संस्कृत सूची|पूजा विधीः|कृत्य दिवाकरः|मध्यमांशुः|अथान्हिकादिप्रकरणम्|
दर्शश्राद्धम्

अथान्हिकादिप्रकरणम् - दर्शश्राद्धम्

‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते.


सपवित्रः कर्ता आचम्य देशकालौ स्मृत्वा पुराणोक्तफलप्राप्त्यर्थं पुरुरवार्द्रवसंज्ञकानां विश्वेषां देवानां विश्वेषां देवानां ( अपसव्यम् ) अस्मत्पितृ - पितामह - प्रपितामहानां अमुकवर्मणां ( गुप्तानां दासानां वेति सर्वत्र ) सपत्नीकानां वसु - रुद्रादित्य - स्वरुपाणां मातामह - मातृपितामह - मातृप्रपितामहानां अमुकवर्मणां ( दासानां गुप्तानां वा ) ’ अमुकगोत्राणां सपत्नीकानां वसुरुद्रादित्य - स्वरुपाणां ( सव्यम् ) एतेषां श्रेयोर्थं मोक्षार्थं तृप्त्यर्थं च मम पितुः दर्शश्राद्धाख्यं कर्म आमान्नेन हविषा सद्यः करिष्ये तदंगतिलोदकं यवोदकं च करिष्ये इति संकल्प्य तिलोदकादि कृत्वा चटे पूगीफलादौ वा पितृपूजनं कुर्यात् । तद्यथा - ‘ पुरुरवार्द्रवसंज्ञकानां विश्वेषां देवानां वि० दे० चटस्थब्राह्मणाय इदमासनं ’ ‘ स्वासनं ’ इत्यारभ्य ‘ पवित्रार्थौ इमौ कुशौ ’ -- ‘ अस्तु पवित्रं ’ इत्यंतं पूजनं कृत्वा एवमेव पितृपितामहप्रपितामहानां अ० वर्मणां अ० गोत्राणां वसुरु० इत्याद्युक्त्वा आसनार्घ्याद्युपचारैः पिण्डपूजनं कृत्वा तदुपरि पात्राद्यंतरितं आमान्नं निधाय वामं जान्वाच्य तूष्णीं परिषिच्य पाणिभ्यां पात्रमालभ्य ‘ अस्मत्पितृ - पितामह - प्रपितामहेभ्योऽ मुकगोत्रेभ्यः अ० वर्मभ्यः सपत्नीकेभ्यः । तथा अस्मन्मातामह - मातृपितामह - मातृप्रपितामहेभ्यश्च अमु० व० अ० गो० सप० भ्यः इदमिदमामान्नं यथाशक्तिसोपस्करं दत्तं अस्य चटस्थब्राह्मणस्य आतृप्तिपर्यंतं गयास्थममृतरुपेण संपद्यंतां कव्यं न मम ’ इति तिलोदकमुत्सृजेत् । एको विष्णुर्महद्भूतं० अनेन मम पितुः दर्शश्राद्धीयामान्नदानेन भगवान् पितृ - पितामहप्रपितामह मातामह - मातृपितामहमातृप्रपितामहस्वरुपी जनार्दनवासुदेवः प्रीयतां न मम । ततो ब्राह्मणं संपूज्य आमान्नं दक्षिणां दद्यात् ॥ ॥ इति कृत्यदिवाकरे मध्यमांशौ दर्शश्राद्धम् ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP