TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

बृहद्यात्रा - अग्निलक्षण

‘ गणित ज्योतिष' या विषयावरील वराहमिहीराने लिहीलेला हा ग्रंथ ज्योतिषप्रेमींसठी अत्यंत उपयोगी आहे


अग्निलक्षण

कृत्वैवं ग्रहपूजाम् ऋचा ततश् चाग्निलिङ्गया जुहुयात् ।

श्लोकांश् चास्मिन्न् अर्थे काश्यपमुनिचोदितान् वक्ष्ये ॥

ततो ऽप्रतिरथं कृत्स्नं यात्रालिङ्गं च यद् भवेत् ।

आयुष्यम् अभयं चैव सर्वं चैवापराजितम् ॥

शर्मवर्मगणं चैव तथा स्वस्त्ययनं गणम् ।

एतान् पञ्चगणान् हुत्वा संस्थाप्याग्निं यथाविधि ॥

भूत भूतेति च गणं यत्ते चन्द्रस् तथैव च ।

ऐन्द्रो गणस् तथा चान्द्रो मन्त्राशीःसूक्तम् एव च ॥

भूयो भूयस् तथा ज्वालां संस्पृश्याथ पुरोहितः ।

स्पृशेच् च नृपतिं मन्त्रैर् उच्चैर् ब्रूयात् पुनः पुनः ॥

चक्षुर्दः प्राणदश् चापि वर्चोदश् च भव प्रभो ।

अनाधृष्यतमश् चासि यथा त्वं हव्यवाहन ॥

शात्रवाणां तथा राजाप्य् अनाधृष्यो भवत्य् अयम् ।

हूयमाने निमित्तानि वक्ष्याम्य् अहम् अतः परम् ॥

कम्पोत्कासविजृम्भणप्रचलनस्वेदाश्रुपातक्षुधो -

द्गाराद्यं च पुरोधसः स्मृतिविपच् चानिष्टम् अन्यच् छुभम् ।

आज्यं केशपिपीलिकामलयुतं सत्त्वावलीढं च यत्

तन् नेष्टं शुभम् अन्यथोपकरणं द्रव्याण्य् अनूनानि च ॥

उत्थाय स्वयम् उज्ज्वलार्चिर् अनलः स्वाहावसाने हविर्

भुक्ते देहसुखः प्रदक्षिणगतिः स्निग्धो महान् संहतः ।

निर्धूमः सुरभिः स्फुलिङ्गरहितो यात्रानुलोमो मृदुर्

मुक्तेन्दीवरकाञ्चनद्युतिधरो यातुर् जयं शंसति ॥

इष्टद्रव्यघटातपत्रतुरगश्रीवृक्षशैलाकृतिर्

भेर्यब्दोदधिदुन्दुभीभशकटस्निग्धस्वनः पूजितः ।

नेष्टः प्रोक्तविपर्ययो हुतवहः स्निग्धो ऽन्यथापीष्टदः

सव्ये ऽङ्गे नृपतिं दहन्न् अतिहितः शेषं च लोकाद् वदेत् ॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2012-01-16T20:50:47.7200000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

ionisation spectrometer

  • आयनन पिसारणमापी 
RANDOM WORD

Did you know?

घरातील देव्हारा कोणत्या वस्तुपासून बनविलेला असावा?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site