TransLiteral Foundation
संस्कृत सूची|संस्कृत साहित्य|उपनिषद‌|
तैत्तिरीयोपनिषत्

तैत्तिरीयोपनिषत्

जन्ममरणाचे निवारण करून ब्रह्मपदाला पोचविणारी विद्या म्हणजे उपनिषद् .

Upanishad are highly philosophical and metaphysical part of Vedas.


तैत्तिरीयोपनिषत्

॥ तैत्तिरीयोपनिषत् ॥ कृष्ण यजुर्वेद,मुख्य उपनिषद्

ॐ श्री गुरुभ्यो नमः । हरिः ॐ ।

ॐ शं नो मित्रः शं वरुणः । शं नो भवत्वर्यमा ।

शं न इन्द्रो बृहस्पतिः । शं नो विष्णुरुरुक्रमः ।

नमो ब्रह्मणे । नमस्ते वायो । त्वमेव प्रत्यक्षं ब्रह्मासि ।

त्वमेव प्रत्यक्षं ब्रह्म वदिष्यामि । ऋतं वदिष्यामि ।

सत्यं वदिष्यामि । तन्मामवतु । तद्वक्तारमवतु ।

अवतु माम् । अवतु वक्तारम् ।

ॐ शान्तिः शान्तिः शान्तिः ॥१॥

इति प्रथमोऽनुवाकः ॥

ॐ शीक्षां व्याख्यास्यामः । वर्णः स्वरः । मात्रा बलम् ।

साम सन्तानः । इत्युक्तः शीक्षाध्यायः ॥१॥

इति द्वितीयोऽनुवाकः ॥

सह नौ यशः । सह नौ ब्रह्मवर्चसम् ।

अथातः संहिताया उपनिषदम् व्याख्यास्यामः ।

पञ्चस्वधिकरणेषु ।

अधिलोकमधिज्यौतिषमधिविद्यमधिप्रजमध्यात्मम् ।

ता महासँ हिता इत्याचक्षते । अथाधिलोकम् ।

पृथिवी पूर्वरूपम् । द्यौरुत्तररूपम् ।

आकाशः सन्धिः ॥१॥

वायुः सन्धानम् । इत्यधिलोकम् । अथाधिजौतिषम् ।

अग्निः पूर्वरूपम् । आदित्य उत्तररूपम् । आपः सन्धिः ।

वैद्युतः सन्धानम् । इत्यधिज्यौतिषम् । अथाधिविद्यम् ।

आचार्यः पूर्वरूपम् ॥२॥

अन्तेवास्युत्तररूपम् । विद्या सन्धिः । प्रवचनँ सन्धानम् ।

इत्यधिविद्यम् । अथाधिप्रजम् । माता पूर्वरूपम् ।

पितोत्तररूपम् । प्रजा सन्धिः । प्रजननँ सन्धानम् ।

इत्यधिप्रजम् ॥३॥

अथाध्यात्मम् । अधरा हनुः पूर्वरूपम् ।

उत्तरा हनुरुत्तररूपम् । वाक्सन्धिः । जिह्वा सन्धानम् ।

इत्यध्यात्मम् । इतीमा महासँ हिताः ।

य एवमेता महासँ हिता व्याख्याता वेद ।

सन्धीयते प्रजया पशुभिः ।

ब्रह्मवर्चसेनान्नाद्येन सुवर्ग्येण लोकेन ॥४॥

इति तृतीयोऽनुवाकः ॥

यश्छन्दसामृषभो विश्वरूपः ।

छन्दोभ्योऽध्यमृतात्संबभूव ।

स मेन्द्रो मेधया स्पृणोतु ।

अमृतस्य देव धारणो भूयासम् ।

शरीरं मे विचर्षणम् । जिह्वा मे मधुमत्तमा ।

कर्णाभ्यां भूरि विश्रुवम् ।

ब्रह्मणः कोशोऽसि मेधया पिहितः ।

श्रुतं मे गोपाय । आवहन्ती वितन्वाना ॥१॥

कुर्वाणाऽचीरमात्मनः । वासाँ सि मम गावश्च ।

अन्नपाने च सर्वदा । ततो मे श्रियमावह ।

लोमशां पशुभिः सह स्वाहा । आ मा यन्तु ब्रह्मचारिणः स्वाहा ।

वि माऽऽयन्तु ब्रह्मचारिणः स्वाहा ।

प्र माऽऽयन्तु ब्रह्मचारिणः स्वाहा ।

दमायन्तु ब्रह्मचारिणः स्वाहा ।

शमायन्तु ब्रह्मचारिणः स्वाहा ॥२॥

यशो जनेऽसानि स्वाहा । श्रेयान् वस्यसोऽसानि स्वाहा ।

तं त्वा भग प्रविशानि स्वाहा । स मा भग प्रविश स्वाहा ।

तस्मिन् त्सहस्रशाखे निभगाहं त्वयि मृजे स्वाहा ।

यथाऽऽपः प्रवताऽऽयन्ति यथा मासा अहर्जरम् ।

एवं मां ब्रह्मचारिणः । धातरायन्तु सर्वतः स्वाहा ।

प्रतिवेशोऽसि प्र मा भाहि प्र मा पद्यस्व ॥३॥

इति चतुर्थोऽनुवाकः ॥

भूर्भुवः सुवरिति वा एतास्तिस्रो व्याहृतयः ।

तासामु ह स्मैतां चतुर्थीम् । माहाचमस्यः प्रवेदयते ।

मह इति । तत् ब्रह्म । स आत्मा । अङ्गान्यन्या देवताः ।

भूरिति वा अयं लोकः । भुव इत्यन्तरिक्षम् ।

सुवरित्यसौ लोकः ॥१॥

मह इत्यादित्यः । आदित्येन वाव सर्वे लोका महीयन्ते ।

भूरिति वा अग्निः । भुव इति वायुः । सुवरित्यादित्यः ।

मह इति चन्द्रमाः । चन्द्रमसा वाव

सर्वाणि ज्योतीँ षि महीयन्ते । भूरिति वा ऋचः ।

भुव इति सामानि ।

सुवरिति यजूँ षि ॥२॥

मह इति ब्रह्म । ब्रह्मणा वाव सर्वे वेदा महीयन्ते ।

भूरिति वै प्राणः । भुव इत्यपानः । सुवरिति व्यानः ।

मह इत्यन्नम् । अन्नेन वाव सर्वे प्राण महीयन्ते ।

ता वा एताश्चतस्रश्चतुर्ध । चतस्रश्चतस्रो व्याहृतयः ।

ता यो वेद ।

स वेद ब्रह्म । सर्वेऽस्मै देवा बलिमावहन्ति ॥३॥

इति पञ्चमोऽनुवाकः ॥

स य एषोऽन्तरहृदय आकाशः । तस्मिन्नयं पुरुषो मनोमयः ।

अमृतो हिरण्मयः । अन्तरेण तालुके । य एष स्तन इवावलंबते ।

सेन्द्रयोनिः । यत्रासौ केशान्तो विवर्तते । व्यपोह्य शीर्षकपाले ।

भूरित्यग्नौ प्रतितिष्ठति ।

भुव इति वायौ ॥१॥

सुवरित्यादित्ये । मह इति ब्रह्मणि । आप्नोति स्वाराज्यम् ।

आप्नोति मनसस्पतिम् । वाक्पतिश्चक्षुष्पतिः ।

श्रोत्रपतिर्विज्ञानपतिः । एतत्ततो भवति । आकाशशरीरं ब्रह्म ।

सत्यात्म प्राणारामं मन आनन्दम् ।

शान्तिसमृद्धममृतम् ।

इति प्राचीनयोग्योपास्स्व ॥२॥

इति षष्ठोऽनुवाकः ॥

पृथिव्यन्तरिक्षं द्यौर्दिशोऽवान्तरदिशाः ।

अग्निर्वायुरादित्यश्चन्द्रमा नक्षत्राणि ।

आप ओषधयो वनस्पतय आकाश आत्मा । इत्यधिभूतम् ।

अथाध्यात्मम् । प्राणो व्यानोऽपान उदानः समानः ।

चक्षुः श्रोत्रं मनो वाक् त्वक् ।

चर्म माँसँ स्नावास्थि मज्जा ।

एतदधिविधाय ऋषिरवोचत् । पाङ्क्तं वा इदँ सर्वम् ।

पाङ्क्तेनैव पाङ्क्तँ स्पृणोतीति ॥१॥ इति सप्तमोऽनुवाकः ॥

ओमिति ब्रह्म । ओमितीदँ सर्वम् ।

ओमित्येतदनुकृतिर्ह स्म वा अप्यो श्रावयेत्याश्रावयन्ति ।

ओमिति सामानि गायन्ति । ओँ शोमिति शस्त्राणि शँ सन्ति ।

ओमित्यध्वर्युः प्रतिगरं प्रतिगृणाति । ओमिति ब्रह्मा प्रसौति ।

ओमित्यग्निहोत्रमनुजानाति ।

ओमिति ब्राह्मणः प्रवक्ष्यन्नाह ब्रह्मोपाप्नवानीति ।

ब्रह्मैवोपाप्नोति ॥१॥

इत्यष्टमोऽनुवाकः ॥

ऋतं च स्वाध्यायप्रवचने च ।

सत्यं च स्वाध्यायप्रवचने च ।

तपश्च स्वाध्यायप्रवचने च ।

दमश्च स्वाध्यायप्रवचने च ।

शमश्च स्वाध्यायप्रवचने च ।

अग्नयश्च स्वाध्यायप्रवचने च ।

अग्निहोत्रं च स्वाध्यायप्रवचने च ।

अतिथयश्च स्वाध्यायप्रवचने च ।

मानुषं च स्वाध्यायप्रवचने च ।

प्रजा च स्वाध्यायप्रवचने च ।

प्रजनश्च स्वाध्यायप्रवचने च ।

प्रजातिश्च स्वाध्यायप्रवचने च ।

सत्यमिति सत्यवचा राथीतरः ।

तप इति तपोनित्यः पौरुशिष्टिः ।

स्वाध्यायप्रवचने एवेति नाको मौद्गल्यः ।

तद्धि तपस्तद्धि तपः ॥१॥ इति नवमोऽनुवाकः ॥

अहं वृक्षस्य रेरिवा । कीर्तिः पृष्ठं गिरेरिव ।

ऊर्ध्वपवित्रो वाजिनीव स्वमृतमस्मि । द्रविणँ सवर्चसम् ।

सुमेध अमृतोक्षितः । इति त्रिशङ्कोर्वेदानुवचनम् ॥१॥

इति दशमोऽनुवाकः ॥

वेदमनूच्याचार्योन्तेवासिनमनुशास्ति ।

सत्यं वद । धर्मं चर । स्वाध्यायान्मा प्रमदः ।

आचार्याय प्रियं धनमाहृत्य प्रजातन्तुं मा व्यवच्छेत्सीः ।

सत्यान्न प्रमदितव्यम् । धर्मान्न प्रमदितव्यम् ।

कुशलान्न प्रमदितव्यम् । भूत्यै न प्रमदितव्यम् ।

स्वाध्यायप्रवचनाभ्यां न प्रमदितव्यम् ॥१॥

देवपितृकार्याभ्यां न प्रमदितव्यम् । मातृदेवो भव ।

पितृदेवो भव । आचार्यदेवो भव । अतिथिदेवो भव ।

यान्यनवद्यानि कर्माणि । तानि सेवितव्यानि । नो इतराणि ।

यान्यस्माकँ सुचरितानि ।

तानि त्वयोपास्यानि ॥२॥

नो इतराणि । ये के चारुमच्छ्रेयाँसो ब्राह्मणाः ।

तेषां त्वयाऽऽसनेन प्रश्वसितव्यम् । श्रद्धया देयम् ।

अश्रद्धयाऽदेयम् । श्रिया देयम् । ह्रिया देयम् । भिया देयम् ।

संविदा देयम् ।

अथ यदि ते कर्मविचिकित्सा वा वृत्तविचिकित्सा वा स्यात् ॥३॥

ये तत्र ब्राह्मणाः संमर्शिनः । युक्ता आयुक्ताः ।

अलूक्षा धर्मकामाः स्युः । यथा ते तत्र वर्तेरन् ।

तथा तत्र वर्तेथाः । अथाभ्याख्यातेषु ।

ये तत्र ब्राह्मणाः संमर्शिनः । युक्ता आयुक्ताः ।

अलूक्षा धर्मकामाः स्युः । यथा ते तेषु वर्तेरन् ।

तथा तेषु वर्तेथाः । एष आदेशः । एष उपदेशः ।

एषा वेदोपनिषत् । एतदनुशासनम् । एवमुपासितव्यम् ।

एवमु चैतदुपास्यम् ॥ ४ ॥ इत्येकादशऽनुवाकः ॥

शं नो मित्रः शं वरुणः । शं नो भवत्वर्यमा ।

शं न इन्द्रो बृहस्पतिः । शं नो विष्णुरुरुक्रमः ।

नमो ब्रह्मणे । नमस्ते वायो । त्वमेव प्रत्यक्षं ब्रह्मासि ।

त्वामेव प्रत्यक्षं ब्रह्मावादिषम् । ऋतमवादिषम् ।

सत्यमवादिषम् । तन्मामावीत् । तद्वक्तारमावीत् ।

आवीन्माम् । आवीद्वक्तारम् ।

ॐ शान्तिः शान्तिः शान्तिः ॥१॥

इति द्वादशोऽनुवाकः ॥

॥ इति शीक्षावल्ली समाप्ता ॥

ॐ सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै ।

तेजस्वि नावधीतमस्तु मा विद्विषावहै ।

ॐ शान्तिः शान्तिः शान्तिः ॥

--------------------------------------------------------------------------------

ॐ ब्रह्मविदाप्नोति परम् । तदेषाऽभ्युक्ता ।

सत्यं ज्ञानमनन्तं ब्रह्म । यो वेद निहितं गुहायां परमे व्योमन् ।

सोऽश्नुते सर्वान् कामान् सह । ब्रह्मणा विपश्चितेति ॥

तस्माद्वा एतस्मादात्मन आकाशः संभूतः । आकाशाद्वायुः ।

वायोरग्निः । अग्नेरापः । अद्भ्यः पृथिवी ।

पृथिव्या ओषधयः । ओषधीभ्योऽन्नम् । अन्नात्पुरुषः ।

स वा एष पुरुषोऽन्न्नरसमयः ।

तस्येदमेव शिरः ।

अयं दक्षिणः पक्षः । अयमुत्तरः पक्षः ।

अयमात्मा । इदं पुच्छं प्रतिष्ठा ।

तदप्येष श्लोको भवति ॥१॥

इति प्रथमोऽनुवाकः ॥

अन्नाद्वै प्रजाः प्रजायन्ते ।

याः काश्च पृथिवीँ श्रिताः ।

अथो अन्नेनैव जीवन्ति । अथैनदपि यन्त्यन्ततः ।

अन्नँ हि भूतानां ज्येष्ठम् । तस्मात् सर्वौषधमुच्यते ।

सर्वं वै तेऽन्नमाप्नुवन्ति । येऽन्नं ब्रह्मोपासते ।

अन्नँ हि भूतानां ज्येष्ठम् । तस्मात् सर्वौषधमुच्यते ।

अन्नाद् भूतानि जायन्ते । जातान्यन्नेन वर्धन्ते ।

अद्यतेऽत्ति च भूतानि । तस्मादन्नं तदुच्यत इति ।

तस्माद्वा एतस्मादन्नरसमयात् । अन्योऽन्तर आत्मा प्राणमयः ।

तेनैष पूर्णः । स वा एष पुरुषविध एव ।

तस्य पुरुषविधताम् । अन्वयं पुरुषविधः ।

तस्य प्राण एव शिरः । व्यानो दक्षिणः पक्षः ।

अपान उत्तरः पक्षः । आकाश आत्मा ।

पृथिवी पुच्छं प्रतिष्ठा । तदप्येष श्लोको भवति ॥१॥

इति द्वितीयोऽनुवाकः ॥

प्राणं देवा अनु प्राणन्ति । मनुष्याः पशवश्च ये ।

प्राणो हि भूतानामायुः । तस्मात् सर्वायुषमुच्यते ।

सर्वमेव त आयुर्यन्ति । ये प्राणं ब्रह्मोपासते ।

प्राणो हि भूतानामायुः । तस्मात् सर्वायुषमुच्यत इति ।

तस्यैष एव शारीर आत्मा । यः पूर्वस्य ।

तस्माद्वा एतस्मात् प्राणमयात् । अन्योऽन्तर आत्मा मनोमयः ।

तेनैष पूर्णः । स वा एष पुरुषविध एव ।

तस्य पुरुषविधताम् । अन्वयं पुरुषविधः ।

तस्य यजुरेव शिरः । ऋग्दक्षिणः पक्षः । सामोत्तरः पक्षः ।

आदेश आत्मा । अथर्वाङ्गिरसः पुच्छं प्रतिष्ठा ।

तदप्येष श्लोको भवति ॥१॥

इति तृतीयोऽनुवाकः ॥

यतो वाचो निवर्तन्ते । अप्राप्य मनसा सह ।

आनन्दं ब्रह्मणो विद्वान् । न बिभेति कदाचनेति ।

तस्यैष एव शारीर आत्मा । यः पूर्वस्य ।

तस्माद्वा एतस्मान्मनोमयात् । अन्योऽन्तर आत्मा विज्ञानमयः ।

तेनैष पूर्णः । स वा एष पुरुषविध एव ।

तस्य पुरुषविधताम् ।

अन्वयं पुरुषविधः । तस्य श्रद्धैव शिरः ।

ऋतं दक्षिणः पक्षः ।

सत्यमुत्तरः पक्षः । योग आत्मा । महः पुच्छं प्रतिष्ठा ।

तदप्येष श्लोको भवति ॥१॥

इति चतुर्थोऽनुवाकः ॥

विज्ञानं यज्ञं तनुते । कर्माणि तनुतेऽपि च ।

विज्ञानं देवाः सर्वे ।

ब्रह्म ज्येष्ठमुपासते । विज्ञानं ब्रह्म चेद्वेद ।

तस्माच्चेन्न प्रमाद्यति । शरीरे पाप्मनो हित्वा ।

सर्वान्कामान्समश्नुत इति । तस्यैष एव शारीर आत्मा ।

यः पूर्वस्य । तस्माद्वा एतस्माद्विज्ञानमयात् ।

अन्योऽन्तर आत्माऽऽनन्दमयः । तेनैष पूर्णः ।

स वा एष पुरुषविध एव । तस्य पुरुषविधताम् ।

अन्वयं पुरुषविधः । तस्य प्रियमेव शिरः । मोदो दक्षिणः पक्षः ।

प्रमोद उत्तरः पक्षः । आनन्द आत्मा । ब्रह्म पुच्छं प्रतिष्ठा ।

तदप्येष श्लोको भवति ॥१॥

इति पञ्चमोऽनुवाकः ॥

असन्नेव स भवति । असद्ब्रह्मेति वेद चेत् ।

अस्ति ब्रह्मेति चेद्वेद । सन्तमेनं ततो विदुरिति ।

तस्यैष एव शारीर आत्मा । यः पूर्वस्य ।

अथातोऽनुप्रश्नाः । उताविद्वानमुं लोकं प्रेत्य ।

कश्चन गच्छती ।

आहो विद्वानमुं लोकं प्रेत्य कश्चित्समश्नुता । सोऽकामयत ।

बहु स्यां प्रजायेयेति । स तपोऽतप्यत । स तपस्तप्त्वा ।

इदँ सर्वमसृजत । यदिदं किञ्च । तत्सृष्ट्वा ।

तदेवानुप्राविशत् । तदनुप्रविश्य । सच्च त्यच्चाभवत् ।

निरुक्तं चानिरुक्तं च । निलयनं चानिलयनं च ।

विज्ञानं चाविज्ञानं च । सत्यं चानृतं च सत्यमभवत् ।

यदिदं किञ्च । तत्सत्यमित्याचक्षते ।

तदप्येष श्लोको भवति ॥१॥

इति षष्ठोऽनुवाकः ॥

असद्वा इदमग्र आसीत् । ततो वै सदजायत ।

तदात्मानँ स्वयमकुरुत ।

तस्मात्तत्सुकृतमुच्यत इति ।

यद्वै तत् सुकृतम् । रसो वै सः ।

रसँ ह्येवायं लब्ध्वाऽऽनन्दी भवति । को ह्येवान्यात्कः

प्राण्यात् । यदेष आकाश आनन्दो न स्यात् ।

एष ह्येवाऽऽनन्दयाति ।

यदा ह्येवैष एतस्मिन्नदृश्येऽनात्म्येऽनिरुक्तेऽनिलयनेऽभयं

प्रतिष्ठां विन्दते । अथ सोऽभयं गतो भवति ।

यदा ह्येवैष एतस्मिन्नुदरमन्तरं कुरुते ।

अथ तस्य भयं भवति । तत्वेव भयं विदुषोऽमन्वानस्य ।

तदप्येष श्लोको भवति ॥१॥

इति सप्तमोऽनुवाकः ॥

भीषाऽस्माद्वातः पवते । भीषोदेति सूर्यः ।

भीषाऽस्मादग्निश्चेन्द्रश्च । मृत्युर्धावति पञ्चम इति ।

सैषाऽऽनन्दस्य मीमाँसा भवति ।

युवा स्यात्साधुयुवाऽध्यायकः ।

आशिष्ठो दृढिष्ठो बलिष्ठः ।

तस्येयं पृथिवी सर्वा वित्तस्य पूर्णा स्यात् ।

स एको मानुष आनन्दः । ते ये शतं मानुषा आनन्दाः ॥१॥

स एको मनुष्यगन्धर्वाणामानन्दः । श्रोत्रियस्य चाकामहतस्य ।

ते ये शतं मनुष्यगन्धर्वाणामानन्दाः ।

स एको देवगन्धर्वाणामानन्दः । श्रोत्रियस्य चाकामहतस्य ।

ते ये शतं देवगन्धर्वाणामानन्दाः ।

स एकः पितृणां चिरलोकलोकानामानन्दः ।

श्रोत्रियस्य चाकामहतस्य ।

ते ये शतं पितृणां चिरलोकलोकानामानन्दाः ।

स एक आजानजानां देवानामानन्दः ॥२॥

श्रोत्रियस्य चाकामहतस्य ।

ते ये शतं आजानजानां देवानामानन्दाः ।

स एकः कर्मदेवानां देवानामानन्दः ।

ये कर्मणा देवानपियन्ति । श्रोत्रियस्य चाकामहतस्य ।

ते ये शतं कर्मदेवानां देवानामानन्दाः ।

स एको देवानामानन्दः । श्रोत्रियस्य चाकामहतस्य ।

ते ये शतं देवानामानन्दाः । स एक इन्द्रस्याऽऽनन्दः ॥३॥

श्रोत्रियस्य चाकामहतस्य । ते ये शतमिन्द्रस्याऽऽनन्दाः ।

स एको बृहस्पतेरानन्दः । श्रोत्रियस्य चाकामहतस्य ।

ते ये शतं बृहस्पतेरानन्दाः । स एकः प्रजापतेरानन्दः ।

श्रोत्रियस्य चाकामहतस्य ।

ते ये शतं प्रजापतेरानन्दाः ।

स एको ब्रह्मण आनन्दः । श्रोत्रियस्य चाकामहतस्य ॥ ४ ॥

स यश्चायं पुरुषे । यश्चासावादित्ये । स एकः ।

स य एवंवित् । अस्माल्लोकात्प्रेत्य ।

एतमन्नमयमात्मानमुपसङ्क्रामति ।

एतं प्राणमयमात्मानमुपसङ्क्रामति ।

एतं मनोमयमात्मानमुपसङ्क्रामति ।

एतं विज्ञानमयमात्मानमुपसङ्क्रामति ।

एतमानन्दमयमात्मानमुपसङ्क्रामति ।

तदप्येष श्लोको भवति ॥५॥

इत्यष्टमोऽनुवाकः ॥

यतो वाचो निवर्तन्ते । अप्राप्य मनसा सह ।

आनन्दं ब्रह्मणो विद्वान् ।

न बिभेति कुतश्चनेति ।

एतँ ह वाव न तपति ।

किमहँ साधु नाकरवम् । किमहं पापमकरवमिति ।

स य एवं विद्वानेते आत्मानँ स्पृणुते ।

उभे ह्येवैष एते आत्मानँ स्पृणुते । य एवं वेद ।

इत्युपनिषत् ॥१॥ इति नवमोऽनुवाकः ॥

 

॥ इति ब्रह्मानन्दवल्ली समाप्ता ॥

 

ॐ सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै ।

तेजस्वि नावधीतमस्तु मा विद्विषावहै ।

ॐ शान्तिः शान्तिः शान्तिः ॥

--------------------------------------------------------------------------------

भृगुर्वै वारुणिः । वरुणं पितरमुपससार ।

अधीहि भगवो ब्रह्मेति । तस्मा एतत्प्रोवाच ।

अन्नं प्राणं चक्षुः श्रोत्रं मनो वाचमिति ।

तँ होवाच । यतो वा इमानि भूतानि जायन्ते ।

येन जातानि जीवन्ति ।

यत्प्रयन्त्यभिसंविशन्ति । तद्विजिज्ञासस्व । तद् ब्रह्मेति ।

स तपोऽतप्यत । स तपस्तप्त्वा ॥१॥

इति प्रथमोऽनुवाकः ॥

अन्नं ब्रह्मेति व्यजानात् । अन्नाद्ध्येव खल्विमानि

भुतानि जायन्ते । अन्नेन जातानि जीवन्ति ।

अन्नं प्रयन्त्यभिसंविशन्तीति । तद्विज्ञाय ।

पुनरेव वरुणं पितरमुपससार । अधीहि भगवो ब्रह्मेति ।

तँ होवाच । तपसा ब्रह्म विजिज्ञासस्व । तपो ब्रह्मेति ।

स तपोऽतप्यत । स तपस्तप्त्वा ॥१॥

इति द्वितीयोऽनुवाकः ॥

प्राणो ब्रह्मेति व्यजानात् ।

प्राणाद्ध्येव खल्विमानि भूतानि जायन्ते ।

प्राणेन जातानि जीवन्ति । प्राणं प्रयन्त्यभिसंविशन्तीति ।

तद्विज्ञाय । पुनरेव वरुणं पितरमुपससार ।

अधीहि भगवो ब्रह्मेति । तँ होवाच ।

तपसा ब्रह्म विजिज्ञासस्व । तपो ब्रह्मेति ।

स तपोऽतप्यत । स तपस्तप्त्वा ॥१॥

इति तृतीयोऽनुवाकः ॥

मनो ब्रह्मेति व्यजानात् । मनसो ह्येव खल्विमानि

भूतानि जायन्ते । मनसा जातानि जीवन्ति ।

मनः प्रयन्त्यभिसंविशन्तीति । तद्विज्ञाय ।

पुनरेव वरुणं पितरमुपससार । अधीहि भगवो ब्रह्मेति ।

तँ होवाच । तपसा ब्रह्म विजिज्ञासस्व । तपो ब्रह्मेति ।

स तपोऽतप्यत । स तपस्तप्त्वा ॥१॥

इति चतुर्थोऽनुवाकः ॥

विज्ञानं ब्रह्मेति व्यजानात् ।

विज्ञानाद्ध्येव खल्विमानि भूतानि जायन्ते ।

विज्ञानेन जातानि जीवन्ति ।

विज्ञानं प्रयन्त्यभिसंविशन्तीति । तद्विज्ञाय ।

पुनरेव वरुणं पितरमुपससार । अधीहि भगवो ब्रह्मेति ।

तँ होवाच । तपसा ब्रह्म विजिज्ञासस्व । तपो ब्रह्मेति ।

स तपोऽतप्यत । स तपस्तप्त्वा ॥१॥

इति पञ्चमोऽनुवाकः ॥

आनन्दो ब्रह्मेति व्यजानात् ।

आनन्दाध्येव खल्विमानि भूतानि जायन्ते ।

आनन्देन जातानि जीवन्ति । आनन्दं प्रयन्त्यभिसंविशन्तीति ।

सैषा भार्गवी वारुणी विद्या । परमे व्योमन्प्रतिष्ठिता ।

स य एवं वेद प्रतितिष्ठति । अन्नवानन्नादो भवति ।

महान्भवति प्रजया पशुभिर्ब्रह्मवर्चसेन ।

महान् कीर्त्या ॥१॥ इति षष्ठोऽनुवाकः ॥

अन्नं न निन्द्यात् । तद्व्रतम् । प्राणो वा अन्नम् ।

शरीरमन्नादम् । प्राणे शरीरं प्रतिष्ठितम् ।

शरीरे प्राणः प्रतिष्ठितः । तदेतदन्नमन्ने प्रतिष्ठितम् ।

स य एतदन्नमन्ने प्रतिष्ठितं वेद प्रतितिष्ठति ।

अन्नवानन्नादो भवति ।

महान्भवति प्रजया

पशुभिर्ब्रह्मवर्चसेन । महान् कीर्त्या ॥१॥

इति सप्तमोऽनुवाकः ॥

अन्नं न परिचक्षीत । तद्व्रतम् । आपो वा अन्नम् ।

ज्योतिरन्नादम् । अप्सु ज्योतिः प्रतिष्ठितम् ।

ज्योतिष्यापः प्रतिष्ठिताः । तदेतदन्नमन्ने प्रतिष्ठितम् ।

स य एतदन्नमन्ने प्रतिष्ठितं वेद प्रतितिष्ठति ।

अन्नवानन्नादो भवति ।

महान्भवति प्रजया

पशुभिर्ब्रह्मवर्चसेन ।

महान् कीर्त्या ॥१॥

इत्यष्टमोऽनुवाकः ॥

अन्नं बहु कुर्वीत । तद्व्रतम् । पृथिवी वा अन्नम् ।

आकाशोऽन्नादः । पृथिव्यामाकाशः प्रतिष्ठितः ।

आकाशे पृथिवी प्रतिष्ठिता ।

तदेतदन्नमन्ने प्रतिष्ठितम् ।

स य एतदन्नमन्ने प्रतिष्ठितं वेद प्रतितिष्ठति ।

अन्नवानन्नादो भवति ।

महान्भवति प्रजया

पशुभिर्ब्रह्मवर्चसेन । महान्कीर्त्या ॥१॥

इति नवमोऽनुवाकः ॥

न कञ्चन वसतौ प्रत्याचक्षीत । तद्व्रतम् ।

तस्माद्यया कया च विधया बह्वन्नं प्राप्नुयात् ।

अराध्यस्मा अन्नमित्याचक्षते ।

एतद्वै मुखतोऽनँ राद्धम् ।

मुखतोऽस्मा अन्नँ राध्यते ।

एतद्वै मध्यतोऽनँ राद्धम् ।

मध्यतोऽस्मा अन्नँ राध्यते ।

एदद्वा अन्ततोऽन्नँ राद्धम् ।

अन्ततोऽस्मा अन्नँ राध्यते ॥१॥

य एवं वेद । क्षेम इति वाचि । योगक्षेम इति प्राणापानयोः ।

कर्मेति हस्तयोः । गतिरिति पादयोः । विमुक्तिरिति पायौ ।

इति मानुषीः समाज्ञाः । अथ दैवीः । तृप्तिरिति वृष्टौ ।

बलमिति विद्युति ॥२॥

यश इति पशुषु । ज्योतिरिति नक्षत्रेषु ।

प्रजातिरमृतमानन्द इत्युपस्थे । सर्वमित्याकाशे ।

तत्प्रतिष्ठेत्युपासीत । प्रतिष्ठावान् भवति ।

तन्मह इत्युपासीत । महान्भवति । तन्मन इत्युपासीत ।

मानवान्भवति ॥३॥

तन्नम इत्युपासीत । नम्यन्तेऽस्मै कामाः ।

तद्ब्रह्मेत्युपासीत । ब्रह्मवान्भवति ।

तद्ब्रह्मणः परिमर इत्युपासीत ।

पर्येणं म्रियन्ते द्विषन्तः सपत्नाः ।

परि येऽप्रिया भ्रातृव्याः ।

स यश्चायं पुरुषे । यश्चासावादित्ये । स एकः ॥४॥

स य एवंवित् । अस्माल्लोकात्प्रेत्य ।

एतमन्नमयमात्मानमुपसङ्क्रम्य ।

एतं प्राणमयमात्मानमुपसङ्क्रम्य ।

एतं मनोमयमात्मानमुपसङ्क्रम्य ।

एतं विज्ञानमयमात्मानमुपसङ्क्रम्य ।

एतमानन्दमयमात्मानमुपसङ्क्रम्य ।

इमाँल्लोकन्कामान्नी कामरूप्यनुसञ्चरन् ।

एतत् साम गायन्नास्ते ।

हा ३ वु हा ३ वु हा ३ वु ॥५॥

अहमन्नमहमन्नमहमन्नम् ।

अहमन्नादो३ऽहमन्नादो३ऽअहमन्नादः ।

अहँ श्लोककृदहँ श्लोककृदहँ श्लोककृत् ।

अहमस्मि प्रथमजा ऋता३स्य ।

पूर्वं देवेभ्योऽमृतस्य ना३भायि ।

यो मा ददाति स इदेव मा३ऽऽवाः ।

अहमन्नमन्नमदन्तमा३द्मि ।

अहं विश्वं भुवनमभ्यभवा३म् ।

सुवर्न ज्योतीः । य एवं वेद । इत्युपनिषत् ॥६॥

इति दशमोऽनुवाकः ॥

 

॥ इति भृगुवल्ली समाप्ता ॥

 

ॐ सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै ।

तेजस्वि नावधीतमस्तु मा विद्विषावहै ।

॥ ॐ शान्तिः शान्तिः शान्तिः ॥

॥ हरिः ओ३म्

Translation - भाषांतर
N/A

N/A
Last Updated : 2008-12-14T13:07:43.7270000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

terrestrial life

  • स्थलजीवन 
RANDOM WORD

Did you know?

मंत्रांचे वर्गीकरण कशा प्रकारे केले आहे?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.