TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

बृहस्पतिस्मृतिः - व्यवहारकाण्डम्

स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग.


व्यवहारकाण्डम्
धर्मप्रधानाः पुरुषाः पूर्वं आसन्नहिंसकाः ।
लोभद्वेषाभिभूतानां व्यवहारः प्रवर्तितः ॥१॥
प्रयच्छेच्चेद्भृतिं स्वामी भृत्यानां कर्म कुर्वताम् ।
न कुर्वन्ति च भृत्याश्चेत्तत्र वादः प्रवर्तते ॥२॥
हिंसां वा कुरुते कश्चिद्देयं वा न प्रयच्छति ।
द्वे हि स्थाने विवादस्य तयोर्बहुतरा गतिः ॥३॥
यतो द्रव्यं विनिक्रीय ऋणार्थं चैव गृह्यते ।
तन्मूल्यं उत्तमर्णेन व्यवहार इति स्मृतः ॥४॥

१ राजगुणाः
गुणधर्मानतो राज्ञः कथयाम्यनुपूर्वशः ।
धनिकर्णिकसंदिग्धौ प्रतिभूलेख्यसाक्षिणः ॥५॥
विचारयति यः सम्यक्तस्योत्पत्तिं निबोधत ।
सोमाग्न्यर्कानिलेन्द्राणां वित्तापत्त्योर्यमस्य च ॥६॥
तेजोमात्रं समुद्धृत्य राज्ञो मूर्तिर्हि निर्मिता ।
तस्य सवाणि भूतानि चराणि स्थावराणि च ॥७॥
भयाद्भोगाय कल्पन्ते स्वधर्मान्न चलन्ति च ।
नाराजके कृषिवणिक् कुसीदपरिपालनम् ॥८॥
तस्माद्वर्णाश्रमाणां तु नेतासौ निर्मितः पुरा ।

२ व्यवहारपदानि
द्विपदो व्यवहारः स्यात्धनहिंसासमुद्भवः ॥९॥
द्विसप्तकोऽर्थमूलस्तु हिंसामूलश्चतुर्विधः ।
पारुष्ये द्वे वधश्चैव परस्त्रीसंग्रहस्तथा ॥१०॥
कुसीदनिधिदेयाद्यं संभूयोत्थानं एव च ।
भृत्यदानं अशुश्रूषा भूवादोऽस्वामिविक्रियः ॥११॥
क्रयविक्रयानुशयः समयातिक्रमस्तथा ।
स्त्रीपुंसयोगः स्तेयं च दायभागोऽक्षदेवनम् ॥१२॥
एतान्यर्थसमुत्थानि पदानि तु चतुर्दश ।
पुनरेवं प्रभिन्नानि क्रियाभेदादनेकदहा ॥१३॥
पारुष्ये द्वे साहसं च परस्त्रीसंग्रहस्तथा ।
हिंसोद्भवपदान्येवं चत्वार्याह बृहस्पतिः ॥१४॥
हीनमध्योत्तमत्वेन प्रभिन्नानि पृथक्पृथक् ।
विशेष एषां निर्दिष्टश्चतुर्णां अप्य् अनुक्रमात् ॥१५॥
पदान्यष्टादशैतानि धर्मशास्त्रोदितानि तु ।
मूलं सर्वविवादानां ये विदुस्ते परीक्षकाः ॥१६॥
पूर्वपक्षः स्मृतः पादो द्वितीयस्तूत्तरस्तथा ।
क्रियापादस्तथा वाच्यश्चतुर्थो निर्णयस्तथा ॥१७॥

३ धर्मादिचतुष्टयबलाबलम्
धर्मेण व्यवहारेण चारित्रेण नृपाज्ञया ।
चतुष्प्रकारोऽभिहितः संदिग्धेऽर्थे विनिर्णयः ॥१८॥
शास्त्रं केवलं आश्रित्य क्रियते यत्र निर्णयः ।
व्यवहारः स विज्ञेयो धर्मस्तेनापि वर्धते ॥१९॥
देशस्थित्यानुमानेन नैगमानुमतेन च ।
क्रियते निर्णयस्तत्र व्यवहारस्तु बाध्यते ॥२०॥
विहाय चरिताचारं यत्र कुर्यात्पुनर्नृपः ।
निर्णयं सा तु राजाज्ञा चरितं बाध्यते तया ॥२१॥
धर्मशास्त्रानुसारेण सामात्यः स पुरोहितः ।
व्यवहारान्नृपः पश्येत्प्रजासंरक्षणाय च  ।
क्रोधलोभविहीनस्तु  सत्यवादी जितेन्द्रियः ॥२२॥

४ धर्माधिकरणम्
सप्तप्रकृतिकं यत्तु विजिगीषोररेश्च यत् ।
चतुर्दशकं एवेदं मण्डलं परिचक्षते ॥२३॥
चत्वारः पृथिवीपालाः पृथङ्मित्रैः सहाष्टकम् ।
अमात्यादिभिरेते च जगत्यक्षरसंहिताः ॥२४॥
प्रातरुत्थाय नृपतिः शौचं कृत्वा विधानतः ।
गुरून्ज्योतिर्विदो वैद्यान्देवान्विप्रान्पुरोहितान् ॥२५॥
यथार्हं एतान्संपूज्य सुपुष्पाभरणाम्बरैः ।
अभिनन्द्य च गुर्वादीन्सुमुखः प्रविशेत्सभाम् ॥२६॥
राजा कार्याणि संपश्येत्सद्भिरेव त्रिभिर्वृतः ।
सभां एव प्रविश्याग्र्यां आसीनः स्थित एव वा ॥२७॥

५ दुर्गलक्षणम्
आत्मदारार्थलोकानां संचितानां तु गुप्तये ।
नृपतिः कारयेद्दुर्गं प्राकारद्वयसंयुतम् ॥२८॥
भूपानां इन्धनरसैर्वेत्रशष्पान्नवाहनैः ।
यन्त्रायुधैश्च विविधैः स्निग्धैः शूरैर्नरैर्युतम् ॥२९॥
वेदविद्याविदो विप्रान्क्षत्रियानग्निहोत्रिणः ।
आहृत्य स्थापयेत्तत्र तेषां वृत्तिं प्रकल्पयेत् ॥३०॥
अनाच्छेद्याः करास्तेभ्यः प्रदेया गृहभूमयः ।
मुक्ता भाव्याश्च नृपतेर्लेखयित्वा स्वशासने ॥३१॥
नित्यं नैमित्तिकं काम्यं शान्तिकं पौष्टिकं तथा ।
पौराणां कर्म कुर्युस्ते संदिग्धविनयं तथा ॥३२॥
समा निम्नोन्नता वापि यत्र भूमिर्यथाविधा ।
शालाट्टपरिखाद्याश्च कर्तव्याश्च तथाविधाः ॥३३॥
समन्तात्तत्र वेश्मानि कुर्युः प्रकृतयस्ततः ।
द्विजवैश्यवणिच्छिल्पि कारुका रक्षकास्तथा ॥३४॥
शलावस्थाननिष्काश भ्रमश्वभ्रचतुष्पथान् ।
समाजविक्रयस्थान गोव्रजांश्चैव कल्पयेत् ॥३५॥
गुणवानिति यः प्रोक्तः ख्यापितो जनसंसदि ।
कथं तेनैव वक्त्रेण निर्गुणः परिकथ्यते ॥३६॥
तस्मात्प्रभुत्वं वृत्तिं च निर्दोषस्य न चालयेत् ।
अनवस्थाप्रसङ्गः स्यान्नश्येतोपग्रहस्तथा ॥३७॥

६ प्रजापालनलक्षणम्पृष्ठ ७
सम्यङ्निविष्टदेशस्तु कृतदुर्गस्तु शास्त्रतः ।
कण्टकोद्धरणे नित्यं आतिष्ठेद्बलं उत्तमम् ॥३८॥
तत्प्रजापालनं प्रोक्तं त्रिविधं न्यायवेदिभिः ।
परचक्राच्चौरभयाद्बलिनोऽन्यायवर्तिनः ॥३९॥
परानीकस्तेनभयं उपायैः शमयेन्नृपः ।
बलवत्परिभूतानां प्रत्यहं न्यायदर्शनैः ॥४०॥
यदधीते यद्यजते यज्जुहोति यदर्चति ।
तस्य षड्भागभाग्राजा सम्यग्भवति रक्षणात् ॥४१॥
रक्षन्धर्मेण भूतानि राजा वध्यांश्च घातयन् ।
यजतेऽहरहर्यज्ञैः सहस्रशतदक्षिणैः ॥४२॥
दशाष्टषष्ठं नृपतेर्भागं दद्यात्कृषीवलम् ।
खिलाद्वर्षावसन्ताच्च कृष्यमाणाद्यथाक्रमम् ॥४३॥
देशस्थित्या बलिं दद्युर्भूतं षण्मासवार्षिकम् ।
एष धर्मः समाख्यातः कीनाशानां पुरातनः ॥४४॥

७ सभानिवेशनप्रकारः
औदकं पार्वतं वार्क्ष्यं ऐरणं धान्वनं तथा ।
दुर्गमध्ये गृहं कुर्याज्जलवृक्षावृतं पृथक् ॥४५॥
प्राग्दिशि प्राङ्मुखीं तस्य लक्षण्यां कल्पयेत्सभाम् ।
माल्यधूपासनोपेतां बीजरत्नसमन्विताम् ॥४६॥
प्रतिमालेख्यदेवैश्च युक्तां अग्न्यम्बुना तथा ।
लक्षण्यां वास्तुशास्त्रोक्त लक्षणेन तु लक्षिताम् ॥४७॥
भद्रासनं अधिष्ठाय संवीताङ्गः समाहितः ।
प्रणम्य लोकपालेभ्यः कार्यदर्शनं आरभेत् ॥४८॥
विप्रो धर्मद्रुमस्यादिः स्कन्धशाखे महीपतिः ।
सचिवाः पत्रपुष्पाणि फलं न्यायेन पालनम् ॥४९॥
यशो वित्तं फलरसो भोगोपग्रहपूजनम् ।
अजेयत्वं लोकपङ्क्तिः स्वर्गे स्थानं च शाश्वतम् ॥५०॥
वोदोत्वैतान्न्यायरसान्समो भूत्वा विवादनम् ।
त्यक्तलोभादिकं राजा धर्मं कुर्याद्विनिर्णयम् ॥५१॥
राजा वृत्तिविवादानां स्वयं एव प्रदर्शनम् ।
शास्त्रदृष्टेन मार्गेण स विद्वद्भिः प्रसेव्यते ॥५२॥
तस्मान्न्यायेन राजा तु सम्यग्यत्नेन पालयेत् ।
तस्मादर्थं च राज्यं च यशश्च विपुलं लभेत् ॥५३॥
सत्यं देवाः समासेन मनुष्यास्त्वनृतं विदुः ।
इहैव तस्य देवत्वं यस्य सत्ये स्थिता मतिः ॥५४॥
पश्वाज्य्यर्त्विगादीनां संयोगाज्जायतेऽध्वरः ।
यथा संबध्यते तेन व्यवहारस्तथोच्यते ॥५५॥
प्राड्विवाकसदस्यानां उपजीव्य मतानि तु ।
तद्युक्तियोगाद्योऽर्थेषु निर्णये न स दण्डभाक् ॥५६॥

८ सभाप्रभेदाः
प्रतिष्ठिताप्रतिष्ठा च मुद्रिता शासिता तथा ।
चतुर्विधा सभा प्रोक्ता सभ्याश्चैव तथाविधाः ॥५७॥
प्रतिष्ठिता पुरे ग्रामे चला नामाप्रतिष्ठिता ।
मुद्रिता अध्यक्षसंयुक्ता राजयुक्ता च शासिता ॥५८॥
न्यायान्पश्येत्कृतमतिः सा सभाध्वरसंमिता ।

९ सभ्याः
लोकवेदाङ्गधर्मज्ञाः सप्त पञ्च त्रयोऽपि वा ।
यत्रोपविष्टा विप्राग्र्याः सा यज्ञसदृशी सभा ॥५९॥
कुर्यादलग्नकौ रक्षेदर्थिप्रथ्यर्थिनौ सदा ।
एतद्दशाङ्गं करणं यस्यां अध्यास्त पार्थिवः ॥६०॥
द्विसस्याष्टमं भागं मुक्त्वा कालं सुसंविशेत् ।
स कालो व्यवहाराणां शास्त्रदृष्टः परः स्मृतः ॥६१॥
साधुकर्मक्रियायुक्ताः सत्यधर्मपरायणाः ।
अक्रोधलोभाः शास्त्रज्ञाः सभ्याः कार्या महीभुजा ॥६२॥
सप्त पञ्च त्रयो वा सभासदो भवन्ति ॥६३॥
देशाचारानभिज्ञा ये नास्तिकाः शास्त्रवर्जिताः ।
उन्मत्तक्रुद्धलुब्धार्ता न प्रष्टव्या विनिर्णये ॥६४॥
राजा कार्याणि संपश्येत्प्राड्विवाकोऽथ वा द्विजः ।
न्यायाङ्गान्यग्रतः कृत्वा सभ्यशास्त्रमते स्थितः ॥६५॥
बलेन चतुरङ्गेन यतो रञ्जयते प्रजाः ।
दीप्यमानः स्ववपुषा तेन राजाभिधीयते ॥६६॥
एकस्त्वनेकधा प्रोक्तो व्यवहारो मनीषिभिः ।
तस्य निर्णयकृद्राजा ब्राह्मणश्च बहुश्रुतः ॥६७॥
व्यवहाराश्रितं प्रश्नं पृच्छति प्राडिति श्रुतिः ।
विवदेत्तत्र यस्तस्मिन्प्राड्विवाकस्तु स स्मृतः ॥६८॥
विवादे पृच्छति प्रश्नं प्रतिप्रश्नं तथैव च ।
प्रियपूर्वं प्राग्वदति प्राड्विवाकस्ततः स्मृतः ॥६९॥
सप्राड्विवाकः सामात्यः सब्राह्मणपुरोहितः ।
ससभ्यः प्रेक्षको राजा स्वर्गे तिष्ठति धर्मतः ॥७०॥
सर्वशास्त्रार्थवेत्तारं अलुब्धं न्यायभाषिणम् ।
विप्रं प्राज्ञं क्रमायातं अमात्यं स्थापयेद्द्विजम् ॥७१॥
द्विजान्विहाय यः पश्येत्कार्याणि वृषलैः सह ।
तस्य प्रक्षरते राष्ट्रं बलं कोशं च नश्यति ॥७२॥
ये चारण्यचरास्तेषां अरण्ये करणं भवेत् ।
सेनायां सैनिकानां तु सार्थेषु बणिजां तथा ॥७३॥
कीनाशाः कारुका मल्लाः कुसीदश्रेणिवर्तकाः ।
लिङ्गिनस्तस्कराश्चैव स्वेन धर्मेण निर्णयः ॥७४॥
कुलानि श्रेणयश्चैव गणास्त्वधिकृतो नृपः ।
प्रतिष्ठा व्यवहाराणां गुर्वेभ्यस्तूत्तरोत्तरम् ॥७५॥
तपस्विनां तु कार्याणि त्रैविद्यैरेव कारयेत् ।
मायायोगविदां चैव न स्वयं कोपकारणात् ॥७६॥
अदण्ड्यान्दण्डयन्राजा दण्ड्यांश्चैवाप्यदण्डयन् ।
अयशो महदाप्नोति नरकं चैव गच्छति ॥७७॥
अपि भ्राता सुतोऽर्घ्यो वा श्वशुरो मातुरोऽपि वा ।
नादण्ड्यो नाम राज्ञोऽस्ति धर्माद्विचलितः स्वकात् ॥७८॥
यत्र विप्रो न विद्वान्स्यात्क्षत्रियं तत्र योजयेत् ।
वैश्यं वा धर्मशास्त्रज्ञं शूद्रं यत्नेन वर्जयेत् ॥७९॥
धर्मकर्मविहीनस्तु ब्राह्मैर्लिङ्गैर्विवर्जितः ।
ब्रवीति ब्राह्मणोऽस्मीति तं आहुर्ब्राह्मणब्रुवम् ॥८०॥
शब्दाभिधानतत्त्वज्ञौ गणनाकुशलौ शुची ।
नानालिपिज्ञौ कर्तव्यौ राज्ञा गणकलेखकौ ॥८१॥
अकारणे रक्षणे च साक्ष्यर्थिप्रवादिनाम् ।
सभ्याधीनः सत्यवादी कर्तव्यस्तु स पूरुषः ॥८२॥
एतद्दशाङ्गकरणं यस्यां अध्यास्य पार्थिवः ।
न्य्हायं पश्येत्कृतमतिः सा सभाध्वरसंमिता ॥८३॥
एषां मूर्धा नृपोऽङ्गानां मुखं चाधिकृतः स्मृतः ।
बाहू सभ्याः स्मृतिर्हस्तौ जङ्घे गणकलेखकौ ॥८४॥
हेमाग्न्यम्बुदृशौ हृच्च पादौ स्वपुरुषस्तथा ॥८५॥
हिरण्यं अग्निं उदकं धर्मशास्त्राणि चैव हि ।
तन्मध्ये स्थापयेद्राजा पुण्यानि च हितानि च ॥८६॥
आदित्यचन्द्रदेवादि दिक्पालान्तत्र कल्पयेत् ।
हेमाग्न्यम्बुस्वपुरुषाः साधनाङ्गानि वै दश ॥८७॥
दशानां अपि चैतेषां कर्म प्रोक्तं पृथक्पृथक् ।
वक्ताध्यक्षो नृपः शास्ता सभ्यः कार्यपरीक्षकः ॥८८॥
स्मृतिर्विनिर्णयं ब्रूते जयदानं दमं तथा ।
शपथार्थे हिरण्याग्नी अम्बु तृषितजन्तुषु ॥८९॥
गणको गणयेदर्थं लिखेन्न्यायं च लेखकः ।
पर्त्यर्थिसभ्यानयनं साक्षिणं च स्वपूरुषः ॥९०॥
वाग्दण्डश्चैव धिग्दण्डो विप्राधीनौ तु ताऊभौ ।
अर्थदण्डवधावुक्तौ राजायतावुभावपि ॥९१॥
राज्ञा ये विदिताः सम्यक्कुलश्रेणिगणादयः ।
साहसन्यायवर्ज्यानि कुर्युः कार्याणि ते नृणाम् ॥९२॥
कुलश्रेणिगणाध्यक्षाः प्रोक्ता निर्णयकारकाः ।
विचार्य श्रेणिभिः कार्यं कुलैर्यन्न विचारितम् ॥९३॥
गणैश्च श्रेण्यविज्ञातं गणाज्ञातं नियुक्तकैः ।
कुलादिभ्योऽधिकाः सभ्यास्तेभ्योऽध्यक्षः स्मृतोऽधिकः ॥९४॥
सर्वेषां अधिको राजा धर्मं यत्नेन निश्चितम् ।
उत्तमाधममध्यानां विवादानां विचारणात् ॥९५॥
उपर्युपरि बुद्धीनां चरन्तीश्वरबुद्धयः ।
अज्ञानतिमिरोपेतान्संदेहपटलान्वितान् ॥९६॥
निरामयान्यः कुरुते शास्त्राञ्जनशलाकया ।
इह कीर्तिं राजपूजां लभते स्वर्गतिं च सः ॥९७॥
लोभद्वेषादिकं त्यक्त्वा यः कुर्यात्कार्यनिर्णयम् ।
शास्त्रोदितेन विधिना तस्य यज्ञफलं भवेत् ॥९८॥
अधर्मतः प्रवृत्तं तु नोपेक्षेरन्सभासदः ।
उपेक्षमाणास्ते भूपा नरकं यान्त्यधोमुखाः ॥९९॥
न्यायमार्गादपेतं तु ज्ञात्वा चित्तं महीपतेः ।
वक्तव्यं त्वप्रियं तत्र न सभ्यः किल्बिषी ततः ॥१००॥
सभ्येन तावद्वक्तव्यं धर्मार्थसहितं वचः ।
शृणोति यदि नो राजा स्यात्तु सभ्यस्ततोऽनघः ॥१०१॥
अनिर्णीतेषु यद्येवं संभाषेत रहोऽर्थिना ।
प्राड्विवाकोऽपि दण्ड्यः स्यात्सभ्याश्चैव विशेषतः ॥१०२॥
स्नेताच्चाज्ञानतो वापि मोहाद्वा लोभतोऽपि वा ।
यत्र सभ्योऽन्यथावादी दण्ड्योऽसभ्यः स्मृतो हि सः ॥१०३॥
लेख्यं यत्र न विद्येत न साक्षी न च भुक्तयः ।
प्रमाणानि न सन्त्येकं प्रमाणं तत्र पार्थिवः ॥१०४॥
निश्चेतुं ये न शक्याः स्युर्वादाः संदिग्धरूपिणः ।
तेषां नृपः प्रमाण् अं स्यात्स सर्वस्य प्रभुर्यतः ॥१०५॥
व्यवहारान्स्वयं पश्येत्सभ्यैः परिवृतोऽन्वहम् ॥१०६॥
अन्यायवादिनः सभ्यास्तथैवोत्कोचजीविनः ।
विश्वस्ते वञ्चकाश्चैव निर्वास्याः सर्व एव ते ॥१०७॥
नियुक्तो वानियुक्तो वा शास्त्रज्ञो वक्तुं अर्हति ।
यत्तेन सदसि प्रोक्तं स धर्मो नात्र संशयः ॥१०८॥
पूर्वामुखस्तूपविशेद्राजा सभ्या उदङ्मुखाः ।
गणकः पश्चिमा यस्तु लेखको दक्षिणामुखः ॥१०९॥
यथा यमः प्रियद्वेष्यौ प्राप्ते काले नियच्छति ।
तथा राज्ञा नियन्तव्याः प्रजास्तद्धि यमव्रतम् ॥११०॥
धर्मशास्त्रार्थशास्त्राभ्यां अविरोधेन पार्थिवः ।
समीक्षमाणो निपुणं व्यवहारगतिं नयेत् ॥१११॥
न्यायशास्त्रं अतिक्रम्य सभ्यैरत्र तु निश्चितम् ।
तत्र धर्मो हतो हन्ति सर्वानेव न संशयः ॥११२॥
धार्यं मन्वादिकं शास्त्रं नार्थशास्त्रं कथंचन ।
द्वयोर्विरोधे कर्तव्यं धर्मशास्त्रोदितं वचः ॥११३॥
केवलं शास्त्रं आश्रित्य न कर्तव्यो विनिर्णयः ।
युक्तिहीने विचारे तु धर्महानिः प्रजायते ॥११४॥
पूर्वाह्णे तां अधिष्ठाय वृद्धामात्यानुजीविभिः ।
पश्येत्पुराणधर्मार्थ शास्त्राणि शृणुयात्तथा ॥११५॥
चौरोऽचौरः साध्वसाधु जायते व्यवहारतः ।
युक्तिं विना विचारेण माण्डव्यश्चोरतां गतः ॥११६॥
असत्याः सत्यसदृशाः सत्याश्चासत्यसंनिभाः ।
दृश्यन्ते भ्रान्तिजनकास्तस्माद्युक्त्या  विचारयेत् ॥११७॥
यज्ञे संपूज्यते विष्णुर्व्यवहारे महीपतिः ।
जयी तु यजमानोऽत्र जितः पशुरुदाहृतः ॥११८॥
पूर्वपक्षोत्तरावाद्यं प्रतिज्ञा च हविः स्मृतः ।
त्रयी शास्त्राणि सभ्यास्तु ऋत्विजो दक्षिणा दमः ॥११९॥
तथा चैवोपदृष्टारौ ज्ञेयौ गणकलेखकौ ।
एषोऽध्वरसमः प्रोक्तो व्यवहारः समाहृतः ॥१२०॥
स्मृत्याचारव्यपेतेन मार्गेनाधर्षितः परैः ।
आवेदयति चेद्राज्ञे व्यवहारपदं हि तत् ॥१२१॥
पतितादिकृतश्चैव यश्च न प्रकृतिं गतः ।
अस्वतन्त्रकृतश्चैव पूर्वपक्षो न सिध्यति ॥१२२॥
मत्तोन्मत्तार्तव्यसनि बालवृद्धप्रयोजितः ।
असंबन्धकृतश्चैव व्यवहारो न सिध्यति ॥१२३॥
गुरुशिष्यौ पितापुत्रौ दम्पती स्वामिभृत्यकौ ।
एतेषां समवेतानां व्यवहारो न सिध्यति ॥१२४॥
एवं परीक्षितं सभ्यैः पूर्व्पक्षं तु लेखयेत् ।
अप्रसिद्धं पुरद्विष्टं विवादं न विचारयेत् ॥१२५॥

१० देशजातिधर्मास्तथैव पालनीयाः
प्रतिलोमप्रसूतानां तथा दुर्गनिवासिनाम् ।
देशजातिकुलादीनां ये धर्मास्तत्प्रवर्तिताः ॥१२६॥
तथैव ते पालनीयाः प्रजा प्रक्षुभ्यतेऽन्यथा ।
जनापरक्तिर्भवति बलं कोशश्च नश्यति ॥१२७॥
उदुह्यते दाक्षिणात्यैर्मातुलस्य सुता द्विजैः ।
मध्यदेशे कर्मकराः शिल्पिनश्च गवाशिनः ॥१२८॥
मत्स्यादाश्च नराः पूर्वे व्यभिचाररताः स्त्रियः ।
उत्तरे मद्यपा नार्यः स्पृश्या नॄणां रजस्वलाः ॥१२९॥
सहजाताः प्रगृह्णन्ति भ्रातृभार्यां अभर्तृकाम् ।
अनेन कर्मणा नैते प्रायश्चित्तदमार्हकाः ॥१३०॥
विहिताकरणान्नित्यं प्रतिषिद्धनिषेवणात् ।
भक्ताच्छादं प्रदायैषां शेषं गृह्णीत पार्थिवः ॥१३१॥
प्रतिलोमप्रसूतानां तथा दुर्गनिवासिनाम् ।
शास्त्रवद्यत्नतो रक्ष्या संदिग्धौ साधनं तु सा ॥१३२॥
तां दृष्ट्वा निर्णयं कुर्यात्प्राङ्निविष्टव्यवस्थया ।
सभा शुल्कोचितदमे मासषाण्मासिके करे ॥१३३॥
मर्यादा लेखिता कार्या नैगमाधिष्ठिता सदा ।
अर्थिनश्च वचः कार्यं वचः प्रत्यर्थिनस्तथा ।
परीक्ष्य पदं आदद्यादन्यथा नरकं व्रजेत् ॥१३४॥
एकस्य बहुभिः सर्धं स्त्रीभिः प्रेक्षकरैस्तथा ।
अनादेयो भवेद्वादो धर्मविद्भिरुदाहृतः ॥१३५॥
११ अनासेध्याः
सत्रोद्वाहोद्यतो रोगी शोकार्तोन्मत्तबालकाः ।
मत्तो वृद्धोऽनुयुक्तश्च नृपकार्योद्यतो व्रती ॥१३६॥
आसन्ने सैनिकः संख्ये कर्षको वापसंग्रहे ।
विषमस्थाश्च नासेध्याः स्त्रीसनाथास्तथैव च ॥१३७॥
अप्राप्तव्यवहारश्च दूतो दानोन्मुखो व्रती ।
विषमस्थाश्च नासेध्याः स्त्रीसनाथास्तथैव च ॥१३८॥
वणिग्विक्रीतपण्यस्तु सस्ये जाते कृषीवलः ।
सत्रोद्यताश्चैव तथा दापनीयाः कृतक्रियाः ॥१३९॥
मतिर्नोत्सहते यत्र विवादं कर्तुं इच्छते ।
दातव्यस्तस्य कालः स्यादर्थिप्रत्यर्थिनोरपि ॥१४०॥
यस्याभियोगं कुरुते तथ्येनाशङ्कयापि वा ।
तं एवानाययेद्राजा सुद्रया पुरुषेण वा ॥१४१॥
अप्रगल्भजडोन्मात वृद्धस्त्रीबालरोगिणाम् ।
पूर्वोत्तरं वदेद्बन्धुर्नियुक्तोऽन्योऽथ वा नरः ॥१४२॥
ऋत्विग्वादे नियुक्तश्च समौ संपरिकीर्तिनौ ।
यज्ञे स्वाम्याप्नुयात्पुण्यं हानिं वादेऽथ वा जयम् ॥१४३॥

१२ आह्वानम्पृष्ठ २४
आहूतो यस्तु नागच्छेद्दर्पाद्बन्धुबलान्वितः ।
अभियोगानुरूपेण तस्य दण्डं प्रकल्पयेत् ॥१४४॥
काले कार्यार्थिनं पृच्छेत्प्रणतं पुरतः स्थितम् ।
किं कार्यं का च ते पीडा मा भैषीर्ब्रूहि मानव ॥१४५॥
एवं पृष्टः स यद्ब्रूयात्तत्सभ्यैः ब्राह्मणैः सह ।
विमृश्य कार्यं न्याय्यं चेदाह्वानार्थं अतः परम् ॥१४६॥
मुद्रां दद्याद्यथा पत्रं पुरुषं वा समादिशेत् ।
आहूतस्त्व् अवमन्येत यः शक्तो राजशासनम् ।
अभियोगानुरूपेण तस्य दण्डं प्रकल्पयेत् ॥१४७॥
अकल्पबालस्थविर विषमस्थक्रियाकुलान् ।
हीने कर्मणि पञ्चाशन्मध्यमेषु शतावरः ।
गुरुकार्येषु दण्ड्यः स्यात्न्नित्यं पञ्चशतावरः ॥१४८॥
परानीकहते देशे दुर्भिक्षे व्याधिपीडिते ।
कुर्वीत पुनराह्वानं दण्डं न परिकल्पयेत् ॥१४९॥
कार्यातिपातिव्यसनि नृपकार्योत्सवाकुलान् ॥१५०॥
द्जर्मोद्यतानभ्युदये पराधीनशठाकृतीन् ।
मत्तोन्मत्तप्रमत्तांश्च भृत्यान्नाह्वाययेन्नृपः ॥१५१॥
न च भ्राता न च पिता न पुत्रो न नियोगकृत् ।
परार्थवादी दण्ड्यः स्याद्व्यवहारेषु विब्रुवन् ॥१५२॥
न हीनपक्षां युवतिं कुले जातां प्रसूतिकाम् ।
सर्ववर्णोत्तमां कन्यां ताः ज्ञातिप्रभुक्ताः स्मृताः ॥१५३॥
कालं देशञ् च ? विज्ञाय कार्याणां च बलावलम् ।
अकल्पादीनपि शनैर्यानैराह्वापयेन्नृपः ॥१५४॥
तदधीनकुटुम्बिव्यः स्वैरिण्यो गणिकाश्च याः ।
निष्कुला याश्च पतितास्तासां आह्वानं इष्यते ॥१५५॥
उभयोः प्रतिभूर्ग्राह्यः समर्थः कार्यनिर्णये ॥१५६॥
ज्ञात्वाभियोगं येऽपि स्युर्वने प्रव्रजितादयः ।
तानप्याह्वापयेत्राजा गुरुकार्येष्वकोपयन् ॥१५७॥
वक्तव्येऽर्थे न तिष्ठन्तं उत्क्रामन्तं च तद्वचः ।
आसेधयेद्विवादार्थी यावदाह्वानदर्शनम् ॥१५८॥
स्थानासेधः काल्कृतः प्रवासात्कर्मणस्तथा ।
चतुर्विधः स्यादासेधः आसिद्धस्तं न लङ्घयेत् ॥१५९॥
क्षेत्रारामगृहादीनि धनधान्यादिकं तथा ।
अन्यायवादिनां त्वेतान्यासेधव्यानि वादिनाम् ॥१६०॥
आसेद्धा तु स्वं आसेधं स्वयं एवोत्सृजेद्यदि ।
न तस्यातिक्रमाद्दोषो न च दण्डं प्रकल्पयेत् ॥१६१॥
राज्ञे निवेदनादूर्ध्वं आसेद्धा नोत्सृजेद्स्वयम् ।
उत्सृजेच्चेद्दमो दाप्य आसिद्धश्च न लङ्घयेत् ॥१६२॥
नदीसंतारकान्तार दुर्देशोपप्लवादिषु ।
आसिद्धस्तु परासेधं उत्क्रामन्नापराध्नुयात् ॥१६३॥
निवेष्टुकामो रोगार्तो यियक्षुर्व्यसने स्थितः ।
अभियुक्तस्तथान्येन राजकार्योद्यतस्तथा ॥१६४ब्॥
गवां प्रचारे गोपालाः सस्यारम्भे कृषीवलाः ।
शिल्पिनश्चापि तत्काले आयुधीयाश्च विग्रहे ॥१६५॥
वृक्षं पर्वतं आरूढा हस्त्यश्वरथनौस्थिताः ।
विषमस्थाश्च ते सर्वे नासेध्याः कार्यसाधकैः ॥१६६॥
यस्त्विन्द्रियनिरोधेनाप्याहारोच्छ्वसनादिभिः ।
आसेधयेदनासेधैः स दण्ड्यो न त्वतिक्रमी ॥१६७॥
आसेधयोग्य आसेधं उत्क्रामन्दण्डं अर्हति ।
आसेधयंस्तु नासेध्यं राज्ञा शास्य इति स्थितिः ॥१६८॥
आगतानां विवदतां असकृद्वादिनां नृपः ।
वादान्पश्येन्नात्मकृतान्न चाध्यक्षनिवेदितान् ॥१६९॥

१३ वादिप्रतिवादिनोरुक्तिक्रमःपृष्ठ २७
पीडितः स्वयं आयातः शस्त्रेणार्थी यदा भवेत् ।
प्राड्विवाकस्तु तं पृच्छेत्पुरुषो वा शनैः शनैः ॥१७०॥
योऽदत्तव्यवहारत्वादनियुक्तः प्रवर्तते ।
वचनं तस्य न ग्राह्यं लिखितप्रेषितादृते ॥१७१॥
अहं पूर्विकया यातावर्थिप्रत्यर्थिनौ यदा ।
वादो वर्णानुपूर्व्येण ग्राह्यः पीडां अवेक्ष्य वा ॥१७२॥
उन्मत्तमत्तनिर्धूता महापातकदूषिताः ।
जडातिवृद्धबालश्च विज्ञेयास्तु निरुत्तराः ॥१७३॥
पक्षः प्रोक्तस्त्वनादेयो वादी चानुत्तरस्तथा ।
यादृग्वादी यश्च पक्षो ग्राह्यस्तत्कथयाम्यहम् ॥१७४॥
पीडातिशयं आश्रित्य यद्ब्रवीति विवक्षितम् ।
स्वार्थसिद्धिपरो वादी पूर्वपक्षः स उच्यते ॥१७५॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:55:22.6300000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

कुशध्वज III.

  • n. बृहस्पति का पुत्र (बृहस्पति देखिये) । 
RANDOM WORD

Did you know?

अष्टगंधात कोणकोणते घटक असतात?
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site