TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

बृहस्पतिस्मृतिः - उत्तरम्

स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग.


उत्तरम्
यदा त्वेवंविधः पक्षः कल्पितः पूर्ववादिना ।
दद्यात्तत्पक्षसंबद्धं प्रतिवादी तदोत्तरम् ॥१॥
विनिश्चिते पूर्वपक्षे ग्राह्याग्राह्यविशेषिते ।
प्रतिज्ञाते स्थिरीभूते लेखयेदुत्तरं ततः ॥२॥

१ प्रार्थयमानाय कालो देयः
शालीनत्वाद्भयात्तद्वत्प्रत्यर्थी स्मृतिविभ्रमात् ।
कालं प्रार्थयते यत्र तत्रेमं लब्धुं अर्हति ॥३॥
एकाहत्र्यहपञ्चाह सप्ताहं पक्षं एव वा ।
मासं चतुस्त्रयं वर्षं लभते शक्त्यपेक्षया ॥४॥
पक्षस्य व्यापकं सारं असंदिग्धं अनाकुलं पृष्ठ ३७ ।
अव्याख्यानगम्यं एतदुत्तरं तद्विदो विदुः ॥५॥
उत्तरं चतुर्विधं संप्रति षत्मु?रं, ।
मिथ्योत्तरं प्राङ्न्याय उत्तरं कारणोत्तरं चेति ॥६॥
पूर्वपक्षे यथार्थं तु न दद्यादुत्तरं तु यः ।
प्रत्यक्षी दापनीयः स्यात्सामादिभिरुपक्रमैः ॥७॥
प्रियपूर्वं वचः साम भेदस्तु भयदर्शनम् ।
अर्थापकर्षणं दण्डस्ताडनं बन्धनं तथा ॥८॥
साहसस्तेयपारुष्य गोऽभिशापे तथात्यये ।
भूमौ विवादयेत्क्षिप्रं अकालेऽपि बृहस्पतिः ॥९॥
अन्यवादी क्रियाद्वेषी नोपस्थायी निरुत्तरः ।
आहुतः प्रपलायी च हीनः पञ्चविधः स्मृतः ॥१०॥
कन्याया दूषणे स्तेये कलहे साहसेषु च ।
उपधौ कूटसाक्ष्ये च सद्य एव विवादयेत् ॥११॥
धेनावनडुहि क्षेत्रे स्त्रीषु प्रजनने तथा ।
न्यासे याचितके दत्ते तथैव क्रयविक्रये ॥१२॥
प्राङ्न्याये कारणोक्तौ च प्रत्यर्थी निर्दिशेत्क्रियाम् ।
मिथ्योक्तौ पूर्ववादी तु प्रतिपत्तौ न संभवेत् ॥१३॥
अनुक्त्वा कारणं यत्र पक्षं वादी प्रपद्यते ।
प्रतिपत्तिस्तु सा ज्ञेया कारणं तूत्तरं पृथक् ॥१४॥
सर्वालापं तु यः कृत्वा मिथोऽल्पं अपि संवदेत् ।
सर्वं एव तु दाप्यः स्यादभियुक्तो बृहस्पतिः ॥१५॥
वाक्पारुष्ये च भूम्यौ च दिव्यं तु परिवर्जयेत् ।
विक्रयादानसंबन्धे क्रियादानं अनिच्छति ॥१६॥

२ चतुर्विधं उत्तरम्
अभियुक्तोऽभियोगस्य यदि कुर्यात्तु निह्नवम् ।
मिथ्या तत्तु विजानीयादुत्तरं व्यवहारतः ॥१७॥
श्रुत्वाभियोगं प्रत्यर्थी यदि तत्प्रतिपद्यते ।
सा तु संप्रतिपत्तिस्तु शास्त्रविद्भिरुदाहृता ॥१८॥
अर्थिनाभिहितो योऽर्थः प्रत्यर्थी यदि तं तथा ।
प्रपद्य कारणं ब्रूयात्प्रत्यवस्कन्दनं हि तत् ॥१९॥
योऽर्थिनार्थः प्रभाष्येत प्रत्यर्थी यदि तं तथा ।
प्रपद्य कारणं ब्रूयादाधर्यं मनुरब्रवीत् ॥२०॥
आचारेणावसन्नोऽपि पुनर्लेखयते यदि ।
स विनेयो जितः पूर्वं प्राङ्न्यायस्तु स उच्यते ॥२१॥
तथ्ये तथ्यं प्रयुञ्जीत मिथ्यायां चापि लेखयेत् ।
कारणं कारणोपेते प्राग्जये तु जयं तथा ॥२२॥
भयदृष्टोद्भवा मिथ्या गर्हिता शास्त्रवेदिभिः ।
सत्या संप्रतिपत्तिस्तु धर्म्या सा परिकीर्तिता ॥२३॥
प्राङ्न्यायकरणे तथ्यं श्लाघ्यं सद्भिरुदाहृतम् ।
विपरीतं अधर्म्यं स्यात्प्रत्यर्थी हानिं आप्नुयात् ॥२४॥
अहंपूउर्विकया यातावर्थिप्रत्यर्थिनौ यदा ।
वादो वर्णानुपूर्व्येण ग्राह्यः पीडां अवेक्ष्य च ॥२५॥
एककाले समानीते प्रत्यर्थी सभ्यसंनिधौ ।
पूर्वपक्षाक्षरसमं लेखयेदुत्तरं ततः ॥२६॥
प्रत्यर्थविधिराख्यातः संगतार्थप्रपादने ।
चतुर्विधस्याप्यधुना यत्तद्ग्राह्यं तदुच्यते ॥२७॥
प्रस्तुतादन्यन्मध्यस्थं न्यूनाधिकं असंगतम् ।
अवाच्यसारं संदिग्धं प्रतिपक्षं न लक्षयेत् ॥२८॥
भयं करोति भेदं वा भीषणं वा निरोधनम् ।
एतानि वादिनोऽर्थस्य व्यवहारे स हीयते ॥२९॥
ऋत्विगादिर्नियुक्तस्तु समौ संपरिकीर्तितौ ।
यज्ञे स्वाम्याप्नुयात्पुण्यं हानिं वादेऽथ वा जयम् ॥३०॥
पूर्वोत्तरेऽभिलिखिते यत्र वादी प्रमीयते ।
प्रत्यर्थी वा सुतस्ताभ्यां व्यवहारं विशोधयेत् ॥३१॥
अनिर्णीते विवादे तु विप्रलब्धो भवेन्नृपः पृष्ठ ४१ ।
जयदानं समं न स्यात्तस्मात्कार्याणि निर्णयेत् ॥३२॥
साक्षिणस्तु समुद्दिश्य यस्तु तान्न विवादयेत् ।
त्रिंसद्रात्रात्त्रिपक्षाद्वा तस्य हानिः प्रजायते ॥३३॥
आहूतप्रपलायी च मौनी साक्षिपराजितः ।
स्ववाक्यप्रतिपन्नश्च हीनवादी चतुर्विधः ॥३४॥
प्रपलायी त्रिपक्षेण मौनी वा सप्तभिर्दिनैः ।
साक्षिभिन्नस्तत्क्षणेन प्रतिपन्नश्च हीयते ॥३५॥
निवेदितस्य अकथनं अनुपस्थानं एव च ।
पक्षार्थिदोषौ मौनं च हीयमानस्य लक्षणम् ॥३६॥
महापापोपपापाभ्यां पातकेनाथ संसदि ।
योऽभिशस्तस्तत्क्षमते संयुक्तं तं विदुर्जनाः ॥३७॥
तस्माद्यत्नेन कर्तव्यं बुधेनात्मविशोधनम् ।
यद्यद्गुरुतरं कार्यं तत्तत्पूर्वं विशोधयेत् ॥३८॥
महापापाभिशस्तो यः पातकात्तर्तुं इच्छति ।
पूर्वं अङ्गीकृतं तेन जितोऽसौ दण्डं अर्हति ॥३९॥
आचारकरणे दिव्ये कृत्वोपस्थाननिश्चयम् ।
नोपस्थितो यदा कश्चिच्छलं तत्र न कारयेत् ॥४०॥
दैवराजकृतो दोषस्तत्काले तु यदा भवेत् ।
अवधित्यागमात्रेण न भवेत्स पराजितः ॥४१॥
पुर्वोत्तरे संनिविष्टे विचारे संप्रवर्तिते ।
प्रशमं ये मिथो यान्ति दाप्यस्ते द्विगुणं दमम् ॥४२॥
पूर्वोत्तरार्थे लिखिते प्रक्रान्ते कार्यनिर्णये ।
द्वयोः संतप्तयोः सन्धिः स्यादयःखण्डयोरिव ॥४३॥

३ सन्धिविचारः
साक्षिसभ्यविकल्पस्तु भवेत्तत्रोभयोरपि पृष्ठ ४३ ।
दोलायमानयोः सन्धिः प्रकुर्यातां विचक्षणैः ॥४४॥
प्रमाणसमता यत्र भेदः शास्त्रचरित्रयोः ।
तत्र राजामया सन्धिरुभयोरपि शस्यते ॥४५॥
यत्र सांशायिको धर्मो व्यवहारश्च पार्थिवे ।
सन्धिस्तत्र तु कर्तव्योऽयसोः संतप्तयोर्यथा ॥४६॥
समः सन्धिस्तदा कार्यो विषमस्तु निवर्तते ।
धर्मार्थोपग्रहः कीर्तिः भवेत्साम्येन भूभृतः ।
न क्लिश्यन्ते साक्षिसभ्या ऐरं च विनिवर्तते ॥४७॥
निग्रहानुग्रहं दण्डं धर्मं प्राप्य यशोऽयशः ।
विग्रहाज्जायते नृणां पुनर्दोषस्तथैव च ॥४८॥
तस्मात्कुलगणाध्यक्षा धर्मज्ञाः समदृष्टयः ।
अद्वेषलोभा यद्ब्रूयुस्तत्कर्तव्यं विजानता ॥४९॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:55:22.8500000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

कवकवा

  • पु. ऐंद्रलुप्तक ; एक वनस्पति . - मसाप ४५ . ६ . अमर . 
RANDOM WORD

Did you know?

जीवनात वयाच्या कोणत्या वर्षी कोणती शांती करावी?
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.