संस्कृत सूची|पूजा विधीः|कृत्य दिवाकरः|मध्यमांशुः|अथान्हिकादिप्रकरणम्|
उपाकरणम्

प्रातः स्मरणम् - उपाकरणम्

‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते.


आचार्यः नेत्रस्पर्शाचमनं कृत्वा ( कर्ता यजमानश्चेदाचम्य ) देशकालकीर्तनान्ते ममाध्याप्यानां चाधीतानामध्येष्यमाणानां च मन्त्रादीनामित्यादि० एतेषां ( एभिः सह वा ) उपाकरणाख्यं कर्म करिष्ये तदंगं गणपतिपूजनं स्थण्डिलादि सर्वं कर्म करिष्ये । अग्न्याधानादि सर्वं पूर्ववत् । अन्वाधाने - उपाकर्म - होमे इति, तण्डुलस्थाने दधिसक्तुद्रव्येणेति, इध्मसन्नहनेन रुद्रमित्यस्याग्रे यज्ञोपवीतेन परमात्मानमिति च विशेषः । पात्रासादने दधिसक्तुस्थालीप्रोक्षिण्यौ, पर्यग्निकरणे दधिसक्तुना सहाज्यं चक्षुष्यन्ते सावित्र्यादिभ्य आज्येन हुत्वा ‘ अग्निं पुरस्तात् ’ इत्यादिभिर्मंत्रैर्दधिसक्तुना जुहुयात् । रज्जुप्रहरणान्ते दधिसक्तुं प्राश्नीयुः । ‘ दधिक्राव्णो विभोः कुर्वे स्तुतिं जिष्णोस्तरस्विनः । स इन्द्रियाणि रम्याणि क्रियादायुश्च वर्द्धंयेत् ॥ ’ इति । आचम्य सर्वे उत्तरपरिस्तरणदर्भांणामधः अञ्जलिं कृत्वाऽन्येनाप आसेचयेयुः । ‘ परमात्मने नमो नमः परमात्मन इदं न मम ’ इति यज्ञोपवीतं हुत्वा सदक्षिणानि यज्ञोपवीतानि यथाशक्ति ब्राह्मणेभ्यो दत्त्वा स्वधार्याणि पृथगभिमन्त्रयेयुर्वक्ष्यमाणविधिना -

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP