संस्कृत सूची|पूजा विधीः|कृत्य दिवाकरः|मध्यमांशुः|अथान्हिकादिप्रकरणम्| अक्षय्यतृतीयायां उदकुम्भदानम् अथान्हिकादिप्रकरणम् तत्रादौ प्रातः कृत्यम् श्रीगणेशप्रातः स्मरणम् श्रीशिवप्रातः स्मरणम् श्रीविष्णुप्रातः स्मरणम् श्रीसूर्यप्रातः स्मरणम् श्रीदेवीप्रातः स्मरणम् मूत्रपुरीषोत्सर्ग - ( शौच ) - विधिः दंतधावनम् स्नानविधिः मंत्रादिस्नानविधिः ब्रह्मयज्ञः ब्रह्मयज्ञांगतर्पणम् ब्रह्मयज्ञांगस्वपितृतर्पणम् उत्सर्जनोपाकरणे ( श्रावणीप्रयोगः ) उत्सर्जनाड्गस्नानविधिः ऋषिपूजनम् तदड्गतर्पणम् उपाकरणम् यज्ञोपवीताभिमंत्रणम् अथ सर्वदेवानां साधारणपूजा मंत्रपुष्पाञ्जलिमंत्राः वैश्वदेवः साड्गः नित्यश्राद्धम् मनुष्ययज्ञः गोग्रासार्पणम् भोजनविधिः पार्वणश्राद्धप्रयोगः अथ पिंडप्रदानम् श्राद्धांगतर्पणम् केवलामान्नदानश्राद्धप्रयोगः दर्शश्राद्धम् अविधवानवमीश्राद्धम् अक्षय्यतृतीयायां उदकुम्भदानम् महालयश्राद्धादौ पितृगणक्रमः अथान्हिकादिप्रकरणम् - अक्षय्यतृतीयायां उदकुम्भदानम् ‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते. Tags : krutya divakarpoojaकृत्य दिवाकरपूजासंस्कृत अक्षय्यतृतीयायां उदकुम्भदानम् Translation - भाषांतर अक्षय्यतृतीया रोहिणीयुक्तोत्तमा, तदभावे कृत्तिकायुक्तापि ग्राह्या । अस्यां यत्कृतं हुतं दत्तं च तदक्षय्यं भवति । तथा चोक्तम् - नास्यां तिथौ क्षयमुपैति हुतं च दत्तं तेनाक्षयेति कथिता मुनिभिस्तृतीया । उद्दिश्य दैवतपितृन् क्रियते मनुष्यैस्तच्चाक्षयं भवति भारतसर्वमेव - इति तत्र - देवपित्रोरुद्देशेनोदकुंभदानं कुर्यात् । तदेवम् - आचम्य देशकालौ स्मृत्वा मम पुराणोक्तफलप्राप्त्यर्थं वसन्तमाधवप्रीत्यर्थं उदकुंभदानमहं करिष्ये । तदंगतयोदकुम्भपूजनं ब्राह्मणपूजनं च करिष्येइति संकल्प्य यवफलव्यजनाद्युपेतं सूत्रवस्त्रालंकृतं ताम्रमृदादिकुंभं ब्राह्मणं च पंचोपचारैः संपूज्य - एष धर्मघटो दत्तो ब्रह्मविष्णुशिवात्मकः । अस्य प्रदानात्सकला मम संतु मनोरथाः ॥ विप्राय वेदविदुषे० एतदुदकुंभदानं सदक्षिणाकं सफलं व्यजनतांबूलादिसहितं मम सकलपुरुषार्थसिद्ध्यर्थं श्रीवसंतमाधवप्रीत्यर्थं अमुकशर्मणेऽमुकगोत्राय ब्राह्मणाय तुभ्यमहं संप्रददे तेन श्रीवसंतमाधवः प्रीयताम् । दक्षिणां आमान्नं च दद्यात् ॥ पित्रुद्देशेतु अपसव्येन दर्शश्राद्धवत्पितृत्रयीं मातामहत्रयीं च षष्ठ्यंतां समुच्चार्य एतेषां ( समस्तपितृणां वा ) अक्षय्यतृप्त्यर्थं इत्याद्यूहेन संकल्प्य उपर्युक्तबिधिना उदकुंभं ब्राह्मणाय दद्यात् । तत्र मंत्रौ - एष धर्मघटो दत्तो ब्रह्मविष्णुशिवात्मकः । अस्य प्रदानात्तृप्यंतु पितरोऽपि पितामहाः ॥ गंधोदकतिलैर्मिश्रं सामं ( सान्नं ) कुंभं फलान्वितम् । पितृभ्यः संप्रदास्यामि ह्यक्षय्यमुपतिष्ठतु - इति ॥ इत्यक्षय्यतृतीयायां उदकुंभदानम् ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP