TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

बृहस्पतिस्मृतिः - भुक्तिः

स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग.


भुक्तिः
धनमूलाः क्रियाः सर्वा यत्नास्तत्साधने मताः ।
वर्धनं रक्षणं भोग इति तस्य विधिक्रमः ॥१॥

१ धनप्रभेदाः
तत्पुनस्त्रिविधं ज्ञेयं शुक्लं शबलं एव च ।
कृष्णं च तत्र विज्ञेयः प्रभेदः सप्तधा पुनः ॥२॥
श्रुतशौर्यतपः कन्या शिष्ययाज्यान्वयागतम् ।
धनं सप्तविधं शुल्कं उभयो ह्यस्य तद्विधः ॥३॥
कुसीदकृषिवाणिज्य शुल्कशिल्पानुवृत्तिभिः ।
कृतोपकारादाप्तं च शबलं समुदाहृतम् ॥४॥
पाशकद्यूतदूतार्थ प्रतिरूपकसाहसैः ।
व्याजेनोपार्जितं यच्च तत्कृष्णं समुदाहृतम् ॥५॥
तेन क्रयो विक्रयश्च दानं ग्रहणं एव च ।
विविधाश्च प्रयुज्यन्ते क्रियासंभोगं एव च ॥६॥
यथाविधेन द्रव्येण यत्किञ् चित्कुरुते नरः ।
तथाविधं अवाप्नोति तत्फलं प्रेत्य चेह च ॥७॥
तत्पुनर्द्वादशविधं प्रतिवर्णाश्रयं स्मृतम् ।
साधारणं स्यात्त्रिविधं शेषं नवविधं स्मृतम् ॥८॥
क्रमागतं प्रीतिदायं प्राप्तं च सह भार्यया ।
अविशेषेण सर्वेषां वर्णानां त्रिविधं स्मृतम् ॥९॥
वैशेषिकं धनं ज्ञेयं ब्राह्मणस्य त्रिलक्षणं पृष्ठ ७१ ।
प्रतिग्रहणलब्धं यद्याज्यं तच्छिष्यतस्तथा ॥१०॥
त्रिविधं क्षत्रियस्यापि प्राहुर्वैशेषिकं धनम् ।
युद्धोपलब्धं करतो दण्डाच्च व्यवहारतः ॥११॥
वैशेषिकं धनं ज्ञेयं वैश्यस्यापि त्रिलक्षणम् ।
कृषिगोरक्षवाणिज्यं शूद्रस्यैषां अनुग्रहात् ॥१२॥
सर्वेषां एव वर्णानां एवं धर्म्यो धनागमः ।
विपर्ययादधर्मः स्यान्न चेदापद्गरीयसी ॥१३॥
आपत्स्वनन्तरावृत्तिर्ब्राह्मणस्य विधीयते ।
वैश्यवृत्तिश्च तस्योक्ता न जघन्या कथं चन ॥१४॥
कथं चन न कुर्वीत ब्राह्मणः कर्म वार्षलम् ।
वृषलः कर्म न ब्राह्मं पतनीये हि ते तयोः ॥१५॥
उत्कृष्टं चापकृष्टं तयोः कर्म न विद्यते ।
मध्यमे कर्मणी हित्वा सर्वसाधारणी हि ते ॥१६॥
आपदं ब्राह्मणस्तीर्त्वा क्षत्रवृत्त्या भृते जने ।
उत्सृजेत्क्षेत्रवृत्तिं तां कृत्वा पावनं आत्मनः ॥१७॥
तस्यां एव तु यो भुक्तौ ब्राह्मणो रमते रसात् ।
काण्डपृष्ठश्च्युतो मार्गादङ्कितोऽयं प्रकीर्तितः ॥१८॥
स्वकुलं पृष्ठतः कृत्वा यो वै परकुलं व्रजेत् ।
तेन दुश्चरितेनासौ काण्डपृष्ठ इति स्मृतः ॥१९॥
दिवाकृते कार्यविधौ ग्रामेषु नगरेषु च ।
संभवे साक्षिणां चैव न दिव्या भवति क्रिया ॥२०॥
द्वारमार्गक्रियाभोग जलवाहादिके तथा ।
भुक्तिरेव तु गुर्वो स्यान्न लेख्यं न च साक्षिणः ॥२१॥
एतद्विधानं आख्यातं साक्षिणां लिखितस्य च ।
संप्रति स्थावरप्राप्तेर्भुक्तेश्च विधिरुच्यते ॥२२॥
विद्यया क्रयबन्धेन शौर्यभागान्वयागतम् ।
सपिण्डस्याप्रजस्यांशं स्थावरं स्पतधाप्यते ॥२३॥

२ भोगाः सप्तविधः
पित्र्ये लभ्दक्रयाधाने रिक्थशौर्यप्रवेदनात् ।
प्राप्ते सप्तविधे भोगः सागमः सिद्धिं आप्नुयात् ॥२४॥
क्रमागतः शासनिकः क्रयाधानसमन्वितः ।
एवंविधस्तु यो भोगः स तु सिद्धिं अवाप्नुयात् ॥२५॥
संविभागक्रयप्राप्तं पित्र्यं लब्धं च राजतः पृष्ठ ७३ ।
स्थावरं सिद्धिं आप्नोति भुक्त्वा हानिं उपेक्षया ॥२६॥
प्राप्तमात्रं येन भुक्तं स्वीकृत्यापरिपन्थितम् ।
तस्य तत्सिद्धिं आप्नोति हानिं चोपेक्षया यथा ॥२७॥
अध्यासनात्समारभ्य भुक्तिर्यस्याविघातिनी ।
त्रिंशद्वर्षाण्यविच्छिन्ना तस्य तां न विचालयेत् ॥२८॥
न स्त्रीणां उपभोगः स्याद्विना लेख्यं कथं चन ।
राजश्रोत्रियवित्ते च जडबालधनेन च ॥२९॥
भुक्त्या केवलया नैव भुक्तिः सिद्धिं अवाप्नुयात् ।
आगमेनापि शुद्धेन द्वाभ्यां सिध्यति नान्यथा ॥३०॥
बालश्रोत्रियवित्ते च प्राप्ते च पितृतः क्रमात् ।
नोपभोगे बलं कार्यं आहर्त्रा तत्सुतेन वा ॥३१॥
पशुस्त्रीपुरुषादीनां इति धर्मो व्यवस्थितः ।
यद्येकशासने ग्राम क्षेत्रारामाश्च लेखिताः ॥३२॥
एकदेशोपभोगेऽपि सर्वे भुक्ता भवन्ति ते ।
आगमोऽपि बलं नैव भुक्तिः स्तोकापि यत्र नो ॥३३॥
अनुमानाद्वरः साक्षी साक्षिभ्यो लिखितं गुरु ।
अव्याहता त्रिपुरुषी भुक्तिरेभ्यो गरीयसी ॥३४॥
अनुमानं वसत्यत्र साक्षी चामरणाद्भवेत् ।
अव्याहतं लेखभोगं प्रमाणं तु त्रिपौरुषम् ॥३५॥
पितापितामहो यस्य जीवेच्च प्रपितामहः ।
त्रिंशत्समा तु या भुक्ता भूमिरव्याहता परैः ॥३६॥
भुक्तिः सा पौरुषी ज्ञेया द्विगुणा च द्विपुरुषी ।
त्रिपूरुषी च त्रिगुणा परतः स्याच्चिरन्तना ॥३७॥
यत्राहर्ताभियुक्तः स्याल्लेख्यं साक्षी तदा गुरुः ।
तदभावे तु पुत्राणां भुक्तिरेका गरीयसी ॥३८॥
आहर्ता शोधयेद्भुक्तिं आगमं वापि संसदि पृष्ठ ७५ ।
तत्पुत्रो भुक्तिं एवैकां पौत्रादिस्तु न किंचन ॥३९॥
रिक्थभिर्वा परैर्द्रव्यं समक्षं यस्य दीयते ।
अन्यस्य भुञ्जतः पश्चान्न स तल्लब्धुं अर्हति ॥४०॥
पश्यन्नन्यस्य ददतः क्षितिं यो न निवारयेत् ।
सतापि लेख्येन भुवं न पुनर्तां अवाप्नुयात् ॥४१॥
ऋक्थिभिर्वापरैर्वापि दत्तं तेनैव तद्भृगुः ॥४२॥
भुक्तिस्त्रिपुरुषी सिध्येत्परेषां नात्र संशयः ।
अनिवृत्ते सपिण्डत्वे सकुल्यानां न सिध्यति ॥४३॥
अस्वामिना तु यद्भुक्तं गृहक्षेत्रापणादिकम् ।
सुहृद्बन्धुसकुल्यस्य न तद्भोगेन हीयते ॥४४॥
धर्मोऽक्षयः श्रोत्रियस्य अभयं राजपूरुषे ।
स्नेहः सुहृद्बान्धवेषु भुक्तं एतैर्न हीयते ॥४५॥
वैवाह्य श्रोत्रियैर्भुक्तं राज्ञामात्यैस्तथैव च ।
सुदीर्घेनापि कालेन तेषां सिध्यति तन्न तु ॥४६॥
अशक्तालसरोगार्त बालभीतप्रवासिनाम् ।
शासनारूढं अन्येन भुक्तं भुक्त्या न हीयते ॥४७॥
छिन्नभोगे गृहे क्षेत्रे संदिग्धं यत्र जायते ।
लेख्येन भोगविद्भिर्वा साक्षिभिः शुद्धिं आहरेत् ॥४८॥
नामघाटागमं संख्यां कालं दिग्भागं एव च ।
भोगच्छेदनिमित्तं च ये विदुस्तत्र साक्षिणः ॥४९॥
उत्पन्नाश्चात्यासन्ना ये ये च देशान्तरस्थिताः ।
मौलास्ते तु समुद्दिष्टाः प्रष्टव्याः कार्यनिर्णये ॥५०॥
अदुष्टास्ते तु यद्ब्रूयुः संदिग्धे समदृष्टयः ।
तत्प्रमाणं प्रकर्तव्यं एवं धर्मो न हीयते पृष्ठ ७७ ॥५१॥
स्थावरेषु तदाख्यातं लाभभोगप्रसाधनम् ।
प्रमाणहीनवादे तु निर्देश्या दैविकी क्रिया ॥५२॥
राजान्तरैस्त्रिभिर्भुक्तं प्रमाणेन विनापि यत् ।
ब्रह्मदेयं न हर्तव्यं राज्ञा तस्य कदा चन ॥५३॥
भुक्तिस्त्रैपुरुषी यत्र चतुर्थे संप्रवर्तिता ।
तद्भोगः स्थिरतां याति न पृच्छेदागमां क्व चित् ॥५४॥
अनिषिद्धेन यद्भुक्तं पुरुषैस्त्रिभिरेव तु ।
तत्र नैवागमः कार्यो भुक्तिस्तत्र गरीयसी ॥५५॥
स्थावरेषु विवादेषु भुक्तिस्त्रिपुरुषी च या ।
स्वतन्त्रैव हि सा ज्ञेया प्रमाणं साध्यनिर्णये ॥५६॥
यस्य त्रिपुरुषा भुक्तिः सम्यग्लेख्यसमन्विता ।
एवंविधा ब्रह्मदेया हर्तुं तस्य न शक्यते ॥५७॥
यस्य त्रिपुरुषा भुक्तिः पारंपर्यक्रमागता ।
न सा चालयितुं शक्या पूर्वकाच्छासनादृते ॥५८॥
त्रिपुरुषं भुज्यते येन समक्षं भूरवारिता ।
तस्य सा नापहर्तव्या क्षमालिङ्गं न चेद्वदेत् ॥५९॥
भुक्तिर्बलवती शास्त्रे ह्यविच्छिन्ना चिरन्तनी ।
विच्छिन्नापि हि स ज्ञेया या तु पूर्वं प्रसाधिता ॥६०॥
पित्रा भुक्तं तु यद्द्रव्यं भुक्त्याचारेण धर्मतः ।
तस्मिन्प्रेतेऽपि तत्प्राप्तं भुक्त्या प्राप्तं तु तस्य तत् ॥६१॥
त्रिभिरेव तु या भुक्ता पुरुषैर्भूर्यथाविधि ।
लेख्याभावे तु तां तत्र चतुर्थः समवाप्नुयात् ॥६२॥
सनाभिभिर्बान्धवैश्च भुक्तं यत्स्वजनैस्तथा ।
भोगात्तत्र न सिद्धिः स्याद्भोगं अन्येषु कल्पयेत् ॥६३॥
सागमो दीर्घकालश्च निच्छिद्रोपरवो धनम् ।
प्रत्यर्थिसंनिधानं च परिभोगोऽपि पञ्चधा ॥६४॥
चतुष्पाद्धनधान्यादि वर्षाद्धानिं अवाप्नुयात् ॥६५॥
भूमेरभुक्तिर्लेख्यस्य यथाकालं अदर्शनम् ।
साक्ष्यस्यास्मरणं चैव स्वार्थहानिकराणि तु ॥६६॥
तस्माद्यत्नेन कर्तव्यं प्रमाणपरिपालनम् ।
तेन कार्याणि सिध्यन्ति स्थावराणि चराणि च ॥६७॥
असाक्षिके चिरकृते पृच्छेदुत्तरसाक्षिणः ।
शपथैर्वानुयुञ्जीत उपधां वा प्रयोजयेत् ॥६८॥
देशनाप्रतिघातं च युक्तिलेशस्तथैव च ॥६९॥
चोरापहृतं तु सर्वेभ्योऽन्विष्य अर्पणीयम् ।
अलाभे स्वकोशाद्वा अददच्चोरकिल्बिषी स्यात् ॥७०॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:55:23.0830000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

Loss of revenue rights

  • महसुली अधिकार गमावणे 
  • महसुली अधिकारांची हानि 
RANDOM WORD

Did you know?

Gotra. Vats & vatsayan are same ?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.