बृहस्पतिस्मृतिः - द्यूतम्

स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग.


द्यूतं निषिद्धं मनुना सत्यशौचधनापहम् ।
तत्प्रवर्तितं अन्यैस्तु राजभागसमन्वितम् ॥१॥
सभिकाधिष्ठितं कार्यं तस्करज्ञानहेतुना ।
एष एव विधिर्ज्ञेयः प्राणिद्यूतसमाह्वये ॥२॥

१ सभिकवृत्तिः
सभिको ग्राहकस्तत्र दद्याज्जेत्रे नृपाय च ।
राजवृद्धिः सकितवात्सभिकाद्दशकं शतम् ॥३॥
यथासमयं वा स्यात्. .... .... ॥४॥

२ स्वामिनोर्जयपराजयः
द्वन्द्वयुद्धेन यः कश्चिदवसादं अवाप्नुयात् ।
तत्स्वामिना पणो देयो यस्तत्र परिकल्पितः ॥५॥
रहोजितोऽनभिज्ञश्च कूटाक्षैः कपटेन वा ।
मोच्योऽभिज्ञोऽपि सर्वस्वं जितं सर्वं न दाप्यते ॥६॥

३ कूटद्यूतदण्डः
कूटाक्षदेविनः पापा राजभागहराश्च ये ।
गणनावञ्चकाश्चैव दण्ड्यास्ते कितवाः स्मृताः ॥७॥
ग्रहः प्रकाशः कर्तव्यो निर्वास्याः कूटदेविनः ।
व्यापादने तु तत्कारी वधं चित्रं अवाप्नुयात् ॥८॥

४ संदिग्धजयपराजयनिर्णयः
स एव साक्षी संदिग्धौ सभ्यैश्चान्यैस्त्रिभिर्वृतः ।
उभयोरपि संदिग्धं कितवास्तु परीक्षकाः ॥९॥
यदा विद्वेषिणस्ते तु तदा राजा विचारयेत् ॥१०॥
एवं वादिकृतान्वादान्प्रपश्येत्प्रत्यहं नृपः ।
नृपाश्रयास्तथा चान्ये विद्वद्भिर्ब्राह्मणैः सह ॥११॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP