संस्कृत सूची|पूजा विधीः|कृत्य दिवाकरः|मध्यमांशुः|अथान्हिकादिप्रकरणम्|
दंतधावनम्

प्रातः स्मरणम् - दंतधावनम्

‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते.


बदरोदुंबरापामार्गपनसकदंबाम्रजातीयं बिल्वप्रियंगुमयं कंटकिक्षीरवृक्षोत्थं काष्ठं क्षत्रियविट्शूद्रजानां क्रमेण नवषट्चतुरंगुलपरिमितं कनिष्ठाग्रस्थूलपर्वार्धकृतकूर्चं दंतधावनं प्रक्षाल्य - आयुर्बलं यशो वर्चः प्रजाः पशु वसूनि च । ब्रह्म प्रज्ञां च मेधां च त्वं नो धेहि वनस्पते । इतिमंत्रेण प्राड्मुख उपविश्य दंतान् संशोध्य तथैव जिह्वोल्लेखनं कृत्वा तत्काष्ठं प्राच्यामुदीच्यां वा त्यक्त्वा षोडश द्वादश वा गंडूषान् कुर्यात् एतत्प्रतिपन्नवमी षष्ठ्यमापौर्णमासी चतुर्दश्यष्टमी संक्रमश्राद्धव्रतरविवासरेषु न कार्यं तदा द्वादश गंडूषान् कुर्यात् । ततः केशप्रसाधनं कृत्वा स्नायात् ।

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP