बृहस्पतिस्मृतिः - दायभागः

स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग.


ददाति दीयते पित्रा पुत्रेभ्यः स्वस्य यद्धनम् ।
तद्दायं ..... .... .... ॥१॥
एकां स्त्रीं कारयेत्कर्म यथांशेन गृहे गृहे ।
बह्व्यः समांशतो देया दासानां अप्ययं विधिः ॥२॥
उद्धृत्य कूपवाप्यम्भस्त्वनुसारेण गृह्यते ।
तथा भागानुसारेण सेतुः क्षेत्रं विभज्यते ॥३॥
युक्त्या विभजनीयं तदन्यथानर्थकं भवेत् ॥४॥

१ विभक्तलक्षणम्
एकपाकेन वसतां पितृदेवद्विजार्चनम् ।
एकं भवेद्द्विभक्तानां तदेव स्याद्गृहे गृहे ॥५॥
साक्सित्वं प्रतिभाव्यं च दानं ग्रहणं एव च ।
विभक्ता भ्रातरः कुर्युः नाविभक्ताः परस्परम् ॥६॥
येषां एताः क्रिया लोके प्रवर्तन्ते स्वरिक्थिषु ।
विभक्तानवगच्छेयुः लेख्यं अप्यन्तरेण तान् ॥७॥
कुलानुबन्धव्याघात होधं साहससाधकम् ।
स्वस्वभोगस्थावरस्य विभागस्य पृथग्धनम् ॥८॥

२ विभागकालः
पित्रोरभावे भ्रातृणां विभागः संप्रदर्शितः ।
मातुर्निवृत्ते रजसि प्रत्तसु भगिनीषु च ॥९॥

३ विभागक्रमः
क्रमागते गृहक्षेत्रे पिता पुत्राः समांशिनः ।
पैतृके न विभागार्हाः सुताः पितुरनिच्छया ॥१०॥
समवर्णासु ये जाताः सर्वे पुत्रा द्विजन्मनाम् ।
उद्धारं ज्यायसे दत्त्वा भजेरन्नितरे समम् ॥११॥
वयोविद्यातपोभिश्च द्व्यंशं हि लभते धनम् ।
यथा यथा विभागाप्तं धनं यागार्थतां इयात् ।
तथा तथा विधातव्यं विद्वद्भिर्भागगौरवम् ॥१२॥
तत्पुत्रा विषमसमाः पितृभागहराः स्मृताः ॥१३॥
द्रव्ये पितामहोपात्ते स्थावरे जङ्गमेऽपि वा ।
समं अंशित्वं आख्यातं पितुः पुत्रस्य चैव हि ॥१४॥
समन्यूनाधिका भागाः पित्रा येषां प्रकल्पिताः ।
तथैव ते पालनीया विनेयास्ते स्युरन्यथा ॥१५॥
जीवद्विभागे तु पिता गृह्णीतांशद्वयं स्वकम् ॥१६॥
द्विप्रकारो विभागस्तु दायादानां प्रकीर्तितः ।
वयोज्येष्ठक्रमेणैकः समा परांशकल्पना ॥१७॥
समवेतैस्तु यत्प्राप्तं सर्वे तत्र समांशिनः ।
तत्पुत्रा विषमसमाः पितृभागहराः स्मृताः ॥१८॥
पितृरिक्थहराः पुत्राः सर्व एव समांशिनः ।
विद्याकर्मरतस्तेषां अधिकं लब्धुं अर्हति ॥१९॥
विद्याविज्ञानशौर्यार्थे ज्ञानदानक्रियासु च ।
यस्येह प्रथिता कीर्तितः पितरस्तेन पुत्रिणः ॥२०॥
जन्मविद्यागुणैर्ज्येष्ठो द्व्यंशं दायादवाप्नुयात् ।
समांशभागिनस्त्वन्ये तेषां पितृसमस्तु सः ॥२१॥
तदभावे तु जननी तनयांशसमांशिनी ।
समांशा मातरस्तेषां तुरीयांशा च कन्यका ॥२२॥
कन्यकानां त्वदत्तानां चतुर्थो भाग इष्यते ।
पुत्राणां च त्रयो भागाः साम्यं त्वल्पधने स्मृतम् ॥२३॥
यद्येकजाता बहवः समाना जातिसंख्यया ।
स्वधनैस्तैर्विभक्तव्यं मातृभागेन धर्मतः ॥२४॥
सवर्णा भिन्नसंख्या ये पुंभागस्तेषु शस्यते ।
पितामह्यस्तु सर्वास्ता मातृतुल्याः प्रकीर्तिताः ॥२५॥
असंस्कृतास्तु यास्तत्र पैतृकादेव ता धनात् ।
संस्कार्या भ्रातृभिर्ज्येष्ठः कन्यकाश्च यथाविधि ॥२६॥
असंस्कृता भ्रातरस्तु ये स्युस्तत्र यवीयसः ।
संस्कार्याः पूर्वजैस्ते वै पैतृकान्मध्यगाद्धनात् ॥२७॥
दद्याद्धनं च पर्याप्तं क्षेत्रांशं वा यदिच्छति ॥२८॥
ऊढया कन्यया वापि भर्तुः पितृगृहेऽपि वा ।
भ्रातुः सकाशात्पित्रोर्वा लब्धं सौदायिकं स्मृतम् ॥२९॥
सौदायिकं धनं प्राप्य स्त्रीणां स्वातन्त्रं इष्यते ।
यस्मात्तदानृशंस्यार्थं तैर्दत्तं उपजीवनम् ॥३०॥
विक्रये चैव दाने च यथेष्तं स्थावरेष्वपि ।
स्त्रीधनं स्यादपत्यानां दुहिता च तदंशिनी ।
अप्रत्ता चेत्समूढा तु लभते मानमात्रकम् ॥३१॥
मातुः स्वसा मातुलानी पितृव्यस्त्री पितृष्वसा ।
श्वश्रूः पूर्वजपत्नी च मातृतुल्याः प्रकीर्तिताः ॥३२॥
यदासां औरसो न स्यात्पुत्रो दौहित्र एव वा ।
तत्सुतो वा धनं तासां स्वस्त्रीयाद्याः समाप्नुयुः ॥३३॥

४ पुत्रलक्षणम्
सवर्णजोऽप्यगुणवान्नार्हः स्यात्पैतृके धने ।
तत्पिण्डदाः श्रोत्रिया ये तेषां तत्तु विधीयते ॥३४॥
उत्तमर्णाधमर्णेभ्यः पितरं त्रायते सुतः ।
अतस्तु विपरीतेन तेन नास्ति प्रयोजनम् ॥३५॥
तया गवा किं क्रियते या न दोग्ध्री न गर्भिणी ।
कोऽर्थः पुत्रेण जातेन यो न विद्वान्न धार्मिकः ॥३६॥
शास्त्रशौर्यार्थरहितस्तपोविज्ञानवर्जितः ।
आचारहीनः पुत्रस्तु मूत्रोच्चारसमः स्मृतः ॥३७॥

५ पुत्रविभागः
स्थावरद्विपदं चैव यद्यपि स्वयं आर्हितम् ।
असम्भूय सुतान्सर्वान्न दानं न च विक्रयः ॥३८॥
जाता जनिष्यद्गर्भस्थाः पितृस्था ये च मानवाः ।
सर्वे कांक्षन्ति तां वृत्तिं अनाच्छेद्यास्ततस्तु सा ॥३९॥
गृहोपस्करवाह्यादि भोज्याभरणकर्मिणः ।
दृश्यमाना विभज्यन्ते गूढे केशो विधीयते ॥४०॥
क्षत्रजास्त्रिद्व्येकभागा विड्जौ तु द्व्येकभागिनौ ॥४१॥
ब्रह्मक्सत्रियविष्शूद्रा विप्रोत्पन्नास्त्वनुक्रमात् ।
चतुस्त्रिद्व्येकभागेन भवेयुस्ते यथाक्रमम् ॥४२॥
शूद्र्यां द्विजातिभिर्जातो न भूमेर्भागं अर्हति ।
द्विजातिराप्नुयात्सर्वं इति धर्मो व्यवस्थितः ॥४३॥
तेषां सवर्णा ये पुत्रास्ते तृतीयांशभागिनः ।
हीनास्तं उपजीवेयुर्ग्रासाच्छादनसंभृताः ॥४४॥
सर्वे ह्यनौरसस्यैते पुत्रा दायहराः स्मृताः ।
औरसे पुनरुत्पन्ने तेषु ज्यैष्ठ्यं न तिष्ठति ॥४५॥
पितामहपितृभ्यां च दत्तं मात्रा च यद्भवेत् ।
तस्य तन्नापहर्तव्यं शौर्यभार्याधनं तथा ॥४६॥
वस्त्रादयोऽविभाज्या यैरुक्तं तैर्न विचारितम् ।
धनं भवेत्समृद्धानां वस्त्रालंकारसंश्रितम् ॥४७॥
ऋणं उद्वाह्य लेखितं .... .... ॥४८॥
उक्तप्रकारो विज्ञेयः पत्रारूढऋणे खलु ।
उक्त्या विभजनीयं तदन्यथानर्थकं भवेत् ॥४९॥
मध्यस्थितं अनाजीव्यं दातुं नैकस्य शक्यते ।
युक्त्या विभजनीयं तदन्यथानर्थकं भवेत् ॥५०॥
विक्रीय वस्त्राभरणं धनं उद्ग्राह्य लेखितम् ।
कृतान्नं चाकृतान्नेन परिवर्त्य विभज्यते ॥५१॥
योगक्षेमवतो लाभः समत्वेन विभज्यते ।
प्रचारश्च यथांशेन कर्तव्यो रिक्थिभिः सदा ॥५२॥
ब्रह्मदायं गतां भूमिं हरेद्यो ब्राह्मणीसुतः ।
गृहं द्विजातयः सर्वे तथा क्षेत्रं क्रमागतम् ॥५३॥

६ पित्रा सह विभक्तानां व्यवस्था
पित्रा सह विभक्ता ये सापत्ना वा सहोदराः ।
जघन्याश्चैव ये तेषां पितृभागहरास्तु ते ॥५४॥
अनीशः पूर्वजः पित्र्ये भ्रातृभागे विभक्तजः ॥५५॥
पुत्रैः सह विभक्तेन पित्रा यत्स्वयं आर्जितम् ।
विभक्तजस्य तत्सर्वं अनीशाः पूर्वजाः स्मृताः ॥५६॥
यथा धने तथा र्णे च दानादानक्रयेषु च ।
परस्परं अनीशास्ते मुक्त्वाशौचोदकक्रियाम् ॥५७॥
पैतामहं हृतं पित्रा स्वशक्त्या यदुपार्जितम् ।
विद्याशौर्यादिनावाप्तं तत्र स्वाम्यं पितुः स्मृतम् ॥५८॥
प्रदानं स्वेच्छया कुर्यात्भोगं चैव ततो धनात् ।
तदभावेऽपि तनयाः समांशाः परिकीर्तिताः ॥५९॥
वस्त्रालंकारशय्याइ पितुर्यद्वाहनादिकम् ।
गन्धमाल्यैः समभ्यर्च्य श्राद्धभोक्त्रे तदर्पयेत् ॥६०॥
पत्यौ जीवति यः स्त्रीभिरलंकारो धृतो भवेत् ।
न तं भजेरन्दायादाः भजमानाः पतन्ति ते ॥६१॥
पितृप्रसादात्भुज्यन्ते वस्त्राण्याभरणानि च ॥६२॥
कृतेऽकृते वा विभागे रिक्थी यत्र प्रवर्तते ।
सामान्यं चेद्भावयति तत्र भागहरस्तु सः ॥६३॥
ऋणं लेख्यं गृहं क्षेत्रं यस्य पैतामहं भवेत् ।
चिरकालप्रोषितोऽपि भागभागागतस्तु सः ॥६४॥
गोत्रसाधारणं त्यक्त्वा योऽन्यं देशं समाश्रितः ।
अर्धतस्त्वागतस्यांशः प्रदातव्यो न संशयः ॥६५॥
तृतीयः पञ्चमश्चैव सप्तमो योऽपि वा भवेत् ।
जन्मनां अपरिज्ञाने लभेतांशं क्रमागते ॥६६॥
यं परंपरया मौलाः समस्ताः स्वामिनं विदुः ।
तदन्वयस्यागतस्य दातव्या गोत्रजैर्मही ॥६७॥
अविभक्तविभक्तानां कुल्यानां वसतां सह ।
भूयो दायविभागः स्यादाचतुर्थादिति स्थितिः ॥६८॥

७ पुत्रभेदाः
अनेकधा कृताः पुत्रा ऋषिभिश्च पुरातनैः ।
न शक्यन्तेऽधुना कर्तुं शक्तिहीनैश्चिरन्तनैः ॥६९॥
एक एवौरसः पित्र्ये धने स्वामी प्रकीर्तितः ।
तत्तुल्यः पुत्रिकपुत्रो भर्तव्यास्त्वपरे स्मृताः ॥७०॥
क्षेत्रजाद्याः सुतास्त्वन्ये पञ्चषट्सप्तभागिनः ॥७१॥
दत्तोऽपविद्धः क्रीतश्च कृतः शौद्रस्तथैव च ।
जातिशुद्धा मध्यमास्ते सर्वे रिक्थसुताः स्मृताः ॥७२॥
क्षेत्रजो गर्हितः सद्भिस्तथा पौनर्भवः सुतः ।
कानीनश्च सहोढश्च गूढजः पुत्रिकासुतः ॥७३॥
शूद्रापुत्रः स्वयंदत्तो ये चैते क्रीतकाः स्मृताः ।
सर्वे ते मैत्रिणः प्रोक्ता काण्डपृष्ठा न संशयः ॥७४॥
स्वकुलं पृष्ठतः कृत्वा यो वै परकुलं व्रजेत् ।
तेन दुश्चरितेनासौ काण्डपृष्ठो न संशयः ॥७५॥
अग्निं प्रजापतिं चेष्ट्वा क्रियते गौतमोऽवदत् ।
अन्ये त्वाहुरपुत्रस्य चिन्तिता पुत्रिका भवेत् ॥७६॥
पुत्रास्त्रयोदश प्रोक्ता मनुना येन पूर्वशः ।
संतानकारणं तेषां औरसः पुत्रिका तथा ॥७७॥
आज्यं विना यथा तैलं सद्भिः प्रतिनिधिः स्मृतम् ।
तथैकादश पुत्रास्तु पुत्रिकौरसयोर्विना ॥७८॥
यद्येकजाता बहवो भ्रातरस्तु सहोदराः ।
एकस्यापि सुते जाते सर्वे ते पुत्रिणः स्मृताः ॥७९॥
बह्वीनां एकपत्नीनां एष एव विधिः स्मृतः ।
एका चेत्पुत्रिणी तासां सर्वासां पिण्डदस्तु सः ॥८०॥
पुन्नाम्नो नरकात्पुत्रः पितरं त्रायते यतः ।
मुखसंदर्शनेनापि तदुत्पत्तौ यतेत सः ॥८१॥
पौत्रोऽथ पुत्रिकापुत्रः स्वर्गप्राप्तिकरावुभौ ।
रिक्थे च पिण्डदाने च समौ तौ परिकीर्तितौ ॥८२॥
कामतश्च शूद्रावरोधजस्य भ्रातुरंशम् ।
संमानमात्रं प्रेते पितरि दद्युः शुश्रूषुश्चेत्(?) ॥८३॥
अन्नार्थं तण्डुलप्रस्थं अपराह्ने तु सेन्धनम् ।
वसनं त्रिपणक्रीतं देयं एकं त्रिमासतः ॥८४॥

८ विधवाभागः
एतावदेव साध्वीनां चोदितं विधवाधनम् ॥८५॥
वसनस्याशनस्यैव तथैव रजकस्य च ।
धनं व्यपोह्य तच्छिष्टं दायादानां प्रकल्पयेत् ॥८६॥
अपुत्रस्याथ कुलजा पत्नी दुहितरोऽपि वा ।
तदभावे पिता माता भ्राता पुत्राश्च कीर्तिताः ॥८७॥
अपुत्रेण सुतः कार्यो यादृक्तादृक्प्रयत्नतः ।
पिण्डोदकक्रियाहेतोर्धर्मसंकीर्तनस्य च ॥८८॥
काङ्क्षण्ति पितरः पुत्रान्नरकापतभीरवः ।
गयां यास्यति यः कश्चित्सोऽस्मान्संतारयिष्यति ॥८९॥
यथा जलं कुप्लवेन तरन्मज्जति मानवः ।
तद्वत्पिता कुपुत्रेण तमस्यन्धे निमज्जति ॥९०॥
करिष्यति वृषोत्सर्गं इष्टापूर्तं तथैव च ।
पालयिष्यति वार्धक्ये श्राद्धं दास्यति चान्वहम् ॥९१॥

९ भार्याभागः
आम्नाये स्मृतितन्त्रे च लोकाचारे च सूरिभिः ।
शरीरार्धं स्मृता भार्या पुण्यापुण्यफले समा ॥९२॥
यस्य नोपरता भार्या देहार्धं तस्य जीवति ।
जीवत्यर्धशरीरेऽर्थं कथं अन्यः समाप्नुयात् ॥९३॥
सकुल्यैर्विद्यमानस्तु पितृभ्रातृसनाभिभिः ।
असुतस्य प्रमीतस्य पत्नी तद्भागहारिणी ॥९४॥
पूर्वप्रमीताग्निहोत्रं मृतं भर्तरि तद्धनम् ।
विन्देत्पतिव्रता नारी धर्म एष सनातनः ॥९५॥
मूर्वं म्र्ता हरेदग्निं अन्वारूढा हरेदघम् ।
पुत्राभावे तु पत्नी स्यात्पत्न्यभावे तु सोदरः ।
तदभावे तु दायादः पश्चाद्दौहित्रकं धनम् ॥९६॥
जङ्गमं स्थावरं हेम रूप्यधान्यरसाम्बरम् ।
आदाय दापयेच्छ्राद्धं मासषाण्मासिकादिकम् ॥९७॥
पितृव्यगुरुदौहित्रान्स्वसृभर्त्रीयं आतुलान् ।
पूजयेत्कव्यपूर्ताभ्यां वृद्धानाथातिथीन्स्त्रियः ॥९८॥
यद्विभक्ते धने किंचिदाध्यादिविधिसंस्मृतम् ।
तज्जाया स्थावरं मुक्त्वा लभेत गतभर्तृका ॥९९॥
वृत्तस्थापि कृतेऽप्यंशे न स्त्री स्थावरं अर्हति ।
विधवा यौवनस्था चेन्नारी भवति कर्कशा ।
आयुषः क्षपणार्थं तु दातव्यं जीवनं तदा ॥१००॥
मृते भर्तरि भर्तृअंशं लभेत कुलपालिका ।
यावज्जीवं हीनस्वाम्यं दानाधमनविक्रये ॥१०१॥
क्रयक्रीता तु या नारी संभोगार्थं सुतार्थिना ।
गृहीता वान्यदीया वा सैव स्त्री परिकीर्त्यते ॥१०२॥
प्रदद्यात्त्वेव पिण्डं वा क्षेत्रांशं वा यदृच्छया ॥१०३॥
स्थावराज्जीवनं स्त्रीभ्यो यद्दत्तं श्वशुरेण तु ।
न तच्छक्यं अपाहर्तुं इतरैः श्वशुरे म्र्ते ॥१०४॥
सपिण्डा बान्धवा ये तु तस्याः स्युः परिपन्थिनः ।
हिंस्युर्धनानि तान्राजा चौरदण्डेण घातयेत् ॥१०५॥

१० संसृष्टिविभागः
संसृष्टौ यौ पुनः प्रीत्या तौ परस्परभागिनौ ।
विभक्ता भ्रातरो ये तु संप्रीत्यैकत्र संस्थिताः ।
पुनर्विभागकरणे तेषां ज्यैष्ठ्यं न विद्यते ॥१०६॥
कदाचिद्वा प्रमीयेत प्रव्रजेद्वा कथंचन ।
न लुप्यते तस्य भागः सोदरस्य विधीयते ॥१०७॥
या तस्य भगिनी सा तु ततोऽंशं लब्धुं अर्हति ।
अनपत्यस्य धर्मोऽयं अभार्यपितृकस्य च ॥१०८॥
सा च दत्ता त्वदत्ता वा सोदरे तु मृते सति ।
तस्यांशं तु हरेत्सैव द्वयोर्व्यक्तं हि कारणम् ॥१०९॥
अनन्तरः सपिण्डाद्यस्तस्य तस्य धनं भवेत् ॥११०॥
मृतोऽनपत्योऽभार्यश्चेदभ्रातृपितृमातृकः ।
सर्वे सपिण्डास्तद्दायं विभजेरन्यथांशतः ॥१११॥
संसृष्टानां तु यः कश्चिद्विद्या शौर्यादिना धनम् ।
प्राप्नोति तस्य दातव्यो द्व्यंशः शेषाः समांशिनः ॥११२॥
विभक्तो यः पुनः पित्रा भ्रात्रा चैकत्र संस्थितः ।
पितृव्येणाथवा प्रीत्या तत्संसृष्टः स उच्यते ॥११३॥
सोदर्या विभजेरंस्तं समेत्य सहिताः समम् ।
भ्रातरो ये च संसृष्टा भगिन्यश्च सनाभयः ॥११४॥
येषां ज्येष्ठः कनिष्ठो वा हीयेतांशप्रदानतः ।
म्रियेतान्यतरो वापि तस्य भागो न लुप्यते ॥११५॥
.... .... सोदरस्य तु सोदरः ।
दद्याच्चापहरेच्चांशं जातस्य च मृतस्य च ॥११६॥
अन्योदर्यस्तु संसृष्टी नान्योदर्याद्धनं हरेत् ।
असंसृष्ट्यपि चादद्यात्सोदर्यो नान्यमातृजः ॥११७॥
प्रमीतपितृकाणां तु पितृतो भागकल्पना ॥११८॥
येऽपुत्राः क्षत्रविट्शूद्राः पत्नीभ्रातृविवर्जिताः ।
तेषां धनहरो राजा सर्वस्याधिपतिर्हि सः ॥११९॥

११ पुत्राणां वर्णानुरूपेण विशेषः
विप्रेण क्षत्रियाजातो जन्मज्येष्ठो गुणान्वितः ।
भवेत्समांशः क्षत्रेण वैश्याजातस्तथैव च ॥१२०॥
न प्रतिग्रहभूर्देया क्षत्रियादिसुताय वै ।
यद्यप्येषां पिता दद्यान्मृते विप्रासुतो हरेत् ॥१२१॥
शूद्र्यां द्विजातिभिर्जातो न भूमेर्भागं अर्हति ।
सजातावाप्नुयात्सर्वं इति धर्मो व्यवस्थितः ॥१२२॥
निषाद एकपुत्रस्तु विप्रस्य स तृतीयभाक् ।
द्वौ सकुल्याः सपिण्डा वा स्वधादाताथ संहरेत् ॥१२३॥
कुल्याभावे स्वधादाता आचार्यः शिष्य एव वा ।
सर्वास्वापत्सु तान्वर्णांस्तथैव प्रतिपादयेत् ॥१२४॥
अनपत्यस्य शुश्रूषुर्गुणवाञ् शूद्रयोनिजः ।
लभेताजीवनं शेषं सपिण्डाः समवाप्नुयुः ॥१२५॥

१२ दुहितुः दायार्हत्वम्
भर्तुर्धनहरी पत्नी तां विना दुहिता स्मृता ॥१२६॥
अङ्गादङ्गात्संभवति पुत्रवद्दुहिता नृणाम् ।
तस्मात्पितृधनं त्वन्यः कथं गृह्णीत मानवः ॥१२७॥
तदभावे तु दुहिता यद्यनूढा भवेत्तदा ।
अपुत्रपौत्रसंताने दौहित्रा धनं आप्नुयुः ॥१२८॥
यथैवात्मा तथा पुत्रः पुत्रेण दुहिता समा ।
तस्यां आत्मनि तिष्ठन्ति कथं अन्यो धनं हरेत् ॥१२९॥
पौत्रदौहित्रयोर्लोके विशेषो नास्ति धर्मतः ।
अनेनैव विधानेन सुतं चक्रेऽथ पुत्रिकाम् ॥१३०॥
पुमान्पुंसोऽधिके शुक्ले स्त्री भवत्यधिके स्त्रियाः ॥१३१॥
सदृशी सदृशेनोढा साध्वी शुश्रूषणे रता ।
कृताकृता वा पुत्रस्य पितुर्धनहरी तु सा ॥१३२॥
यथा पितृधने स्वाम्यं तस्याः सत्स्वपि बन्धुषु ।
तथैव तत्सुतोऽपीष्टे मातृमातामहे धने ॥१३३॥
तदभावे भ्रातरस्तु भ्रातृपुत्राः सनाभयः ।
सकुल्या बान्धवाः शिष्याः श्रोत्रियाश्च धनार्हकाः ॥१३४॥

१३ अपुत्रस्य धनविभागः
अनपत्यस्य पुत्रस्य माता दायं अवाप्नुयात् ।
भार्यासुतविहीनस्य तनयस्य मृतस्य तु ।
माता रिक्थहरी ज्ञेया भ्राता वा तदनुज्ञया ॥१३५॥
पुत्राभावे तु पत्नी स्यात्पत्न्यभावे तु सोदरः ।
तदभावे तु दायादः पश्चाद्दौहित्रकं धनम् ॥१३६॥
समुत्पन्नाद्धनादर्धं तदर्थं स्थापयेत्प्र्थक् ।
मासषाण्मासिके श्राद्धे वार्षिके वा प्रयत्नतः ॥१३७॥
बहवो ज्ञातयो यत्र सकुल्या बान्धवास्तथा ।
यस्त्वासन्नतरस्तेषां सोऽनपत्यधनं हरेत् ॥१३८॥
भ्राता वा भ्रातृपुत्रो वा सपिण्डः शिष्य एव वा ।
सह पिण्डक्रियां कृत्वा कुर्यादभ्युदयं ततः ॥१३९॥
स्वेच्छाकृतविभागो यः पुनरेव विसंवदेत् ।
स राज्ञांशे स्वके स्थाप्यः शासनीयोऽनुबन्धकृत् ॥१४०॥
साधारणऋणन्यास निह्नवे छद्मना क्रियाम् ।
पार्श्वहानिकारीं कृत्वा बलान्नैव प्रदापयेत् ॥१४१॥
मायाविनो धृतधनाः क्रूरा लुब्धाश्च ये नराः ।
संप्रीत्या साधनीयास्ते स्वार्थहान्या छलेन वा ॥१४२॥
साहसं स्थावरस्वाम्यं प्राग्विभागश्च रिक्थिनाम् ।
अनुमानेन विज्ञेयं न स्युर्यत्र च साक्षिणः ॥१४३॥

१४ विभक्तक्रिया
तेषां एताः क्रिया लोके प्रवर्तन्ते स्वरिक्थिषु ।
विभक्तानवगच्छेयुर्लेख्यं अप्यन्तरेण तान् ॥१४४॥
अविभक्तैश्च कर्तव्या वैश्वदेवादिकाः क्रियाः ॥१४५॥
बलानुबन्धव्याघात होढं साहसभावकम् ।
स्वस्य भोगः स्थावरस्य विभागस्य पृथग्धनम् ॥१४६॥
पृथगायव्ययधनाः कुसीदं च परस्परम् ।
वणिक्पथं च ये कुर्युर्विभक्तास्ते न संशयः ॥१४७॥
कार्यं उच्छ्रावणालेख्यं विभक्तैर्भ्रातृभिर्मिथः ।
साक्षिणो वा विरोधार्थं विभजद्भिरनिन्दिताः ॥१४८॥
येनांशो यादृशो भुक्तस्तस्य तं न विचालयेत् ॥१४९॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP