संस्कृत सूची|पूजा विधीः|कृत्य दिवाकरः|मध्यमांशुः|अथान्हिकादिप्रकरणम्|
ऋषिपूजनम्

प्रातः स्मरणम् - ऋषिपूजनम्

‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते.


धृतशुक्लाम्बरो निवीती देशकालौ स्मृत्वा उत्सर्जनाड्गमृषिपूजनं करिष्ये । अक्षतपुञ्जस्थापितदर्भग्रन्थिषु पूगीफलादिषु वा क्रमेण - कश्यपः सर्वलोकाद्यः सर्वलोकहितेरतः । नराणां पापनाशाय ऋषिरुपेण तिष्ठति ॥ कश्यपाय नमः कश्यपमावाहयामि ॥१॥ अत्रये च नमस्तुभ्यं सर्वभूतहितैषिणे । तपोरुपाय सत्याय ब्रह्मणेऽमिततेजसे ॥ अत्रये नमः अत्रिमा० ॥२॥ भरद्वाज नमस्तुभ्यं सदा ध्यानपरायण । महाजटिल धर्मात्मन् पापं मे हर सर्वदा ॥ भरद्वाजाय० भरद्वाजमा० ॥३॥ विश्वामित्र नमस्तुभ्यं ज्वलद्रूप महाव्रत । प्रत्यक्षीकृतगायत्री तपोरुपेण संस्थित ॥ विश्वामित्राय० विश्वामित्रं० ॥४॥ गौतमः सर्वभूतानामृषीणां च महाप्रियः । श्रौतानां कर्मणां चैव सम्प्रदायप्रवर्तकः ॥ गौतमाय० गौतममा० ॥५॥ जमदग्निर्महातेजा तपस्वी ज्ञानलोचनः । लोकेषु धर्मवृत्तिस्थः सर्वेषां पापनाशकः । जमदग्नये० जमदग्निमा० ॥६॥ नमस्तस्मै वसिष्ठाय जटिलाय महात्मने । धर्मरुपाय सत्याय लोकानां हितकारिणे ॥ वसिष्ठाय० वसिष्ठमावा० ॥७॥ अरुंधति नमस्तुभ्यं महापापप्रणाशिनि । पतिव्रतानां सर्वासां धर्मशीलप्रवर्तके ॥ अरुन्धत्यै० अरुन्धतीमावा० ॥८॥ इत्यावाह्य ‘ कश्यपात्रिभरद्वाजान् विश्वामित्रं च गौतमम् । जमदग्निं वसिष्ठं चारुन्धतीं पूजयाम्यहम् ॥ ’ इति मंत्रेण षोडशोपचारैः सम्पूज्य ‘ एते सप्तर्षयः सर्वे भक्त्या सम्पूजिता मया । सर्वं पापं व्यपोहन्तु ज्ञानतोऽज्ञानतः कृतम् ॥ येषां प्रभावेण दिवौकसश्च महाप्रभावाप्तपसो बलेन । लोकत्रयारिष्टविनाशकानां पूर्णाऽस्त्वृषीणामियमल्पपूजा ॥ इति प्रार्थयेत् ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP