बृहस्पतिस्मृतिः - दिव्यानि

स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग.


स्थावरस्य तथाख्यातं लाभभोगप्रसाधनम् ।
प्रमाणहीने वादे तु निर्दोषा दैविकी क्रिया ॥१॥
प्रदुष्टेष्वनुमानेषु दिव्यैः कार्यं विशोधयेत् ।
धटाद्या धर्मजान्ता च दैवी नवविधा स्मृता ॥२॥
धटोऽग्निरुदकं चैव विषं कोशश्च पञ्चमम् ।
षष्ठं च तण्डुलाः प्रोक्तं सप्तमं तप्तमाषकः ॥३॥
अष्टमं कालं इत्युक्तं नवमं धर्मकं तथा ।
दिव्येनायाति सर्वाणि निर्दिष्टानि स्वयम्भुवा ॥४॥

१ दिव्यव्यवस्था
यस्माद्देवैः प्रयुक्तानि दुष्करार्थे महात्मभिः ।
अहं उद्देशतां वच्मि संदिग्धार्थविशुद्धये ।
देशकालार्थसंख्याभिः प्रयुक्तान्यनुपूर्वशः ॥५॥
अपराधानुपूर्व्येण साध्वसाधुविवक्षया ।
शास्त्रोदितेन विधिना प्रदातव्यानि नान्यथा ॥६॥
ऋणादिकेषु कार्येषु विसंवादे परस्परम् ।
द्रव्यसंख्यान्विता देया पुरुषापेक्षया तथा ॥७॥
लोके संव्यवहारार्थं संज्ञेयं कथिता भुवि ।
ताम्रकर्षकृता मुद्रा विज्ञेयः कार्षिकः पणः ॥८॥
निष्कं सुवर्णाश्चत्वारः कार्षिकस्ताम्रिकः पणः ।
ताम्रकर्षकृता मुद्रा विज्ञेयः कार्षिकः पणः ॥९॥
स एव चान्द्रिका प्रोक्ता ताश्चतस्रस्तु धानकाः ।
ता द्वादश सुवर्णस्तु दीनाराख्यः स एव तु ॥१०॥
कार्षापणसहस्रं तु दण्ड उत्तमसाहसः ।
तदर्धं मध्यमः प्रोक्तस्तदर्धं अधमः स्मृतः ॥११॥
ब्राह्मणस्य धटो देयः क्षत्रियस्य हुताशनः ।
वैश्यस्य सलिलं देयं शूद्रस्य विषं एव तु ॥१२॥
साधारणः समस्तानां कोशः प्रोक्तो मनीषिभिः ॥१३॥
स्नेहात्क्रोधाल्लोभतो वा भेदं आयान्ति साक्षिणः ।
विधिदत्तस्य दिव्यस्य न भेदो जायते क्वचित् ॥१४॥
यथोक्तविधिना देयं दिव्यं दिव्यविशारदैः ।
अयथोक्तं प्रदत्तं चेन्न दत्तं साध्यसाधने ॥१५॥
अदेशकालदत्तानि बहिर्वादिकृतानि च ।
व्यभिचारं सदार्थेषु कुर्वन्तीह न संशयः ॥१६॥
अभियुक्ताय दातव्यं दिव्यं दिव्यविशारदैः ।
रुच्या चान्यतरः कुर्यादितरो वर्तयेच्छिरः ॥१७॥
विनापि शीर्षकं कुर्यान्नृपद्रोहे च पातके ।
दिव्यप्रदानं उदितं अन्यत्र नृपशासनात् ।
न कश्चिदभियोक्तारं दिव्येष्वेवं नियोजयेत् ॥१८॥

२ दिव्यदेवताः पृष्ठ ८३
धरोद्ध्रुवस्तथा सोम आपश्चैवानिलोऽनलः ।
प्रत्यूषश्च प्रभासश्च वसवोऽष्टौ प्रकीर्तिताः ॥१९॥
देवेशेशानयोर्मध्य आदित्यानां तथायनम् ।
धातार्यमा च मित्रश्च वरुणोऽंशो भगस्तथा ॥२०॥
इन्द्रो विवस्वान्पूषा च पर्जन्यो दशमः स्मृतः ।
ततस्त्वष्टा ततो विष्णुरजघन्यो जघन्यजः ॥२१॥
इत्येते द्वादशादित्या नामभिः परिकीर्तिताः ।
अग्नेः पश्चिमभागे तु रुद्राणां अयनं विदुः ।
वीरभद्रश्च शम्भुश्च गिरीशश्च महायशाः ॥२२॥
अजेकपाद्अजैकपाद्? अहिर्बुध्न्या पिनाकी चाप्राजितः ॥२३॥
भुवनाधिश्वराश्चैव कपाली च विशांपतिः ।
स्थाणुर्भगश्च भगवान्रुद्राश्चैकादश स्मृताः ॥२४॥
प्रेतेशरक्शसोर्मध्ये मातृस्थानं प्रकल्पयेत् ।
ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा ॥२५॥
वाराही चैव माहेन्द्री चामुण्डा गणसंयुता ।
निरृतेरुत्तरे भागे गणेशायतनं विदुः ॥२६॥
वरुणस्योत्तरे भागे मरुतां स्थानं उच्यते ।
श्वसनः स्पर्शनो वायुरनिलो मारुतस्तथा ॥२७॥

३ द्रव्यसंख्यया दिव्यानि
संख्या रश्मिरजोमूला मनुना समुदाहृता ।
कार्षापणान्ता सा दिव्ये नियोज्या विनयेत्तथा ॥२८॥
विषं सहस्रेऽपहृते पादोने च हुताशनः ।
त्रिपादोने च सलिलं अर्धे देयो धटः सदा ॥२९॥
चतुःशताभियोगे च दातव्यस्तप्तमाषकः ।
त्रिशते तण्डुला देयाः कोशश्चैव तदर्धके ॥३०॥
शते हृतेऽपहृते च दातव्यं धर्मशोधनम् ।
गोचौरस्य प्रदातव्यं सभ्यैः फालः प्रयत्नतः ॥३१॥
यवार्धिकस्य वा नाशे तदर्धस्य च तण्डुलाः पृष्ठ ८५ ।
ततोऽर्धार्धार्धनाशे च लौकिकी च क्रिया मता ॥३२॥

४ शपथविधिः
सतां वाहनशस्त्राणि गोबीजकनकानि च ।
देवब्राह्मणपादाश्च पुत्रदारशिरांसि च ॥३३॥
एते च शपथाः प्रोक्ताः अल्पार्थे सुकराः सदा ।
साहसेष्वभिशापेषु दिव्यान्याहुर्विशोधनम् ॥३४॥
ब्रूहीति ब्राह्मणं ब्रूयात्सत्यं ब्रूहीति पार्थिवम् ।
गोबीजकाञ्चनैर्वैश्यं शूद्रं सर्वैश्च पातकैः ॥३५॥
सत्येन शापयेद्विप्रं क्षत्रियं वाहनायुधैः ।
गोरक्षकान्वाणिजकांस्तथाकारुकुशीलवान् ।
प्रेष्यान्वार्धुषिकांश्चैव विप्राञ् शूद्रवदाचरेत् ॥३६॥
येऽप्यपेताः स्वधर्मेभ्यः परपिण्डोपजीविनः ।
द्विजत्वं अभिकाङ्क्षन्ते तांश्च शूद्रवदाचरेत् ॥३७॥
वर्णानुरूपैः शपथैः शपनीयं पृथक्पृथक् ॥३८॥
कामिनीषु विवाहेषु गवां भुक्ते तथेन्धने ।
ब्राह्मणाभ्यवपत्तौ च शपथे नास्ति पातकः ॥३९॥
सभान्तर्स्थैर्वक्तव्यं साक्स्यं नान्यत्र साक्षिभिः ।
सर्वसाक्ष्येष्वयं धर्मो ह्यन्यत्र स्थावरेषु च ॥४०॥
वधे चेत्प्राणिनां साक्स्यं वादयेच्छवसंनिधौ ।
तदभावे तु चिह्नस्य नान्यथैव विवादयेत् ॥४१॥
नापृष्टैरनियुक्तैर्वा समं सत्यं प्रयत्नतः ।
वक्तव्यं साक्षिभिः साक्ष्यं विवादस्थानं आगतैः ॥४२॥
स्वभावोक्तं वचस्तेषां ग्राह्यं यद्दोषवर्जितम् ।
उक्ते तु साक्षिणो राज्ञा न पृष्टव्याः पुनः पुनः ॥४३॥
साक्षिसभ्यावसन्नानां नैव पौनर्भावो विधिः ॥४४॥
सप्तर्षयस्तथेन्द्राद्याः पुष्करर्थे तपोधनाः ।
शेपुः शपथं अव्यग्राः परस्परविशुद्धये ॥४५॥
सप्ताहे वा द्विसप्ताहे न विपद्राजदैविकी ।
बान्ध्ववेषु सपिण्डेषु धनेषु शपथैः शुचिः ॥४६॥
अशेषमानुषाभावे दिव्येनैव विनिर्णयः ।
संभवे साक्षिणां प्राज्ञो दैविकीं तु विवर्जयेत् ॥४७॥
एवं संख्या निकृष्टानां मध्यानां द्विगुणा स्मृता ।
चतुर्गुणोत्तमानां तु कल्पनीया परीक्षकैः ॥४८॥

५ घटविधिः पृष्ठ ८७
धटेऽभियुक्तस्तुलितो हीनश्चेद्धानि आप्नुयात् ।
तत्समस्तु पुनस्तुल्यो वर्धितो विजयी भवेत् ॥४९॥
शिक्यच्छेदेऽक्षभङ्गे वा दयाच्छिक्यं पुनर्नृपः ।
साक्षिणो ब्राह्मणाः श्रेष्ठा यथादृष्टार्थवादिनः ॥५०॥
ज्ञातिनः शुचयो लुब्धाः नियोक्तव्या नृपेण तु ।
तेषां वचनतो गम्यः शुध्यशुद्धिविनिर्णयः ॥५१॥
कक्षच्छेदे तुलाभङ्गे धटकर्कटयोस्तथा ।
रज्जुच्छेदेऽक्षभङ्गे वा तथैवाशुद्धिं आप्नुयात् ॥५२॥

६ अग्निविधिः
अग्नेर्विधिं प्रवक्ष्यामि यथावद्विधिचोदितम् ।
कारयेन्मण्डलान्यष्टौ पुरस्तान्नवमे तथा ॥५३॥
आग्नेयं मण्डलं त्वाद्यं द्वितीयं वारुणं स्मृतम् ।
तृतीयं वायुदैवत्यं चतुर्थं यमदैवतम् ॥५४॥
पञ्चमं त्विन्द्रदैवत्यं षष्ठं कौबेरं उच्यते ।
सप्तमं सोमदैवत्यं अस्टमं सर्वसूर्य?दैवतम् ॥५५॥
पुरस्तान्नवमं यत्तु तन्महत्पार्थिवं विदुः ।
गोमयेन कृतानि स्युरद्भिः पर्युषितानि च ॥५६॥
द्वात्रिंशदङ्गुलान्याहुर्मण्डलान्मण्डलान्तरम् ।
कर्तुः समपदं कार्यं मण्डलं तु प्रमाणतः ॥५७॥

७ तोयविधिः
शरप्रक्षेपणस्थानाद्युवा जवसमन्वितः ।
गच्छेत्परमया शक्त्या यत्रासौ मध्यमः शरः ॥५८॥
मध्यमं शरं आदाय पुरुषोऽन्यस्तथाविधः ।
प्रत्यागच्छेत्तु वेगेन यतः स पुरुषो गतः ॥५९॥
आगन्तस्तु शरग्राही न पश्यति यदा जले ।
अन्तर्जलगतं सम्यक्तदा शुद्धिं विनिर्दिशेत् ॥६०॥
आनीते मध्यमे बाणे मग्नाङ्गः शुचितां इयात् ।
अन्यथा न विशुद्धः स्यादेकाङ्गस्यापि दर्शनात् ।
स्थानाद्वान्यत्र गमनाद्यस्मिन्पूर्वं निवेशयेत् ॥६१॥
अप्सु प्रवेश्य पुरुसं प्रेषयेत्सायकत्रयम् ।
इषूउन्न निक्षिपेद्विद्वान्मारुते वाति वै भृशम् ॥६२॥
विषमे भूप्रदेशे च वृक्षस्थाणुसमाकुले पृष्ठ ८९ ।
तृणगुल्मलतावल्ली पङ्कपाषाणसंयुते ॥६३॥
विधिदत्तं विषं येन जीर्णं मन्त्रौषधं विना ।
स शुद्धः स्यादन्यथा तु दण्ड्यो दाप्यश्च तद्धनम् ॥६४॥
सप्ताहाद्वा द्विसप्ताहाद्यस्य हानिर्न जायते ।
पुत्रदारधनानां च स शुद्धः स्यान्न संशयः ॥६५॥

८ कोशविधिः
यद्भक्तः सोऽभियुक्तः स्यात्तदेवायुधमण्डलम् ।
प्रक्षाल्य पाययेत्तस्माज्जलात्तु प्रसृतित्रयम् ॥६६॥
त्रिरात्रं पञ्चरात्रं वा पुरुषैः स्वैरधिष्थितम् ।
निरुद्धं चारयेत्तत्र कुहकाशङ्कया नृपः ॥६७॥
महाभियोगे निर्धर्मे कृतघ्ने क्लीबकुत्सिते ।
नास्तिके दृष्टदोषे च कोशपानं विसर्जयेत् ॥६८॥
दिव्यानि वर्जयेन्नित्यं आर्तानां तु गदैर्नृणाम् ।

९ तण्डुलविधिः
तण्डुलैर्नाभियुञ्जीत प्रजानां मुखरोगिणाम् ॥६९॥
सोपवासः सूर्यग्रहे तण्डुलान्भक्षयेच्छुचिः ।
शुद्धः स्याच्छुक्लनिष्टःईवे विपरीते तु दोषभाक् ॥७०॥
शोणितं दृश्यते यत्र हनुस्तालु च शीर्यतः ।
गात्रं च कम्पते यस्य तं अशुद्धं विनिर्दिशेत् ॥७१॥

१० तप्तमाषविधिः
समुद्धरेत्तैल्घृतात्सुतप्तात्तप्तमाषकम् ।
अङ्गुष्ठाङ्गुलियोगेन सत्यं आमन्त्र्य वीतभीः ॥७२॥
सौवर्णे राजते ताम्रे आयसे मृण्मयेऽपि वा ।
गव्यं घृतं उपादाय तदग्नौ तापयेच्छुचिः ॥७३॥
सौवर्णीं राज्तीं ताम्रीं आयसीं वा सुशोभनाम् ।
सलिलेन सकृद्धौतां प्रक्षिपेत्तत्र मुद्रिकाम् ॥७४॥
भ्रमद्वीरीतरङ्गाढ्ये ह्यनखस्पर्शगोचरे ।
परीक्षेदार्द्रपर्णेन चरुकारं सघोषकम् ॥७५॥
७६अ ।ततश्चानेन मन्त्रेण सकृत्तदभिमन्त्रयेत्पृष्ठ ९१
परं पवित्रं अमृतं घृत त्वं यज्ञकर्मसु ॥७६॥
दह पावक पापं त्वं हिमशीतो?तः शुचौ भव ।
उपोषितं ततः स्नातं आर्द्रवाससं आगतम् ।
ग्राहयेन्मुद्रिकां तां तु घृतमध्यगतां तथा ॥७७॥
प्रदेशिनीं च तस्याथ परीक्षेयुः परीक्षकाः ।
कराग्रं यो नु धुनुयात्विस्फोटो वा न जायते ।
शुद्धो भवति धर्मेण पितामहवचो यथा ॥७८॥

११ फालविधिः
आयसं द्वादशपलं घटितं फालं उच्यते ।
अदग्धश्चेच्छुद्धिं इयादन्यथा त्वपहीयते ॥७९॥
अष्टाङ्गुलं भवेद्दीर्घं चतुरङ्गुलविस्तृतम् ।
अग्निवर्णं तु तच्चोरो जिह्वया लेलिहेत्सकृत् ।
न दग्धश्चेच्छुद्धिं इयादन्यथा तु स हीयते ॥८०॥
गोचरस्य प्रदातव्यं सभ्यैः फालं प्रयत्नतः ।
महाभियोगेष्वेतानि शीर्सकस्थेऽभियोक्तरि ॥८१॥

१२ धर्मकविधिः
पत्त्रद्वये लेखनीयौ धर्माधर्मौ सितासितौ ।
जीवदानादिभिर्मन्त्रैः गायत्र्याद्यैश्च सामभिः ॥८२॥
आमन्त्र्य पूजयेद्गन्धैः कुसुमैश्च सितासितैः ।
अभ्युक्ष्य पञ्चगव्येन मृत्पिण्डान्तरितौ ततः ॥८३॥
समौ कृत्वा तु तौ कुम्भे स्थाप्यौ चानुपलक्षितौ ।
ततः कुम्भात्पिण्डं एकं प्रगृह्णीताविलम्बितः ॥८४॥
धर्मे गृहीते शुद्धः स्यात्स पूज्यश्च परीक्षकैः ।
अधर्मे संगृहीते तु दण्ड्यो निर्वास्य एव वा पृष्ठ ९३ ॥८५॥
लिखेद्भूर्जपटे वापि धर्माधर्मौ सितासितौ ।
अभ्युक्ष्य पञ्चगव्येन गन्धमाल्यैः समर्चयेत् ॥८६॥
सितपुष्पस्तु धर्मः स्यादधर्मोऽसितपुष्पधृत् ।
एवं विधायोपलिप्य पिण्डयोस्तानि धापयेत् ॥८७॥
गोमयेन मृदा वापि पिण्डौ कार्यौ समौ ततः ।
मृद्भाणकेऽनुपहते स्थाप्यौ चानुपलक्षितौ ॥८८॥
उपलिप्ते शुचौ देशे देवब्राह्मणसंनिधौ ।
समर्चयेत्ततो देवान्लोकपालांश्च पूर्ववत् ॥८९॥
धर्मावाहनपूर्वं तु प्रतिज्ञापत्त्रकं लिखेत् ।
यदि पापविमुक्तोऽहं धर्मश्चायातु मे करे ॥९०॥
अभिशस्तस्तयोश्चैकं प्रगृह्णीताविलम्बितः ।
धर्मे गृहीते शुद्धिः स्यादधर्मे तु स हीयते ॥९१॥
एवं विचारयन्राजा धर्मार्थाभ्यां न हीयते ॥९२॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP