बृहद्यात्रा - ग्रहस्थानबल

‘ गणित ज्योतिष' या विषयावरील वराहमिहीराने लिहीलेला हा ग्रंथ ज्योतिषप्रेमींसठी अत्यंत उपयोगी आहे


सन्तापशोकगदविघ्नकृद् उद्गमे ऽर्कः कल्याणमानबलहार्दिहरो द्वितीये ।

हेमान्नविद्रुममणिक्षितिदस् तृतीये वैराग्यबन्धुकलहारतिदश् चतुर्थे ॥

पुत्रापदं सुतगृहे ऽध्वनि चार्थसिद्धिं षष्ठे ऽभिवांछितफलाप्तिम् अरिक्षयं च ।

द्यूने कलत्रकलहं धनसंक्षयं च मृत्युं करोति निधने सविता रुजं च ॥

धर्मं हिनस्ति नवमे सवितार्थदश् च हत्वा वियत्यविदितं श्रमकर्मदाता ।

रत्नागमं सुबहु लाभगतः करोति कृत्वा व्ययं व्ययगतः कुरुते ऽर्थम् अल्पम् ॥

लग्ने शशी कलहशोककरो न पूर्णः स्त्रीवाजिरत्नसुहृदात्मजदः कुटुम्बे ।

दुश्चिक्यगो युवतिरत्नधनप्रदाता बन्ध्वाप्तिदः सुहृदि तत्क्षयदश् च कृष्णे ॥

अर्थप्रदस् तनयगः सुतशोककृच् च मित्रारितां प्रकुरुते न सुखं च षष्ठे ।

अस्ते ऽर्थभूयुवतिदो ऽर्थविनाशदो ऽणुश् चन्द्रो ऽष्टमे निधनशोककरः प्रयातुः ॥

प्रत्येति चाशु नवमे कुरुते च कार्यं क्षीणे क्षयो वियति वृद्धिरतो ऽन्यथास्थे ।

ऐश्वर्यसौख्यधनलाभम् उपैते लाभे क्लेशक्षयव्ययभयानि च रिष्फयाते ॥

लग्ने विषाग्निरुधिरागमशस्त्रबाधा भिन्द्याद् बलं धनगतो ऽर्थकरश् च पश्चात् ।

दुश्चिक्यगो युवतिरत्नधनाम्बराप्तिं बन्धुक्षयारिभयदो हिबुके महीजः ॥

पुतापदं क्षितिसुतः कुरुते सुतस्थः शत्रुप्रणाशम् अचिराद् अरिगः करोति ।

अर्थक्षयारतिगदार्दनमस्तसंस्थो बन्धार्थहानिगदमृत्युभयानि मृत्यौ ॥

धर्मं न साधयति धर्मगतो महीजः शस्तो ऽम्बरे न शुभदः कथितो ऽपरिश् च ।

लाभे ऽर्थसिद्धिविभवागमदः प्रयातुर् वित्तक्षयं बहु करोति गतश् च रिष्फे ॥

लग्ने कीर्तिसुखार्थबुद्धिविजयान् प्राप्नोति वित्तं धने

सोत्कण्ठं स विरागमेति सहजे कामान् लभेताखिलान् ।

पाताले शयनान्नपानविभवान् पुत्रागमं पञ्चमे

षष्ठे यात्य् अरिबाध्यतां शशिसुते क्लेशश् च यातुर् भवेत् ॥

जायास्थे प्रवराङ्गनाम्बरधनप्राप्तिर् बुधे ऽर्काच्युते

केचित् क्लेशम् उशन्ति नैधनगते शंसन्ति केचिच् छुभम् ।

धर्मे धर्मविवृद्धिर् अम्बरगते सिद्धिर् भवेद् ईप्सिता

विद्यार्थाप्तिर् अयत्नतश् च परतो रिष्फे च वाच्यो व्ययः ॥

कीर्तिर् लग्ने ऽर्थाथसिद्धिर् द्वितीये दुश्चिक्यस्थे क्षुच्छ्रमार्तिः सुरेज्ये ।

पातालस्थे धर्मतत्वाभिमाना कार्यं सिध्यत्य् आत्मजस्थे ऽप्य् असाध्यम् ॥

षष्ठे जीवे शत्रुरायाति वश्यं केचित् प्राहुर् वश्यतां याति शत्रोः ।

विन्दन्त्य् अस्ते ऽरिष्टयोषायशांसि मृत्यौ प्राणान् हन्त्य् अथान्ये जगुर् न ॥

पुत्रोत्पत्तिर् धर्मसिद्धिश् च धर्मे जीवे कर्मण्य् अर्थसिद्धिर् यशश् च ।

लाभे कार्यं वाञ्छितं याति सिद्धिः रिष्फे प्राप्ते क्लिश्यते ऽनेकदुःखैः ॥

वेश्यार्थाम्बरमाल्यभोजनसुखप्राप्तिर् विलग्ने भृगौ

लाभो ऽर्थे सहजे न सीदति गतः प्राप्नोति श्रेष्ठां श्रुतिम् ।

पाताले सुहृदागमः सुतगृः स्थानार्थमानागमः

षष्ठे शत्रुपराभवारतिशुचं स्थाने ऽन्यथा तज्जगुः ॥

दत्त्वा स्त्रीधनम् अस्तगः स्वविषयव्युच्छित्तिदो भार्गवः

कार्यं साधयते ऽष्टमे ऽथ नवमे क्षिप्रं करोतीप्सितम् ।

यातुः कर्मगतः प्रभूतधनदो लाभे जयार्थप्रदो

व्यर्थं द्वादशगो व्ययं प्रकुरुते शस्तो ऽपरैर् द्वादशे ॥

बन्धं वधं चार्कसुते विलग्ने धने अर्थहानिं लभते शुभं च ।

शत्रोर् बलं हन्ति गतस् तृतीये चतुर्थगो बन्धुभयं परेभ्यः ॥

नार्थस्य सिद्धिः सुतगे ऽर्कपुत्रे रिपून् रिपुस्थे सृजयत्य् अयत्नात् ।

उत्साहभङ्गो ऽक्षिरुजश् च दारे विषाग्निशस्त्रादिवधो ऽष्टमस्थे ॥

धर्मे न धर्मं लभते सुखञ् च यानावृतिं कर्मफलं च स्वस्थे ।

एकादशस्थे जयवित्तलाभान् मन्दे ऽन्त्यगे नार्थम् उपैति याता ॥

प्रायो जगुः सहजशत्रुदशायसंस्थाः

पापाः शुभाः सवितृजं परिहृत्य खस्थम् ।

सर्वत्रगाः शुभफलं जनयन्ति सौम्यास्

त्यक्त्वास्तसंस्थममरारिगुरुं जिगीषोः ॥

केचित् प्राहुर् अरिव्ययास्तसहजस्थानानि हित्वा भृगुः

श्रेष्ठश् चन्द्रसुतो ऽन्त्यधर्मसहजद्यूनस्थितो नेतरः ।

चन्द्रो लाभसुतार्थधर्मसहजव्योमस्थितः पूजितो

जीवः सर्वगतो मणित्थकथितो नेष्टो ऽन्त्यषट्स्त्र्याश्रितः ॥

एकीयपक्षे ऽपि हि कैश्चिद् उक्तो भृगुः शुभो ऽन्त्यात्मजलाभवर्जम् ।

चन्द्रस्त्रिषष्ठायदशास्तसंस्थो बुधो ऽस्तलग्नायसुहृद्व्ययस्थः ॥

N/A

References : N/A
Last Updated : January 16, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP