श्रीदत्तात्रेयकल्पः - श्रीदत्तोपनिषत्

‘ श्रीदत्तात्रेयकल्प :’ अतिशय दुर्मिळ ग्रंथ असून याप्रमाणे श्रीदत्ताची पूजा केल्याने मानवाच्या सर्व विकृत बाधा नष्ट होतात .


अथ श्रीदत्तोपनिषत् ‍ ( पूर्वतापिनी . )

श्रीगणेशाय नमः ॥ हरिः ॐ भद्रंकर्णेभिः श्रृणुयामदेवाभद्रंपश्येमाक्षभिर्यजत्राः ॥

स्थिरैरंगैस्तुष्टुवांसस्तनूभिर्वेश्येम देवहितं यदायुः ॥ भद्रंकर्णेभिरिति शांतिः ३॥

ॐ चिन्मयं व्यापितं सर्वं आकाशं जगदीश्वरम् ‍ ॥ निर्विकल्पं स्वयं ब्रह्मा तस्याहं पंचमाश्रमम ‍ ॥१॥

निराकारं निराभासं निरालंबं निरंजनम् ‍ ॥ निःशब्द उच्यते ब्रह्म तस्याहं पंचमाश्रमम् ‍ ॥२॥

ब्रह्मचारी गृहस्थश्व वानप्रस्थो यतीश्वरः ॥ आश्रमाणां विभिन्नोहं तस्याहं पंचमाश्रमम ‍ ॥३॥

आश्रमाणां च सर्वेषां अस्ति नास्ति न चात्मनि ॥ भिन्नाभिन्नं नपश्यंति तस्याहं पंचमाश्रमम ‍ ॥४॥

आब्रह्मस्तंभपर्यंतं संपूर्णं परमात्मनः ॥ भिन्नाभिन्नं नपश्यंति तस्याहं पंचमाश्रमम ‍ ॥५॥

मनस्यं मनमध्यस्थं मनमायाविवर्जितम् ‍ ॥ मनसा मन आलोक्य तस्याहं पंचमाश्रमम ‍ ॥६॥

अगोचरं चैकब्रह्म तस्य देहे विलीयते ॥ निवर्तंते क्रियाः सर्वास्तस्याहं पंचमाश्रमम् ‍ ॥७॥

निरालंबपदं प्राप्तं यत्र ज्योतिर्लयं गतः ॥ निवर्तंते क्रियाः सर्वास्तस्याहं पंचमाश्रमम ‍ ॥८॥

स्वयं दाता स्वयं भोक्ता स्वयं देवो महेश्वरः निर्विकल्पं स्वयं ब्रह्म तस्याहं पंचमाश्रमम ‍ ॥९॥

क्वचिद्योगी क्वचिद्भोगी क्वचिन्नग्नः पिशाचवत् ‍ ॥ स्वयमात्मस्वरूपेण तस्याहं पंचमाश्रमम ‍ ॥ १०॥

अभिन्नमात्मनो रूपं जगदेतच्चराचरम् ‍ ॥ निर्विकल्पं स्वयं ब्रह्म तस्याहं पंचमाश्रमम ‍ ॥११॥

आत्मज्ञानं विना योगी ब्रह्मचारी कथं भवेत् ‍ ॥ गृही वा वानप्रस्थो वा यतिर्योगं विना नहि ॥१२॥

ॐ भद्रंकरणेभिः श्रृणुयामदेवा भद्रंपश्येमा क्षभिर्यजत्राः ॥ स्थिरैरंगैस्तुष्टुवा सस्तनूभिर्व्यश्येमदेवहितंयदायुः ॥

स्वस्तिनाइंद्रोवृद्धः श्रवाः ॥ ॐ शांतिः शांतिः शांतिः ॥ इति श्रीदत्तोपनिषत् ‍ पूर्वतापिनी समाप्ता ॥ ॥१४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP