TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

बृहस्पतिस्मृतिः - सीमावादः

स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग.


सीमावादः
क्रयविक्रयानुशये विधिरेष प्रदर्शितः ।
ग्रामक्षेत्रगृहादीनां सीमावादं निबोधत ॥१॥

१ सीमासन्धिषु वृक्षादयः स्थाप्याः
सीमावृक्षांश्च कुर्वीरन्न्यग्रोधाश्वत्थकिंशुकान् ।
शाल्मलीशालताडां? लांश्च क्षीरिणश्चैव पादपान् ॥२॥
गुल्मान्वेणूंश्च विविधाञ् शमीवल्लीस्थलानि च ।
शरान्कुब्जकगुल्मांश्च तथा सीमा न नश्यति ॥३॥
तडागान्युदपानानि ..त्प्रस्रवणानि च ।
सीमासन्धिषु कार्याणि देवतायतनानि च ॥४॥
राजा क्षेत्रं दत्त्वा चातुर्वैद्यवणिग्वारिकसर्वग्रामीण तन्महत्तरस्वामिपुरुषाधिष्ठितं परिच्छिन्द्यात् ॥५॥
यदि शूद्रो नेता स्यात्तं क्लैब्येनालंकारेण अलंकृत्य शवभस्मना मुखं विलिप्याग्रेयस्य पशोः शोणितेनोरसि पञ्चाङ्गुलानि कृत्वा ग्रीवायां अन्त्राणि प्रतिमुच्य स्व्येन पाणिना सीमालोष्टं मूर्ध्नि धारयेत् ॥६॥
निवेशकाले कर्तव्यः सीमाबन्धविनिश्चयः ।
प्रकाशोपांशुचिह्नैश्च लक्षितः संशयापहः ॥७॥
अनश्वराणि द्रव्याणि प्रकृत्यैवाविरोधतः ।
वापीकूपतडागानि चैत्यारामसुरालयाः ॥८॥
स्थलनिम्ननदीस्रोतः शरगुल्मनगादयः ।
प्रकाशचिह्नान्येतानि सीमायां कारयेत्सदा ॥९॥

३ सीमावादे साक्षिणः
यदि संशय एव स्याल्लिङ्गानां अपि दर्शने ।
साक्षिप्रत्यय एव स्याद्विवादे सीमनिश्चयः ॥१०॥
साक्ष्यभावे च चत्वारो ग्रामसीमान्तवासिनः ।
सीमाविनिर्णयं कुर्युः प्रयता राजसंनिधौ ॥११॥
सामन्तानां अभावे तु मौलानां सीमसाक्षिणाम् ।
इमानप्यनुयुञ्जीत पुरुषान्वनगोचरान् ॥१२॥
व्याधाञ् शाकुनिकान्गोपान्कैवर्तान्मूलखानकान् ।
व्यालग्राहानुञ्छवृत्तीनन्यांश्च वनगोचरान् ॥१३॥
ते पृष्टास्तु यथा ब्रूयुः सीमासन्धिषु लक्षणम् ।
तत्तथा स्थापयेत्राजा धर्मेण ग्रामयोर्द्वयोः ॥१४॥
शिरोभिस्ते गृहीत्वोर्वीं स्रग्विणो रक्तवाससः ।
सुकृतैः शापिताः स्वैः स्वैः ब्रूयुस्ते तु समंजसम् ॥१५॥
निबध्नीयात्तथा सीमां सवींस्तांश्चैव नामतः ।
प्रकाशचिह्नान्येतानि सीमायां कारयेत्सदा ॥१६॥

४ अप्रकाशचिह्नानि
निहितानि तथान्यानि यानि भूमिर्न भक्षयेत् ।
उपच्छत्रानि चान्यानि सीमालिङ्गानि कारयेत् ॥१७॥
सीमाज्ञाने तृनं वीक्ष्य लोके नित्यविपर्ययम् ।
श्मशानोऽस्थीनि गोबालास्तथा भस्मकपालिकाः ॥१८॥
करीषं इष्टकाङ्गार शर्करा बालुकांस्तथा ।
तानि सन्धिषु सीमाया अप्रकाशानि कारयेत् ॥१९॥
करीषास्थितुषाङ्गार शर्कराश्मकपालिकाः ।
सिकतेष्टकगोबाल कार्पासास्थीनि भस्म च ॥२०॥
प्रक्षिप्य कुम्भेष्वेतानि सीमान्तेषु निधापयेत् ।

५ प्रयत्नदर्शितव्यचिह्नानि
ततः पौगण्डबालानां प्रयत्नेन प्रदर्शयेत् ॥२१॥
वार्धके च शिशूनां ते दर्शयेयुस्तथैव च ।
एवं परंपराज्ञाने सीमाभ्रान्तिर्न जायते ॥२२॥
कुरुते दानहरणं भाग्याभाग्यवशान्नृणाम् ।
एकत्र कूलपातं तु भूमेरन्यत्र संस्थितिः ॥२३॥
नदीतीरं प्रकुरुते तस्यैतां न विचालयेत् ।
क्षेत्रं ससस्यं उल्लङ्घ्य भूमिश्च्छिन्ना यदा भवेत् ॥२४॥
नदीस्रोतःप्रवाहेण क्षेत्रस्वामी लभेत ताम् ।
या राज्ञा क्रोधलोभेन बलान्न्यायेन वा हृता ॥२५॥

६ गृहक्षेत्रविवादसाक्षिनिर्णयः
गृहक्षेत्रविवादेषु सामन्तेभ्यो विनिर्णयः ।
नगरग्रामगणिनो ये च वृद्धतमा नराः ॥२६॥
कीनाशशिल्पिभृतका गोपव्याधोञ्छजीविनः ।
मूलखानककैवर्त कुल्या भेदकबाधकाः ॥२७॥
आगमं च प्रमाणं च भोगं कामं च नाम च ।
भूभागलक्षणं चैव ये विदुस्तेऽत्र साक्षिणः ॥२८॥
प्रदत्तान्यस्य तुष्टेन न सा सिद्धिं अवाप्नुयात् ।
या राज्ञा क्रोधलोभेन छलान्न्यायेन वा हृता ॥२९॥
प्रमाणरहितां भूमिं भुञ्जतो यस्य या हृता ।
गुणाधिकस्य दत्ता वा तस्य तां नैव चालयेत् ॥३०॥
शापथैः शापिताः स्वैः स्वैः ब्रूयुः सीम्नि विनिश्चयम् ।
दर्शयेयुर्निधानानि तत्प्रमाणं इति स्थितिः ॥३१॥
सत्येन शापयेद्विप्रं क्षत्रियं वाहनायुधैः =ंन्_८.११३अ ॥३२॥
ज्ञातृचिह्नैर्विना साधुरेकोऽप्युभयसंमतः ।
रक्तमाल्याम्बरधरो मृदं आदाय मूर्धनि ॥३३॥
सत्यव्रतः सोपवासः सीमान्तं दर्शयेन्नरः ॥३४॥
सामन्ताश्चेन्मृषा ब्रूयुः सेतौ विवदतां नृणाम् ।
सर्वे च ते पृथग्दण्ड्या राज्ञा मध्यं असाहसम् ॥३५॥
यथोक्तेन नयन्तस्ते पूयन्ते सत्यसाक्षिणः ।
विपरीतं नयन्तस्तु दाप्याः स्युर्द्विशतं दमम् ॥३६॥
सर्वस्मिन्स्थावरे वादे विधिरेष प्रकीर्तितः ॥३७॥
तदुत्पन्नाश्च सामन्ता येऽन्यदेशे व्यवस्थिताः ।
मौलास्ते तु समुद्दिष्टाः प्रष्टव्याः कार्यनिर्णये ॥३८॥
अदुष्टास्ते तु यद्ब्रूयुः संदिग्धौ समवृत्तयः ।
तत्प्रमाणं तु कर्तव्यं एवं धर्मो न हीयते ॥३९॥
अन्यग्रामात्समाहृत्य दत्तान्यस्य यदा मही ।
अन्यथा तु भवेल्लाभो नराणां राजदैविकः ॥४०॥
महानद्याथवा राज्ञा कथं तत्र विचारणा ।
नद्योत्सृष्टा राजदत्ता यस्य तस्यैव सा मही ।
अन्यथा तु भवेल्लाभो नराणां राजदैविकः ॥४१॥
क्षयोदयौ जीवनं च दैवराजवशान्नृणाम् ।
तस्मात्सर्वेषु कालेषु तत्कृतं न विचालयेत् ॥४२॥
ग्रामयोरुभयोर्यत्र मर्यादा कल्पिता नदी ।
कुरुते दानहरणं भाग्याभाग्यवशान्नृणाम् ।
क्षयोदयेन चाल्पा च चालयन्दण्डं अर्हति ॥४३॥
दशग्रामशतग्राम सहस्रग्रामलक्षणाम् ।
विषमां नृपतिः कुर्याच्चिह्नैः सीमां विनिश्चिताम् ॥४४॥
निवेशकालादारभ्य गृहवर्यापणादिकम् ।
येन यावद्यथा भुक्तं तस्य तन्न विचालयेत् ॥४५॥
वातायनप्रणालीस्तु तथा निर्यूहवेदिकाः ।
चतुःशालस्यन्दनिकाः प्राङ्निविष्टा न चालयेत् ॥४६॥
मेखलाभ्रमनिष्कास गवाक्षान्नोपरोधयेत् ।
प्रणालीं गृहवास्तुं च पीडयन्दण्डभाग्भवेत् ॥४७॥
निवेशसमयादूर्ध्वं नैते योज्याः कथंचन ।

७ गृहनिर्माणेऽकार्याणि
दृष्टिपातं प्रणालीं च न कुर्यात्परवेश्मनि ॥४८॥
वर्चस्थानं वह्निं अयं गर्तोच्छिष्टाम्बुसेचनम् ।
अत्यारात्परकुड्यस्य न कर्तव्यं कदाचन ॥४९॥
विण्मूत्रोदकवप्रांश्च वह्निश्वभ्रनिवेशनम् ।
अरत्निद्वयं उत्सृज्य परकुड्यां निवेशयेत् ॥५०॥
यान्त्यायान्ति जना येन पशवश्चानिवारिताः ।
तदुच्यते संसरणं न रोद्धव्यं तु केनचित् ॥५१॥
यस्तत्र संकरं श्वभ्रं वृक्षारोपणं एव च ।
कामात्पुरीषं कुर्याच्च तस्य दण्डस्तु माषकः ॥५२॥
गृहीत्वा वाहयेत्काले वापगोपनसंग्रहान् ।
अकुर्वन्स्वामिने दाप्यो मध्यं कृष्टशदं तु सः ॥५३॥
क्षेत्रं गृहीत्वा यः कश्चिन्न कुर्यान्न च कारयेत् ।
स्वामिने स शदं दाप्यो राज्ञे दण्डं च तत्समम् ॥५४॥
चिरावसन्ने दशमं कृष्यमाणे तथाष्टमम् ।
सुसंस्कृते तु षष्ठं स्यात्परिकल्प्य यथाविधि ॥५५॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:55:23.8200000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

टिरटिर

  • स्त्री. १ क्षणभंगुर तेजस्विता , चकचकाट , आनंद ( एखाद्या भिकार्‍याला एकाएकीं मिळालेल्या पैशानें होणारा किंवा एखाद्या महत्त्वाकांक्षी माणसास थोडयाशा प्राप्तीनें मिळालेल्या साधनांपासून होणारा ); दरिद्रयाचा चार दिवसांचा श्रीमंती डौल . [ घ्व . ] टिरटिरां - क्रिवि . चमकून ; चकचकाटानें ; झगझगीनें . [ घ्व . ] 
RANDOM WORD

Did you know?

श्रावण महिन्यांत महादेवाच्या पिंडीवर दुधाचा अभिषेक कां करावा? त्याचे पुण्य काय?
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site