TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

बृहस्पतिस्मृतिः - ऋणादानम्

स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग.


ऋणादानम्
पदांशसहितस्त्वेष व्यवहारः प्रकीर्तितः ।
विवादकारणान्यस्य पदानि शृणुताधुना ॥१॥
ऋणादानप्रधानानि द्यूताह्वानान्तिकानि च ।
क्रमशः संप्रवक्ष्यामि क्रियाभेदांश्च तत्त्वतः ॥२॥
ऋणं देयं अदेयं च येन यत्र यथा च यत् ।
दानग्रहणधर्मौ च ऋणादानं इति स्मृतम् ॥३॥

१ वृद्धिविचारः
अशीतिभागो वृद्धिः स्यान्मासि मासि सबन्धके ।
वर्णक्रमाच्छतं द्वित्रि चतुःपञ्चकं अन्यथा ॥४॥
परिपूर्णं गृहीत्वाधिं बन्धं वा साधुलग्नकम् ।
लेख्यारूढं साक्षिमद्वा ऋणं दद्याद्धनी सदा ॥५॥
कुत्सितात्सीदतश्चैव निर्विशङ्कैः प्रगृह्यते ।
चतुर्गुणं वाष्टगुणं कुसीदाख्यं अतः स्मृतम् ॥६॥
पुराणे पणं ... .... .... ॥७॥

२ वृद्धिप्रभेदाः
वृद्धिश्चतुर्विधा प्रोक्ता पञ्चधान्यैः प्रकीर्तिता ।
षड्विधान्यैः समाख्याता तत्त्वतस्ता निबोधत ॥८॥
कायिका कालिका चैव चक्रवृद्धिरतोऽपरा ।
कारिता च शिखावृद्धिर्भोगलाभस्तथैव च ॥९॥
कायिका कर्मसंयुक्ता मासाद्ग्राह्या च कालिका ।
वृद्धेर्वृद्धिश्चक्रवृद्धिः कारिता ऋणिना कृता ॥१०॥
प्रत्यहं गृह्यते या तु शिखावृद्धिस्तु सा स्मृता ।
शिखेव वर्धते नित्यं शिरश्च्छेदान्निवर्तते ॥११॥
ऋणिकेन तु या वृद्धिरधिका संप्रकल्पिता ।
आपत्कालकृता नित्यं दातव्या सा तु कारिता ।
अन्यथा कारिता वृद्धिर्न दातव्या कथञ् चन ॥१२॥
शिखेव वर्धते नित्यं शिरश्च्छेदान्निवर्तते ।
मूले दत्ते तथैवैषा शिखावृद्धिस्ततः स्मृता ॥१३॥
गृही स्तोमः शदः क्षेत्राद्भोगलाभः प्रकीर्तितः ॥१४॥
कायिका भोगवृद्धिं च कारितां च शिखात्मिकाम् ।
चतुष्टयीं वृद्धिं आहुश्चक्रवृध्या तु पञ्चमीम् ॥१५॥
शिखा वृद्धिं कायिकां च भोगलाभं तथैव च ।
धनी तावत्समादद्याद्यावन्मूलं न शोधितम् ॥१६॥

३ हिरण्यधान्यादीनां वृद्धिः
हिरण्ये द्विगुणा वृद्धिस्त्रिगुणा वस्त्रकुप्यके ।
धान्ये चतुर्गुणा प्रोक्ता शदवाह्यलवेषु च ॥१७॥
उक्तपञ्चगुणा शाके बीजेऽक्षौ षड्गुणा स्मृता ।
लवणस्वेदं अद्येषु वृद्धिरष्टगुणा मता ।
गुडे मधुनि चैवोक्ता प्रयुक्ते चिरकालिके ॥१८॥
तैलानां चैव सर्वेषां मद्यानां मधुसर्पिषाम् ।
वृद्धिरष्टगुणा प्रोक्ता गुडस्य लवणस्य च ॥१९॥
स्यात्कोशानां पञ्चगुणा कार्पासस्य चतुर्गुणा ।
काष्ठानां चन्दनादीनां वृद्धिरष्टगुणा भवेत् ॥२०॥
भागो यद्द्विगुणादूर्ध्वं चक्रवृद्धिश्च गृह्यते ।
पूर्णे च सोदयं पश्चाद्वार्द्धुष्यं तद्विगर्हितम् ॥२१॥
अशीतिभागो वर्धेत लाभे द्विगुणतां इयात् ।
प्रयुक्तं सप्तभिर्वर्षैस्त्रिभागोअनैर्न संशयः ॥२२॥
तृणकाष्ठेष्टकासूत्र किण्वचर्मास्थिवर्मणाम् ।
हेतिपुष्पफलानां च वृद्धिस्तु न निवर्तते ॥२३॥
हिरण्यधान्यवस्त्राणां वृद्धिर्द्वित्रिचतुर्गुणा ।
घृतस्याष्टगुणा वृद्धिस्ताम्रादीनां चतुर्गुणा ॥२४॥
शिखावृद्धिं कायिकां च भोगे लाभं तथैव च ।
धनी तावत्समादद्याद्यावन्मूलं न शोधितम् ॥२५॥
पादोपचयात्क्रमेणेतरेषाम् ॥२६॥
सर्वेष्वर्थविवादेषु वाक्च्छले नावसीदति ।
परस्त्रीभूमिर्णादाने शास्योऽप्यर्थान्न हीयते ।
समवृद्धिः सदा कुर्याद्विषमस्तु निवर्तते ॥२७॥

४ धनवृद्धिः
वसिष्ठवचनप्रोक्तां वृद्धिं वार्द्धुषिके शृणु ।
पञ्च माषास्तु विंशत्या एवं धर्मो न हीयते ॥२८॥
माषो विंशतिभागस्तु पलस्य परिकीर्तितः ॥२९॥
तत्र त्विदं उपेक्षां वा यः कश्चित्कुरुते नरः ।
चतुःसुवर्णं षण्णिष्कास्तस्य दण्डो विधीयते ॥३०॥
समूहकार्यसिध्यर्थं राजादीनां च दर्शने ।
ततो लभेत यत्किंचित्सर्वेषां एव तत्समम् ॥३१॥
सान्तानिकादिषु तथा धर्म एषां सनातनः ।
यत्नैः प्राप्तं रक्षितं वा गणार्थे वा ऋणं कृतम् ॥३२॥

५ अकृतवृद्धिः
स्वदेशस्थोऽपि वा यस्तु न दद्याद्याचितोऽसकृत् ।
स तत्र कारितां वृद्धिं अनिच्छन्नपि चाहरेत्? ॥३३॥
षाण्मास्यं मासिकं वापि विभक्तव्यं यथांशतः ।
देयं वा निःस्ववृद्धार्त स्त्रीबालातुररोगिषु ॥३४॥
ऋतुत्रयस्योपरिष्टाद्धनं वृद्धिं अवाप्नुयात् ।
एवं आदिष्वशीति भागवृद्धिर्विवक्षिता ॥३५॥
न निःस्रवति यत्तत्स्याद्धनिको मूलभाग्भवेत् ।
द्विगुणादपि चोत्कर्षे कालिका यस्य चादिनाम् ।
विवादन्यायतत्त्वज्ञैस्तदा राजा विनिर्णयेत् ॥३६॥

६ आधिः
आधिस्तु भुज्यते तावद्यावत्तन्न प्रदीयते ॥३७॥
आधिर्बन्धः समाख्यातः स च प्रोक्तश्चतुर्विधः ।
जङ्गमः स्थावरश्चैव गोप्यो भोग्यस्तथैव च ॥३८॥
यादृच्छिकः सावधिश्च लेख्यारुढोऽथ साक्षिमान् ।
अशान्तलाभे च ऋणे तथा पूर्णेऽवधौ धनी ॥३९॥
यो भुङ्क्ते बन्धकं लोभान्न स लाभो भवेत्पुनः ।
न्यासवत्परिपाल्योऽसौ वृद्धिर्नश्यते हापिते ॥४०॥
दैवराजोपघाते च यथाधिर्नाशं आप्नुयात् ।
तत्राधिं दापयेद्दद्यात्सोदयं धनं अन्यथा ॥४१॥
बन्धहस्तस्य यद्देयं चित्रेण चरितेन वा ।
अदत्तेऽर्थेऽखिलं बन्धं नाकामो दाप्यते क्वचित् ॥४२॥
भुक्ते चासारतां प्राप्ते मूलहानिः प्रजायते ।
बहुमूल्यं तत्र नष्टं ऋणिकं तत्र तोषयेत् ॥४३॥
क्षेत्रं एकं द्वयोर्बन्धे दत्तं यत्समकालिकम् ।
येन भुक्तं भवेत्पूर्वं तस्य सिद्धिं अवाप्नुयात् ॥४४॥
तुल्यकालोपस्थितयोर्द्वयोरपि समं भवेत् ।
प्रदाने विक्रये चैव विधिः स परिकीर्तितः ॥४५॥
आधानं विक्रयो दानं साक्षिलेख्यकृतं यदा ।
एकक्रियानिबन्धेन लेख्यं तत्रापहारकम् ॥४६॥
अनिर्दिष्टं च निर्दिष्टं एकत्र च विशेषितम् ।
विशेषलिखितं ज्याय इति कात्यायनोऽब्रवीत् ॥४७॥
हिरण्यं द्विगुणीभूते पूर्णे काले धृतावधौ ।
बन्धकस्य धनी स्वामी द्विसप्ताहं प्रतीक्ष्य तु ॥४८॥
तदन्तरा धनं दत्त्वा ऋणी बन्धं अवाप्नुयात् ।
पूर्णे विधौ सान्तलाभे बन्धस्वामी ततो भवेत् ।
अनिर्गते दशाहे तु ऋणी मोक्षितुं अर्हति ॥४९॥
गोप्याधिर्द्विगुणादूर्ध्वं कृतकालो यथाविधि ।
श्रावयित्वा ऋणिकुले भोक्तव्यः समनन्तरम् ॥५०॥
हिरण्ये द्विगुणीभूते नष्टे चैवाधमर्णके ।
द्रव्यं तदीयं संगृह्य विक्रीणीत ससाक्षिकम् ॥५१॥
रक्षेद्वा कृतमूल्यं तु दशाहं जनसंसदि ।
ऋणानुरूपां परतो गृहीत्वान्यं तु वर्जयेत् ॥५२॥
न भुङ्क्ते यः स्वं आधानं नादद्यान्न निवेदयेत् ।
प्रमीतसाक्षी ऋणिकः तस्य लेख्यं अपार्थकम् ॥५३॥
गृहवार्यापणं धान्यं पशुस्त्रीवाहनानि च ।
उपेक्षया विनश्यन्ति यान्ति चासारतां तथा ॥५४॥
स्वधनं च स्थिरीकृत्य गणनाकुशलैर्नृभिः ।
तद्बन्धुज्ञातिविदितं प्रगृह्णन्नापराध्नुयात् ॥५५॥
विवादोऽष्टादशोपेतः पूर्वोत्तरविशेषितः ।
व्याख्यातस्त्वधुना सम्यक् क्रियाभेदान्निबोधत ॥५६॥
पूर्वं कृता क्रिया या तु पालनीया तथैव सा ।
अन्यथा क्रियते यत्र क्रियाभेदस्तदा भवेत् ॥५७॥
विहाय करणं पूर्वं धनिको वाधमर्णिकः ।
कुर्यान्न्यूनाधिकं तुल्यं क्रियाभेदः स उच्यते ॥५८॥
द्विकेनार्थं समादाय प्रपन्नः पञ्चकं तु यः ।
लाभं तत्र प्रमाणं स्यात्पश्चिमं यद्धि निश्चितम् ॥५९॥
अस्वामिना कृतो यस्तु दायो विक्रय एव वा ।
अकृतः स तु विज्ञेयो व्यवहारे यथास्थितिः ॥६०॥
उत्तरोत्तरबन्धेन प्राग्बन्धः शिथिलो भवेत् ।
यः पश्चिमः क्रियाकारः स पूर्वाद्बलवत्तरः ॥६१॥
न्यासं कृत्वा परत्राधिं कृत्वा वाधिं करोति यः ।
विक्रयं वा क्रिया तत्र पश्चिमा बलवत्तरा ॥६२॥
कृतं चेदेकदिवसे विक्रयाधिप्रतिग्रहम् ।
त्रयाणां अपि संदिग्धे कथं तत्र विचारणा ॥६३॥
त्रीण्येवात्र प्रमाणानि विभजेयुर्यथांशतः ।
उभौ चार्थानुसारेण त्रिभागेन प्रतिग्रही ॥६४॥
सामकं कर्षितं तत्स्यात्तदा न धनभाग्धनी ।
ऋणी च न लभेद्बन्धं परस्परमतं विना ॥६५॥
धनं मूलीकृतं दत्त्वा यदाधिं प्रार्थयेदृणी ।
तदैव तस्य मोक्तव्यस्त्वन्यथा दोषभाग्धनी ॥६६॥
क्षेत्रादिकं यदा भुक्तं उत्पन्नं अधिकं ततः ।
मूलोदयं प्रविष्टं चेत्तदाधिं प्राप्नुयादृणी ॥६७॥
प्रयोजकेऽसति धनं मूले न्यस्याधिं आप्नुयात् ।
परिभाष्य यदा क्षेत्रं दद्यात्तु धनिने ऋणी ।
तदा तच्छान्तलाभेऽर्थे मोक्तव्यं इति निश्चयः ॥६८॥
आधिस्तु सोदये द्रव्ये प्रदातव्यं त्वया मम ।
कुसीदाधिविधिस्त्वेष धर्म्यः संपरिकीर्तितः ॥६९॥
यत्राधिकं गृहक्षेत्रं भोगेन प्रकर्षान्वितम् ।
तत्र र्णी चाप्नुयाद्बन्धं धनी चैव ऋणं तथा ॥७०॥
पूर्णे प्रकर्षे तत्साम्यं उभयोः परिकीर्तितम् ।
अपूर्णे तु प्रकुर्यातां प्रस्परमतेन तौ ॥७१॥
यदि प्रकर्षितं तत्स्यात्तदा न धनभाग्धनी ।
ऋणी न लभते बन्धं परस्परमतं विना ॥७२॥

७. प्रतिभूः
दर्शने प्रत्यये दाने ऋणिद्रव्यार्पणे तथा ।
चतुष्प्रकारः प्रतिभूः शास्त्रे दृष्टो मनीषिभिः ॥७३॥
आहैको दर्शयामीति साधुरेषोऽपरोऽब्रवीत् ।
दाताहं एतद्द्रविणं अर्पताम्यपरो वदेत् ॥७४॥
दर्शनप्रतिभूर्यस्तु देशे काले च दर्शयेत् ।
निबन्धं वावहेत्तत्र दैवराजकृतादृते ॥७५॥
नष्टस्यान्वेषणे कालं दद्यात्प्रतिभुवे धनी ।
देशाध्वरूपतः पक्षं मासं सार्धं अथापि वा ॥७६॥
यो यस्य प्रतिभूस्तिष्ठेद्दर्शनायेह मानवः ।
अदर्शयं स तं तस्मै प्रयच्छेत्स्वधनादृणम् ॥७७॥
आद्यौ तु वितथे दाप्यौ तत्कालावेदितं धनम् ।
उत्तरौ तु विसंवादे तौ विना तत्सुतौ तथा ॥७८॥
स्वामीरिपुनिरुद्धाधिकृतदण्डितसंशयाः ।
रिक्थिमात्रमित्रअन्तावसायिअन्तेवासिराजवृत्तवीतराग
व्रतिदरिद्रबालवृद्धस्त्रीरुग्णा न प्रतिभुवः ॥७९॥
उपस्थाप्यविपत्तौ उपस्थाप्यस्य पुनः प्रतिभूः दाप्यः ॥८०॥

पुत्रेणापि समं देयं ऋणं सर्वं तु पैतृकम् ॥८१॥
प्रतिभाव्यं तु यो दद्यात्पीडितः प्रतिभावितः ।
त्रिपक्षात्परतः सोऽर्थं द्विगुणं लब्धुं अर्हति ॥८२॥
साधुत्वाच्चेन्मन्दधिय ऋणं दद्युरभाविताः ।
यदर्थं दापितास्तस्मान्न लभेरन्कथञ् चन ॥८३॥
नात्यन्तं पीडनीयाः स्युरृणं दाप्याः शनैः शनैः ।
स्वसाक्ष्येणए न नियोज्याः स्युर्विधिः प्रतिभुवां अयम् ॥८४॥
नष्टे मृते वा ऋणिके धनी पत्रं प्रदर्शयेत् ।
तत्कालावधिसंयुक्तं स्थानलेख्यं च कारयेत् ॥८५॥
प्रतिभुवा तु यद्दत्तं अपृष्टं ऋणिके धनम् ।
द्विगुणं न प्रतिभुवे प्रदेयं ऋणिकेन तु ॥८६॥
धर्मोपधिबलात्कारैर्गृहसंरोधनेन च ।
प्रतिपन्नं ऋणं दाप्यः सामादिभिरुपक्रमैः ।
धर्मोपधिबलात्कारैर्गृहसंरोधनेन च ॥८७॥
सुहृत्संबन्धिसंदिष्टैः सामोक्त्यानुगमेन च ।
प्रायेण धनिने दाप्यो धर्म एष उदाहृतः ॥८८॥
ब्राह्मणस्तु परिक्षीणः शनैर्दाप्यो यथोदयम् ॥८९॥
छद्मना याचितं चार्थं आनीय ऋणिकाद्धनी ।
अन्वाहितादि वाहृत्य दाप्यते यत्र सोपधिः ॥९०॥
यदा स्वगृहं आनीय ताडनाद्यैरुपक्रमैः ।
ऋणिको दाप्यते यत्र बलात्कारः स कीर्तितः ॥९१॥
कर्मणापि समं कुर्याद्धनिकं वाधमर्णिकः ।
समोऽपकृष्टजातिश्च दद्याच्छेयांस्तु तच्छनैः ॥९२॥
हीनजातिं परिक्षीणं ऋणार्थे कर्म कारयेत् ।
ब्राह्मणस्तु परिक्षीणः शनैर्दाप्यो यथोदयम् ॥९३॥
दारपुत्रपशून्बध्वा कृत्वा द्वारोपवेशनम् ।
यत्रर्णी दाप्यतेऽर्थं स्वं तदाचरितं उच्यते ॥९४॥
प्रतिपन्नस्य धर्मोऽयं व्यपलापी तु संसदि ।
लेख्येन साक्षिभिर्वापि भावयित्वा प्रदाप्यते ॥९५॥
प्रदातव्यं यद्भवति न्यायतस्तद्ददाम्यहम् ।
एवं यत्रर्णिको ब्रूते क्रियावादी स उच्यते ॥९६॥
न रोद्धव्यः क्रियावादी संदिग्धेऽर्थे कथञ् चन ।
आसेधयंस्त्वनासेध्यं दण्ड्यो भवति धर्मतः ॥९७॥
रूपसंख्यादिलाभेषु यत्र भ्रान्तिर्द्वयोर्भवेत् ।
देयानादेययोर्वापि संदिग्धोऽर्थः स कीर्तितः ॥९८॥
पूर्णावधौ शान्तलाभे ऋणां उद्ग्राहयेद्धनी ।
धारयेद्वा ऋणी लेख्यं चक्रवृद्धिव्यवस्थया ॥९९॥
द्विगुणस्योपरि यदा चक्रवृद्धिः प्रगृह्यते ।
भोगलाभस्तदा तत्र मूलं स्यात्सोदयं नृणाम् ॥१००॥
अनावेद्य तु राज्ञे यः संदिग्धेऽर्थे प्रवर्तते ।
प्रसह्य स विनेयः स्यात्स चाप्यर्थो न सिध्यति ॥१०१॥
परहस्ताद्गृहीतं यत्कुषीदविधिना ऋणम् ।
येन यत्र यथा देयं अदेयं चोच्यतेऽधुना ॥१०२॥
याचमानाय दातव्यं अल्पकालं ऋणं कृतम् ।
पूर्णेऽवधौ शान्तलाभं अभावे च पितुः सुतैः ॥१०३॥
तपस्वी चाग्निहोत्री च ऋणवान्म्रियते यदि ।
तपस्या चाग्निहोत्रं च सर्वं तद्धनिनो भवेत् ॥१०४॥
निर्धनं ऋणिनं कर्म गृहमानीय कारयेत् ।
शौण्डिकाद्यं ब्राह्मणस्तु दापनीयः शनैः शनैः ॥१०५॥
धनस्त्रीहारिपुत्राणां पूर्वीभावे यथोत्तरं आधमर्ण्यम् ॥१०६॥
तदभावे क्रमशोऽन्येषां रिक्थभाजाम् ॥१०७॥

८. देयानि ऋणानि
ऋणं धर्मादितो ग्राह्यं यस्तूपरि न लेखयेत् ।
न चैवोपगतं दद्यात्तस्य तद्वृद्धिं आप्नुयात् ॥१०८॥
व्याधितोन्मत्तवृद्धानां तथा दीर्घप्रवासिनाम् ।
ऋणं एवंविधं पुत्रान्जीवतां अपि दापयेत् ॥१०९॥
सांनिध्येऽपि पितुः पुत्रैरृणं देयं विभावितम् ।
जात्यन्धपतितोन्मत्त क्षयश्वित्रादिरोगिणः ॥११०॥
एकच्छायाप्रविष्टानां दाप्यो यस्तत्र दृश्यते ।
प्रोषितस्य सुतः सर्वं पित्र्यं अंशं मृतस्य तु ॥१११॥
एकच्छायाकृतं सर्वं दद्यात्तु प्रेषिते सुतः ।
मृते पितरि पितृअंशं परर्णं न कदाचन ॥११२॥
पित्र्यं एवाग्रतो देयं पश्चादात्मीयं एव च ।
तयोः पैतामहं पूर्वं देयं एवं ऋणं सदा ॥११३॥
ऋणं आत्मीयवत्पित्र्यं पुत्रैर्देयं विभावितम् ।
पैतामहं समं देयं अदेयं तत्सुतस्य तु ॥११४॥
कुटुम्बार्थेऽध्यधीनोऽपि व्यवहारं समाचरेत् ।
स्वदेशे वा विदेशे वा तं विद्वान्न विचालयेत् ॥११५॥
अतः पुत्रेन जातेन स्वार्थं उत्सृज्य यत्नतः ।
ऋणात्पिता मोचनीयो यथा न नरकं व्रजेत् ॥११६॥
पितर्युपरते पुत्रा ऋणं दद्युर्यथांशतः ।
विभक्ता अविभक्ता वा यो वा तां उद्वहेद्धुरम् ॥११७॥
सौराक्षिकं वृथा दानं कामक्रोधप्रतिश्रुतम् ।
प्रातिभाव्यं दण्डशुल्क शेषं पुत्रं न दापयेत् ॥११८॥
शौण्डिकव्याधरजक गोपनापितनाविकयोषिताम् ।
अधिष्ठाता ऋणं दाप्यस्तासां भर्तृक्रियासु तत् ॥११९॥
ऋणभाग्द्रव्यहारी च यदि सोपद्रवः सुतः ।
स्त्रीहारी तु तथैव स्यादभावे धनहारिणः ॥१२०॥
पितृव्य भ्रातृपुत्रस्त्री दासशिष्यानुजीविभिः ।
यद्गृहीतं कुटुम्बार्थे तद्गृही दातुं अर्हति ॥१२१॥
यः स्वामिना नियुक्तस्तु धनायव्ययपालने ।
कुसीदकृषिवाणिज्ये निसृष्टार्थस्तु स स्मृतः ॥१२२॥
उज्जामादिकं आदाय स्वामिने न ददाति यः ।
स तस्य दासः पुत्रः स्त्री पशुवी जायते गृहे ॥१२३॥
ऋणं पुत्रकृतं पित्रा शोध्यं यदनुमोदितम् ।
सुतस्नेहेन वा दद्यान्नान्यथा दातुं अर्हति ॥१२४॥
.... .... ऋणी बन्धं अवाप्नुयात् ।
फलभोग्यं पूर्णकालं दत्त्वा द्रव्यं तु सामकम् ॥१२५॥
यदि प्रकर्षितं तत्स्यात्तदा न धनभाग्धनी ।
ऋणी च न लभेत्बन्धं परस्परमतं विना ॥१२६॥
अधमर्णोऽर्थसिध्यर्थं उत्तमर्णेन वादितः ।
दापयेद्धनिकस्यार्थं अधमर्णविभावितम् ॥१२७॥
अर्थेऽपव्ययमानं तु करणेन विभावितम् ।
दापयेद्धनिकस्यार्थं दण्डकेशं च शक्तितः ॥१२८॥
यो यावन्निह्नुवीतार्थं मिथ्या यावति वादयेत् ।
तौ नृपेण ह्यधर्मज्ञौ दाप्यौ तद्द्विगुणं दमम् ॥१२९॥
धर्म्यादिनोद्ग्राह्य धनं यस्तूपरि न लेखयेत् ।
न चैवोपगतं दद्यात्तस्य तद्वृद्धिं आप्नुयात् ॥१३०॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:55:23.2570000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

तीन, क्षेत्रांतील दृश्यें

  • होळी, 
  • पोळी, 
  • टाळी. 
RANDOM WORD

Did you know?

कापूर जाळण्यामागची संकल्पना काय? कांही फायदे आहेत काय?
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.