बृहद्यात्रा - देहस्पन्दन

‘ गणित ज्योतिष' या विषयावरील वराहमिहीराने लिहीलेला हा ग्रंथ ज्योतिषप्रेमींसठी अत्यंत उपयोगी आहे


दक्षिणपार्श्वस्पन्दनम् अभिधास्ये तत्फलक्षयो वामे ।

पृथिवीलाभः शिरसि स्थानविवृद्धिर् ललाटे स्यात् ।

भ्रूनासिकान्तरे प्रियसमागमो भृत्यलब्धिर् अक्षिणोस् तु ।

दृक्पर्यन्ते ऽर्थाप्तिः पूर्वे ज्ञेयात्र चोत्कण्ठा ॥

योषित्सौख्यं गण्डे दृक्चरमाधश् च सङ्गरे विजयः ।

श्रवणे च हितश्रवणं नासायां प्रीतिसौख्यं च ॥

अधरोत्तरौष्ठयोः प्रियसमागमविजयौ गले च भोगाप्तिः ।

अंसे भोगविवृद्धिर् वाहाविष्टेन संयोगः ॥

हस्ते ऽर्थाप्तिः पृष्ठे पराजयो वक्षसि स्मृतो विजयः ।

प्रीत्युत्पत्तिः पार्श्वे स्तने त्व् अपूर्वा विषयलब्धिः ॥

कट्यां बलप्रमोदः स्थानभ्रंशः प्रकीर्तितो नाभौ ।

हस्ते कोशविवृद्धिः क्लेशो हृदये ऽर्थपर्यन्तः ॥

वाहनलाभः स्फिग्यायुर्वृषणे योषिदागमः शिश्ने ।

मुष्के तनयोत्पत्तिर् वस्ताव् अन्तःपुराभ्युदयः ॥

पृष्ठत ऊर्वोर् दोषः पुरतश् चलने तु शचिवहितलब्धिः ।

प्रचलति च जानुसन्धाव् अरिसन्धानं बलवद् उक्तम् ॥

देशैकदेशनाशो जंघायां स्थानलब्धिरंध्र्य् उपरि ।

अध्वागमनम् अलाभं चरणतले स्पन्दमाने तु ॥

व्रणपिटकतिलकलांछनमशकादायस् त्व् एव निर्दिष्टाः (स्युः ) ।

कण्डूयनं नरपतेर् दक्षिणपाणौ जयायैति ॥

N/A

References : N/A
Last Updated : January 16, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP