बृहद्यात्रा - चित्तशुद्धि

‘ गणित ज्योतिष' या विषयावरील वराहमिहीराने लिहीलेला हा ग्रंथ ज्योतिषप्रेमींसठी अत्यंत उपयोगी आहे


पृष्टव्यो दैवविदा विश्रब्धम् उपह्वरे नराधिपतिः ।

रिपुनिधनप्रणिधानं प्रति भवतः किं मनः कुरुते ॥

ब्रूयात् स चेन् मम मनः प्रोत्सहते हर्षयेत् ततश् चैवम् ।

चित्तानुकूलता सिद्धिलक्षणं तत्र च श्लोकाः ॥

शुभाशुभानि सर्वाणि निमित्तानि स्युर् एकतः ।

एकतश् च मनश्शुद्धिस् तद् धि शुद्धं जयावहम् ॥

कियच् चिरं न लभ्येत निमित्तं गमनानुगम् ।

न त्व् एव तु मनो ऽनर्थं चिरेणाप्य् अनुमन्यते ॥

निमित्तानुचरं सूक्ष्मं देहेन्द्रियमहत्तरम् ।

तेजो ह्य् एतच् छरीरस्थं त्रिकालफलदं नृणाम् ॥

प्रीयते न मनो ऽनर्थैर् नासिद्धाव् अभिनन्दति ।

तस्मात् सर्वात्मना यातुर् अनुमेयं सदा मनः ॥

N/A

References : N/A
Last Updated : January 16, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP