श्रीदत्तात्रेयकल्पः - श्रीदत्तवज्रकवचम्

‘ श्रीदत्तात्रेयकल्प :’ अतिशय दुर्मिळ ग्रंथ असून याप्रमाणे श्रीदत्ताची पूजा केल्याने मानवाच्या सर्व विकृत बाधा नष्ट होतात .


अथ श्रीद त्त वज्रकवचम्

श्रीगणेशाय नमः ॥ ऋषय ऊचुः - कथं संकल्पसिद्धिःस्याद्वेदव्यास कलौयुगे ॥

धर्मार्थ - काम - मोक्षाणां साधनं वेदसंभतम् ॥१॥

श्रीव्यास उवाच - श्रृण्वंतु मुनयः सर्वे शीघ्रं संकल्पसाधनम् ॥

सकृदुच्चारमात्रेण भोगमोक्षविधायकम् ॥२॥

गौरीश्रृंगे हिमवतः कल्पवृक्षोपशोभिते ॥ दिव्यदीप्तमहारत्ने हेममंटपमध्यतः ॥३॥

रत्नसिंहासनासीनं प्रसन्नं परमेश्वरम ‍ ॥ मंदस्मितमुखांभोजंशंकरं प्राह पार्वती ॥४॥

पार्वत्युवाच - देवदेव महादेव लोकशंकर शंकर - मंत्रजालानि सर्वाणि यंत्रजालानि कृत्स्त्रशः ॥५॥

तंत्रजालान्यशेषाणि मया त्वत्तः श्रुतानि वै ॥ इदानीं द्दष्टुमिच्छामि विशेषाणि महीतले ॥६॥

इत्युदीरितमाकर्ण्य पार्वत्यासह शंकरः ॥ ययौ भूमंडलं द्दष्टुं गौर्यै चित्राणि दर्शयन ‍ ॥७॥

क्वचिद्विंध्याचलप्रांते महारण्ये सुदुर्गमे ॥ एधांस्याहर्तुमायांतं भिल्लं परशुधारिणम ‍ ॥८॥

बाध्यमानं महाव्याघ्रं नखदंष्ट्राभिलक्षितम् ॥ अतीत्य चित्रचरितं वज्रकायममारितम् ॥९॥

अप्रयत्नमनायासं अखिन्नं सुखतः स्थितम ‍ ॥ पलायंतं मृगं पश्वाध्व्याघ्रभीत्या पलायितम् ॥१०॥

एतदाश्वर्यमालोक्य पार्वती प्राहशंकरम ‍ ॥ किमाश्वर्यं किमाश्वर्यमग्रे शंभो प्रतीक्ष्यताम् ॥११॥

इत्युक्तः सा तया शंभुर्द्दष्वा प्राह पुराणवित् ‍ ॥ गौरी वक्ष्यामिते चित्रमवाङ्‍मानसगोचरम् ॥१२॥

अद्दष्टपूर्वमस्माभिर्नास्ति किंचिन्नकुत्रचित् ‍ ॥ मया सम्यक ‍ समेनैव वक्ष्यामि श्रृणु पार्वति ॥१३॥

अयं दूरश्रवा नाम भिल्लः परमधार्मिकः ॥ समित्कुश - प्रसूनानि कंद - मूल - फलादिकम् ‍ ॥१४॥

प्रत्यह विपिनं गत्वा समाधाय प्रयासतः ॥ प्रीतिपूर्वं मुनींद्रेभ्यः प्रयच्छति नवांछति ॥१५॥

तेपि तस्मिन्नतिदयां कुर्वंते सर्वमौनिनः ॥ दलादनो महायोगी वसन्नेव निजाश्रमे ॥१६॥

कदाचिदस्मरत्सिद्धं दत्तात्रेयं दिगंबरम् ॥ दत्तात्रेयः स्मर्तगामी प्रत्यहं संपरीक्षितुम ‍ ॥१७॥

तत्क्षणेनापि योगींद्रो द्त्तात्रेय उपांस्थतः ॥ तं द्दष्ट्वाश्वर्य - तोषाभ्यां दलदानमहामुनिः ॥१८॥

संपूजितं दत्तदेव अवधूतमुवाच तम् ॥ ममोपचारैस्संप्राप्तो दत्तात्रेयो महामुनिः ॥१९॥

स्मर्तृगामित्वमित्युक्त्वा किं वदंती परीक्षितुम ‍ ॥ मयाऽद्य संस्मृतोसि त्वमपचारोयमेव च ॥२०॥

द्त्तात्रेयो मुनिः प्राह मम प्रकृतिरद्दिशी ॥ अभक्त्या वाथवा भत्त्या यः स्मरेन्मामनन्यधीः ॥२१॥

तदंतिकमुपागम्य ददामि तदभीप्सितम् ॥ यदिष्टं तद्दृणष्वि त्वं यत्प्राप्तोहं त्वया स्मृतः ॥२२॥

दलादनमुनिः प्राह मया किमपि नोच्यते ॥ त्वच्चित्ते रोचते तन्मे प्रयच्छ मुनिपुंगव ॥२३॥

ममास्ति वज्रकवचं गृहाणेत्यवदन्मुनिः ॥ तथेत्यंगीकृतवते दलादमुनये मुनिः ॥२४॥

सवज्रकवचं प्राह ऋषि - च्छंदपुरस्सरम् ॥ न्यासं ध्यानं फलं तत्तत्प्रयोजनविशेषणम् ‍ ॥२५॥

ॐ अस्य श्रीवज्रकवचस्तोत्रमहामंत्रस्य वै ऋषिः दत्तात्रेयो ख्यातः ॥ छंदोनुष्टुप् ‍ प्रकीर्तितम् ॥

देवताप्यहमेवास्य द्रांबीजमिति कीर्तितम् ॥ आंशक्तिः क्रोंकीलकम् स्यदोमात्मा र्‍हीं मनो मम ॥

द्रांद्रींद्रूंद्रैद्रौंद्रः ॥ ॐ द्रां अंगुष्टकाभ्यांनमः ॥ ॐ द्रीं तर्जनीभ्यां नमः ॥ ॐ द्रूं मध्यमाभ्याम् नमः ॥

ॐ द्रैं अनामिकाभ्याम् नमः ॥ ॐ द्रौं कनिष्टिकाभ्याम् नमः ॥ ॐ द्रः करतलकरप्टष्ठाभ्याम् ‍ नमः ॥

ॐ द्रां त्द्ददयायनमः ॥ ॐ द्रीं शिरसेस्वाहा ॥ ॐ द्रूं शिखायैवौषट् ‍ ॥ ॐ द्रैं कवचायहुम् ॥

ॐ द्रौं नेत्रत्रयायवौषट् ‍ ॥ ॐ द्रः अस्त्रायफट् ‍ ॥ ॐ भूर्भुवः स्वरोम् इति दिग्बंधः ॥

दत्तप्रसादसिध्यर्थे जपे विनियोगः ॥ ध्यानम् - वाराणसीपुरस्नायी कोल्लापूरजपादरः ॥

माहुरीपुरभैक्षाशी सर्पशायी दिगंबरः ॥१॥

इंद्रनीलसमाकारश्वंद्रकांतिसमोद्विजः ॥ वैदूर्यसद्दशस्फूर्तिः अंचत्किंचिज्जटाधरः ॥२॥

स्त्रिग्धधावल्यदिग्धांगो इंद्रनीलकनीनिकः ॥ भ्रूपक्ष्म - श्मश्रुनैल्यांकः शशांकसद्दशाननः ॥३॥

हासनिर्जितनीहारः कंठनिर्जितकंचुकः ॥ मांसलांसो दीर्घबाहुः पाणिनिर्जितपल्लवः ॥४॥

विशालपीनवक्ष स्कः पद्मपाणितलोदरः मृदुलश्रोणिललितो विशालजघनस्थलः ॥५॥

रक्तारविंदसद्दशरमणीयपदाधरः ॥ चर्मांबरधरो योगी द्विषद्वारणदीक्षितः ॥६॥

सिद्धासनस्थोबलवान् ‍ ऋजुकायो हसन्मुखः ॥ वामहस्तेन वरदो द्क्षिणेनाभयप्रदः ॥७॥

बालोन्मत्तपिशाचामः क्वचिदुक्तं परीक्षितुम् ॥ त्यागी योगी महायोगी नित्यानंदो निरंजनः ॥८॥

सर्वरूपी सर्वदाता सर्वगः सर्वकालकः ॥ भस्मोध्दूलितसर्वांगो महापातकनाशनः ॥९॥

भुक्तिप्रदो मुक्तिदाता जपन्मुक्तिप्रदायकः ॥ एवं ध्यात्वानन्यचित्तो मद्वज्रकवचं पठेत् ‍ ॥१०॥

मामेव पश्यन् ‍ सर्वत्र स मया सह संचरेत् ‍ ॥ दत्तात्रेय उवाच - द्त्तात्रेय्यो शिरः पातु सहस्त्राराब्जसंस्थितः ॥११॥

फालं पात्वनसूयेयः चंद्रमंडलमध्यगः ॥ कूर्चं मनोमयः पातु हंक्षं द्विदलमध्यभूः ॥१२॥

ज्योतिरूपोक्षिणी पातु शद्वम् शब्दात्मकः कृतीः ॥ नासिकां पातु गंधात्मा मुखं पातु रसात्मकः ॥१३॥

जिव्हां वेदकरः पातु दंतोष्ट्रं पातु धार्मिकः ॥ कपोलावत्रिभूः पातु पात्वशेषं सदात्मभूः ॥१४॥

सर्वात्मा षोडशाराब्जस्थितश्वात्मावतद्नलम ‍ ॥ स्कंधौ चंद्रानुजः पातु भुजौ पातु कृतादिभूः ॥१५॥

जत्रुणी शत्रुजित्पातु पातु वक्षस्थळं हरिः ॥ कादिठांतद्वादशारपद्मगो मरुदात्मकः ॥१६॥

योगीश्वरेश्वरः पातु ह्रदयं ह्रदयेश्वरः ॥ पार्श्वौदूरः पार्श्ववर्ती पातु पार्श्वस्थितिर्मम ॥१७॥

हठयोगादियोगज्ञः कुक्षी पातु कृपानिधिः ॥ डकारादिफकारान्तदशारसरसीरुहे ॥१८॥

नाभिस्थळे वर्तमानो नाभिं वत्सात्मकोऽवतात् ‍ ॥ वकारादिलकारांतं क्षदलांबुजबोधकः ॥१९॥

जलतत्त्वमयोयोगो रक्षतां मणिपूरकम् ॥ सित्धासनसमासीन ऊरू सित्धेश्वरोऽवतात् ‍ ॥२०॥

वादिसांतचतुः पत्रसरोरुहनिबोधकः ॥ मूलाधारं महीरुपो रक्षाताद्वीर्यनिग्रही ॥२१॥

अर्षवद्वितयं पातु जानुन्यस्त करांबुजः ॥ जंघे पात्ववधूतेंद्रः पात्वंघ्री तीर्थपावनः ॥२२॥

सर्वांगं पातु सर्वात्मा पातु रोमाणि केशवः ॥ चर्म चर्मांबरः पातु रक्तं भक्तप्रियोऽवतात् ‍ ॥२३॥

मांसं मांसकरः पातु मज्जा सारात्मकोऽवतात् ‍ ॥ अस्थीनि स्थिरधीः पायात् ‍ मेदो वेदाः प्रपालयेत् ‍ ॥२४॥

शुक्लं सुखकरः पायात्संधींश्व सुद्दढाकृतिः ॥ मनोबुत्धिरहंकारं हृषीकेशात्मकोऽवतात् ‍ ॥२५॥

कर्मैद्रियाणि पात्वीशः पातु ज्ञानेंद्रियाण्यजः ॥ चंद्रो बंधूत्तमः पातु शत्रुभ्यः पातु शत्रुजित् ‍ ॥२६॥

गृहाराभ - धन - क्षेत्र - पुत्रा - दीन् ‍ शंकरोऽवतात् ‍ ॥ भार्यां प्रकृतिवत्पातु पश्वादीन ‍ पातु शार्ङभृत् ‍ ॥२७॥

प्राणान्पातु प्रधानज्ञो भूम्यादीन् ‍ भास्करोऽवतु ॥ सुखं चंद्रात्मकः पातु दुःखात्पातु पुरांतकः ॥२८॥

प्राच्यां विषहरः पातु पात्वाग्नेयां मखात्मकः ॥ याम्यां धर्मात्मकः पातु नैऋत्यां पातु वैरिजित् ‍ ॥२९॥

वाराहः पातु वारुण्यां वायव्यां प्राणदोऽवतात ‍ ॥ कौबेर्यां धनकृत्पातु पात्वैशान्यां महागुरुः ॥३०॥

ऊर्ध्वं पातु महासित्धः पात्वधस्ताज्जटाधरः ॥ रक्षाहीनं तु मे स्थानं रक्षत्वादिमुनीश्वरः ॥३१॥

एतन्मे वज्रकवचं यः पठेच्छृणुयादपि ॥ वज्रकायश्विरंजीवी दत्तात्रेयोहमब्रुवम् ॥३२॥

त्यागी योगी महायोगी सुखदुःखविवर्जितः ॥ सर्वतः सित्धसंकल्पो जीवन्मुक्तो भवेस्तमः ॥३३॥

इत्युत्क्वांतर्दधे योगी दत्तात्रेयो दिगंबरः ॥ दलादनोपि तज्जप्त्वा जीवन्मुक्तोद्य वर्तते ॥३४॥

भिल्लो दूरश्रवानाम तदानीं श्रुतवानिदमम् ‍ ॥ सकृच्छृवणमात्रेण शुद्धांगोह्यभवत्तदा ॥३५॥

इत्येवं वज्रकवचं दत्तात्रेयस्य योगिनः ॥ श्रुत्वाशेषं शंभुमुखात् ‍ पुनरप्याह पार्वती ॥३६॥

पार्वत्युवाच - एतत्कवचमाहत्म्यं वद विस्तरतो मम ॥ कुत्र केन कदा जप्तम् कियज्जप्यं कथं प्रभो ॥३७॥

उवाच शंभुस्तत्सर्वं पार्वत्यै विनियोजनम् ॥ श्रृणु पार्वति वक्ष्यामि समाहिततयाऽखिलम् ॥३८॥

धर्मार्थ - काम - मोक्षाणां इदमेब परायणम् ॥ हस्त्यश्व - रथ - पत्यादिसर्वैश्वर्यप्रदायकम् ॥३९॥

पुत्र - मित्र - कळत्रादिसर्वसंतोषसाधनम् ॥ वेद - शास्त्रादि विद्नां साधनं परमं मतम् ॥४०॥

संगीतशास्त्रसाहित्यं सत्कवित्वविधायकम् ॥ सर्वसंतोषकरणं सर्वदुःखनिवारणम् ॥४१॥

शत्रुसंहारकृच्छीघ्रं यशः - सुकृतवर्धनम् ॥ अष्टसंख्या महारोगान् ‍ सन्निपातास्त्रयोदश ॥४२॥

तृणवत्कुक्षिरोगांश्व विंशतिर्मेहरोगवान् ‍ ॥ अष्टादशापि कुष्टानि गुल्मान्यष्टविधानपि ॥४३॥

अशीतिर्वातरोगांश्व चत्वारिंशाश्वपैत्यकः ॥ विंशातिः श्लेष्मकारोगाः क्षय - चातुर्थिकादयः ॥४४॥

मंत्र - तंत्रप्रयोगोत्थशैलतंत्रादिनिर्मिताः ॥ ब्रह्मराक्षस - वेताळाः कूष्मांडादिग्रहोद्भवाः ॥४५॥

संघजा देशकालस्थाः यत्र यत्र यथोदिताः ॥ नवग्रहसमुद्भुताः महापातकसंभवाः ॥४६॥

सर्वे रोगाः प्रणश्यंति सहस्त्रावर्तना ध्ध्रुवम ‍ ॥ अयुतावृत्तिमात्रेण वंध्या पुत्रवती भवेत् ‍ ॥४७॥

अयुतद्वितय्यावृत्या अपमृत्युजयो भवेत् ‍ ॥ अयुतत्रयमात्रेण खेचरत्वं प्रजायते ॥४८॥

सहस्त्रादयुतादर्वाक् ‍ सर्वकर्माणि साधयेत् ‍ ॥ लक्षावृत्या भवत्येव कार्यसिद्धिर्नसंशयः ॥४९॥

सहस्त्रेणैव कार्याणि सिद्धिः स्यान्नात्र संशयः ॥ विषवृक्षस्य मूले तु तिष्ठन्यो दक्षिणामुखः ॥५०॥

कुरुते मासमात्रेण वैरिणं विकलें दियम् ॥ औदुंबरतरोर्मूले वृद्धिकामेन जप्यते ॥५१॥

श्रीवृक्षमूले श्रीकामैः तिंत्रिण्यां शांतिकामिभिः ॥ अश्वत्थमूले काम्यैश्व स्त्रीकामैः सहकारतः ॥५२॥

ज्ञानार्थं तुळसीमुळे गर्भगेहे सुतार्थिभिः ॥ धान्यार्थिभिस्तु सुक्षेत्रे पशुकामैस्तु गोष्ठके ॥५३॥

देवालये सर्वकामैस्तत्काले सर्वदेशतः ॥ नाभिमात्रजले स्थित्वा भानुमालोक्य यो जपेत् ‍ ॥५४॥

युद्धे वा शास्त्रवादे वा सहस्त्रेण जयो भवेत् ‍ ॥ कंठदघ्नजले रात्रौ यो वज्रकवचंपठेत् ‍ ॥५५॥

अथापस्मारकुष्ठादितापज्वरनिवारणम् ॥ यत्र येन पदा यश्वरतियोगी चिरायुजः ॥५६॥

इति श्रीस्कंदपुराणे दलदान - दत्तसंवादे दत्तात्रेयवज्रकवचं सपूर्णम् ॥२०॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP