या भूयः सूर्येण रेचयेत् ॥९५॥

अमृतोदधिसंकाशं गोक्षीरधवलोपमम् । ध्यात्वा चन्द्रमसं बिम्बं प्राणायामे सुखी भवेत् ॥९६॥

स्फुरत्प्रज्वलसंज्वालापूज्यमादित्यमण्डलम् । ध्यात्वा हृदि स्थितं योगी प्राणायामे सुखी भवेत् ॥९७॥

प्राणं चेदिडया पिबेन्नियमितं भूयोऽन्यथा रेचये-त्पीत्वा पिङ्गलया समीरणमथो बद्ध्वा त्यजेद्वामया ।

सूर्याचन्द्रमसोरनेन विधिना बिन्दुद्वयं ध्यायतःशुद्धा नाडिगणा भवन्ति यमिनो मासद्वयादूर्ध्वतः ॥९८॥

यथेष्टधारणं वायोरनलस्य प्रदीपनम् । नादाभिव्यक्तिरारोग्यं जायते नाडिशोधनात् ॥९९॥

प्राणो देहस्थितो यावदपानं तु निरुन्धयेत् । एकश्वासमयी मात्रा ऊर्ध्वाधो गगने गतिः ॥१००॥

रेचकः पूरकश्चैव कुम्भकः प्रणवात्मकः । प्राणायामो भवेदेवं मात्राद्वादशसंयुतः ॥१०१॥

मात्राद्वादशसंयुक्तौ दिवाकरनिशाकरौ । दोषजालमबध्नन्तौ ज्ञातव्यौ योगिभिः सदा ॥१०२॥

पूरकं द्वादशं कुर्यात्कुम्भकं षोडशं भवेत् । रेचकं दश चोङ्कारः प्राणायामः स उच्यते ॥१०३॥

अधमे द्वादशमात्रा मध्यमे द्विगुणा मता । उत्तमे त्रिगुणा प्रोक्ता प्राणायामस्य निर्णयः ॥१०४॥

अधमे स्वेदजननं कम्पो भवति मध्यमे । उत्तमे स्थानमाप्नोति ततो वायुं निरुन्धयेत् ॥१०५॥

बद्धपद्मासनो योगी नमस्कृत्य गुरुं शिवम् । नासाग्रदृष्टिरेकाकी प्राणायामं समभ्यसेत् ॥१०६॥

द्वाराणां नव संनिरुध्य मरुतं बध्वा दृढां धारणांनीत्वा । कालमपानवह्निसहितं शक्त्या समं चालितम् ।

आत्मध्यानयुतस्त्वनेन विधिना घ्रिन्यस्य मूर्ध्नि । स्थिरंयावत्तिष्ठति तावदेव महतां सङ्गो न संस्तूयते ॥१०७॥

प्राणायामो भवेदेवं पातकेन्धनपावकः । भवोदधिमहासेतुः प्रोच्यते योगिभिः सदा ॥१०८॥

आसनेन रुजं हन्ति प्राणायामेन पातकम् । विकारं मानसं योगी प्रत्याहारेण मुञ्चति ॥१०९॥

धारणाभिर्मनोधैर्यं याति चैतन्यमद्भुतम् । समाधौ मोक्षमाप्नोति त्यक्त्वा कर्म शुभाशुभम् ॥११०॥

प्राणायामद्विषट्केन प्रत्याहारः प्रकीर्तितः । प्रत्याहारद्विषट्केन जायते धारणा शुभा ॥१११॥

धारणाद्वादश प्रोक्तं ध्यानं योगविशारदैः । ध्यानद्वादशकेनैव समाधिरभिधीयते ॥११२॥

यत्समाधौ परंज्योतिरनन्तं विश्वतोमुखम् । तस्मिन्दृष्टे क्रियाकर्म यातायातो न विद्यते ॥११३॥

संबद्धासनमेढ्रमङ्घ्रियुगलं कर्णाक्षिनासापुट-द्वाराद्यङ्गुलिभिर्नियम्य पवनं वक्त्रेण वा पूरितम् ।

बध्वा वक्षसि बह्वयानसहितं मूर्ध्नि स्थिरं धारये-देवं यान्ति विशेषतत्त्वसमतां योगीश्वरास्तन्मनः ॥११४॥

गगनं पवने प्राप्ते ध्वनिरुत्पद्यते महान् । घण्टादीनां प्रवाद्यानां नादसिद्धिरुदीरिता ॥११५॥

प्राणायामेन युक्तेन सर्वरोगक्षयो भवेत् । प्राणायामवियुक्तेभ्यः सर्वरोगसमुद्भवः ॥११६॥

हिक्का कासस्तथा श्वासः शिरःकर्णाक्षिवेदनाः । भवन्ति विविधा रोगाः पवनव्यत्ययक्रमात् ॥११७॥

यथा सिंहो गजो व्याघ्रो भवेद्वश्यः शनैः शनैः । तथैव सेवितो वायुरन्यथा हन्ति साधकम् ॥११८॥

युक्तंयुक्तं त्यजेद्वायुं युक्तंयुक्तं प्रपूरयेत् । युक्तंयुक्तं प्रबध्नीयादेवं सिद्धिमवाप्नुयात् ॥११९॥

चरतां चक्षुरादीनां विषयेषु यथाक्रमम् । यत्प्रत्याहरणं तेषां प्रत्याहरः स उच्यते ॥१२०॥

यथा तृतीयकाले तु रविः प्रत्याहरेत्प्रभाम् । तृतीयङ्गस्थितो योगी विकारं मनसं हरेदीत्युपनिषत् ।

ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः श्रोत्रमथो बलमिन्द्रियाणि च सर्वाणि सर्वं ब्रह्मोपनिषदं

माहं ब्रह्म निराकुर्यां मा मा ब्रह्म निराकरोदनिराकरण- मस्त्वनिराकरणं मेस्तु तदात्मनि

निरते य उपनिषत्सु धर्मास्ते मयि सन्तु ते मयि ते मयि सन्तु ॥

ॐ शान्तिः शान्तिः शान्तिः ॥ इति योगचूडामण्युपनिषत्समाप्ता ॥

N/A

N/A
Last Updated : December 14, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP