TransLiteral Foundation

बृहद्यात्रा - नक्षत्रबल

‘ गणित ज्योतिष' या विषयावरील वराहमिहीराने लिहीलेला हा ग्रंथ ज्योतिषप्रेमींसठी अत्यंत उपयोगी आहे


नक्षत्रबल

दिशि दिशि बहुलाद्याः सप्तकाः प्राक्प्रवृत्ताः

पवनदहनदिक्स्थस् तिर्यग् अत्युग्रदण्डः ।

सुरपतिर् अपि कृच्छ्रं याति तं लंघयित्वा

ननु भवति विरोधो दिक्षु दण्डैकगासु ॥

प्राग्द्वारिकैर् अनलदिङ् न विरोधम् एति शेषाः प्रदक्षिणगताः विदिशः प्रकल्प्याः ।

उल्लंघ्य दण्डम् अपि कामम् इयान् नरेन्द्रः शूलं विहाय यदि दिङ्मुखलग्नशुद्धिः ॥

ज्येष्ठायां पुरुहूतदिङ्मुखगतः प्राप्तो बलिर् बन्धनं

याम्याम् आजपदे मुरश् चलितवान् यातो मुरारेर् वशम् ।

रोहिण्यां नमुचिः प्रतीच्य् अभिगतः पूर्तिं गतो वज्रिणा

सौम्याम् अर्यमदैवते च गतवान् मृत्योर् वशं शम्बरः ॥

पुष्यो ऽथ हस्तः श्रवणः श्रविष्ठा प्राच्यादिमुख्यान्य् उदग् अश्वियुक् च ।

नैशाकरं त्वाष्ट्रम् अथानुराधा पौष्णं च मध्यानि तथाहुर् एके ॥

सर्वद्वारिकसंज्ञितानि गुरुभं हस्ताश्विमैत्राणि च

श्रेष्ठान्य् ऐन्दवपौष्णविष्णुवसुभान्य् आद्यैः सहाष्टौ सदा ।

रौद्राजाहियमानिलानलमघाशाक्ताग्निभिर् निन्दितं

यानं त्वष्ट्रनिलान्तरे ऽग्नियमयोः पित्र्योरजे चान्तरे ॥

स्वे स्वे कर्मणि पूजितानि मुनिभिः शुद्धानि सर्वाण्य् अपि

त्यक्त्वार्कोदयम् आनले ऽरिविषयं यात्रा दिघक्षोः शुभा ।

रोहिण्यां त्रिषु चोत्तरेषु विजयो यातुर् विशाखासु च

त्यक्त्वा वासरपूर्वभागम् अवदद् गर्गो ऽधिराज्यार्थिनः ॥

मूलेन्दूरगशङ्करेष्व् अरिवधे यायाद् दिनार्धं विना

भृत्यर्थं पवनाश्विसूर्यगुरुभेष्व् अह्नो ऽपरार्धं विना ।

रात्र्यादौ तु न पौष्णमैत्रशशिभत्वाष्ट्रेषु वांछन् द्युतिं

रात्रेर् मध्यम् अपास्य पूर्वभरणीपित्र्येषु हन्तुं पराः ॥

निशान्तभागे त्रिषु वैष्णवाद्येष्व् इयाद् धनार्थी न पुनर्वसौ च ।

निषेधयन्त्य् अम्बुपसंज्ञकस्य मध्याह्नम् एके सनिशान्तभागम् ॥

यथेष्टवेलागमनं प्रशस्तं हस्तैन्दवोपेन्द्रसुरेज्यभेषु ।

कृत्वा प्रयाणं श्रवणे श्रियो ऽर्थी विशेन् न जातुः क्षितिपः स्वसीम्नि ॥

सौम्ये गत्वाध्युष्य रौद्रे ऽदितीशे संप्रस्थाता बाधते शत्रुसंघान् ।

मैत्रे गत्वा पौरुहूते समुष्य ? मूले यायाच् छत्रुनाशाय भूपः ॥

हस्ते गत्वा स्वातिचित्रे समुष्य शक्राग्न्यृक्षे प्रस्थितो बाधते ऽरीन् ।

तिष्ये पौष्णे वासवे चैकरात्रं सीम्नि स्थित्वा भूतिम् आप्नोति याता ॥

ऋक्षे पापैः संयुते ऽन्तः प्रकोपो लक्ष्मीभ्रंशो राहुणार्केण रोगः ।

केतूल्काभ्यां पीडिते देशनाशः क्लेशः सौरे सोष्णरश्म्यात्मजे च ॥

दिङ्म् (आर्ग )धूपपरिवेशविकम्पपांसुयुक्तेष्व् अथानयगदश्रमरोगपीडाः ।

भिन्ने ग्रहेण वशताम् उपयाति शत्रोः सन्ध्यारात्रे ऽशनिहते ऽजविघात उक्तः ॥

जन्मादि कर्म ततो दृशन् न (व )मं संघातिकं चोडुभागम् ।

समुदयम् (आ )द्याद् दश (मं ) भ्रमविनाशसंज्ञं च त्रयोर्विंशम् ॥

आद्यात् तु पंचविंशं मानसमेतं नरः षडृक्षः स्यात् ।

मानवनक्षत्रो नृपतिर् आद्यात् तद् एवाभिषेकर्क्षम् ॥

नामानुरूपम् एषां सदसत्फलम् इष्टपापगुणदोषैः ।

जन्मर्क्षादिविशुद्धौ याता शत्रून् जयत्य् अचिरात् ॥

जन्मभकर्माधानोदितास् तु सम्पद्विपत्कराः क्षेमाः ।

प्रत्यरिसाधकवैनाशिकाः स्युर् मित्रातिमित्रे च ॥

मित्रातिमित्रसाधकसम्पदः क्षेमेषु कर्मभे यथा ।

प्राप्नोति नावशेषेष्व् अभिषेकपुरस्ताद् यातस् तु ॥

सितसिद्धार्थकशालिप्रियङ्गुमदयन्तिकाम्बुभिः पुष्ये ।

स्नात्वा यायात् प्राचीं सौम्ये सहस्रमणितोयैः ॥

गोशृङ्गाप्यनदीगिरिवल्मीकतडागमृत्समायुक्तैः ।

तोयैः स्नात्वा नृपतिर् यायाद् याम्यां दिशं हस्ते ॥

सरिदभ्याकुलमृड्भिः स्नात्वा (च )चैत्रे प्राग्दिशं यायात् ।

श्रवणे तु नदीसङ्गममृत्सलिलैः पच्चिमाम् एव ॥

मधुभद्रदारुसहितैः स्नात्वा तोयैर् उदक् श्रविष्ठासु ।

गोगजविषाणकोशैर् मधुघृतपूर्णैर् उदक् पौष्णे ॥

उदग् वै वैश्वदेवे स्नात्वा मधुपूथिकापूर्तसलिलैः ।

नक्सत्रदेवमन्त्रैश् चाग्निं हुत्वा जयं लभते ॥

अक्षतमाषाः खिन्नास् तिलसहितास् तण्डुला दधि च गव्यम् ।

वृषभपिशितं मृगस्य च पञ्चानाम् आश्विनादीनाम् ॥

रुधिरविलायनपायसभुजङ्गमांसानि शाङ्करादीनाम् ।

पित्र्ये तिलौदनं षष्टिकान्नम् ऋक्षद्वये परतः ॥

प्राश्याः प्रियङ्गुचित्राण्डजाः फलं यावकं कुलत्थाश् च ।

मधुसर्पिषी च हस्तान् मूलान्य् अम्बूनि सक्तवो मूलात् ॥

श्रवणादीनाम् अद्याच् छालिं शाकं बिडालमांसं च ।

आज्यं यथेष्टमांसं च सक्तवो माषसंयुक्ताः ॥

प्राश्यादि घृतं तिलौदनं मत्स्याः क्षीरम् इति प्रदक्षिणम् ।

अद्यान् नृपतिर् यथादिशं नक्षत्राभिहितं च सिद्धये ॥

अस्वादु च्युतकचमक्षिकानुविद्धं दुर्गन्धि क्षयकृद् अभूरि यच् च दग्धम् ।

सुस्विन्नं मुदु रुचिरं मनोनुकूलं स्वाद्वन्नं बहु विजयाय यानकाले ॥

गुणवति तिथाव् ऋक्षे ऽनिष्टे दिवा गमनं हितं

निशि च भगने शस्तं यानं तिथौ गुणवर्जिते ।

भतिथिगदितान् दोषान् प्राप्नोत्य् अतः प्रतिलोमगो

गुणम् अपि तयोः सम्यग् यातुर् जगाद भृगुर् मुनिः ॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2012-01-16T20:50:39.5300000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

कमर भरणें

  • १. कमर धरणें 
  • कमर दुखणें. २. (चांभार काम) टांच व टाळा यामधील भागात भर घालणें. 
RANDOM WORD

Did you know?

कपिलाषष्ठीचा योग म्हणजे काय?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.