बृहद्यात्रा - वायसेङ्गित

‘ गणित ज्योतिष' या विषयावरील वराहमिहीराने लिहीलेला हा ग्रंथ ज्योतिषप्रेमींसठी अत्यंत उपयोगी आहे


शस्तो नीडस् तु वैशाखे पदपे निरुपद्रवे ।

देशोत्थानं तु वल्मीकचैत्यधान्यगृहादिषु ॥

काकानां श्रावणे द्वित्रिचतुःशावाः शुभावहाः ।

गैरिकश्वेतचित्राश् च वर्णाश् चौराग्निमृत्युदाः ॥

अण्डावकिरणे ध्वांक्षा दुर्भिक्षमरकाव् उभौ ।

शावानां विकलत्वे वा निःशावत्वे कृताथवा ॥

हरेद् उपनयेद् वापि यद् द्रव्यं वायसो ऽग्रतः ।

तन् नाशलब्धौ विज्ञेयौ हेमपीते विनिर्दिशेत् ॥

रक्तद्रव्यं प्रदग्धं वा न्यसन् गेहे ऽग्निदः स्मृतः ।

तृणभस्मास्थिकेशांश् च शयने स्वामिमृत्युदः ॥

पुरसैन्योपरि व्योम्नि व्याकुलैर् अनिलाद् भयम् ।

सव्यमण्डलगैः स्वार्थम् अपसव्यैः परोद्भवम् ॥

अकार्यसहितैर् भेदो रोधश् चक्राकृतिस्थितैः ।

वर्गतश् चाभिघातः स्याद् रिपुवृद्धिश् च निर्भयैः ॥

उपानच्छत्रयानाङ्गशस्त्रच्छायावकुट्टने ।

मृत्युं तत्स्वामिनो ब्रूयात् पूजा स्यात् तत्प्रपूजने ॥

काष्ठरज्ज्वस्थिनिःसारकेशकण्टकभृद् रुवन् ।

व्यालाहिव्याधिशस्त्राग्नितस्करेभ्यो भयङ्करः ॥

युद्धं सेनाङ्गसंस्थेषु मोषकृत् स्वावलेखने ।

चरन् निशि विनाशाय दुर्भिक्षं धान्यमोषकृत् ॥

वामपार्श्वस्थितः श्रेष्ठो दक्षिणाद् वापि वामगः ।

ध्वांक्षः पार्श्वद्वयेनापि शस्तो यात्रानुलोमगः ॥

यातुः कर्णसमो ध्वांक्षः क्षेम्यो नार्थप्रसादकः ।

वामादक्षिणगो नेष्टो वा समानः प्रतीपगः ॥

विरुवन् चाग्रतः पक्षे धून्वन् ध्वांक्षो भयप्रदः ।

प्रत्युरस्य् उपसर्पन् च संस्पर्शन् च तथा भवेत् ॥

एकपादो चलत्पक्षः काको ऽवस्कन्दखेटकः ।

वधबन्धकरो वाशन् खरसूकरपृष्ठगः ॥

पङ्कदिग्धशरीरस्य वराहस्योपरिस्थितः ।

वायसः शस्यते यातुस् तूष्णीभूतो रुवन्न् अपि ॥

क्षीरवृक्षाजमहिषीगोस्थितो गोरसप्रदः ।

अन्नदः पर्णविच्छेदी पानदो जलकुट्टनात् ॥

N/A

References : N/A
Last Updated : January 16, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP