TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

श्रीदत्तात्रेयकल्पः - श्रीदत्तकल्पः

‘ श्रीदत्तात्रेयकल्प :’ अतिशय दुर्मिळ ग्रंथ असून याप्रमाणे श्रीदत्ताची पूजा केल्याने मानवाच्या सर्व विकृत बाधा नष्ट होतात .


श्रीदत्तकल्पः

अथ श्रीदत्तकल्पः प्रारभ्यते .

श्रीगणेशाय नमः ॥ किरातरूपी भगवान् ‍ कदाचिदिरिजापतिः ॥ कदाचिदिष्टलाभेषु पार्वत्या पृष्ट ईश्वरः ॥१॥

त्वत्तः श्रुतानि सर्वाणि मंत्रजालानि कृत्स्त्रशः ॥ आदावभ्रमतीमंत्रः तत्पश्वाद्भद्रसावती ॥२॥

ततो धूमावतीमंत्रः ततो वाराहिको मनुः ॥ मंत्रोपि बगळो मुख्यो सर्वमंत्रोत्तमो मनुः ॥३॥

अष्टधायक्षिणीमंत्रास्सांगोपांगास्समीरिताः ॥ कातवीर्यार्जुनस्यापि मंत्रास्सांगमुदीरिताः ॥४॥

अपेक्षा वर्तते श्रोतुं दत्तात्रेयस्य योगिनः ॥ मंत्रान् ‍ फलप्रदांच्छीघ्रान्नियमैर्बहुळैर्विना ॥५॥

शबररूपी शंकर उवाच - श्रृणु वक्ष्यामि शबरी कबरीभरशोभिते ॥ समहितमना भूत्वा समाकर्णय तन्मनून् ‍ ॥६॥

न वै नियमबाहुल्यं तर्पणस्य बाहुल्यं तर्पणस्य च ॥ पूर्वसेवाप्रयासो वा नास्ति नास्त्येव सर्वदा ॥७॥

सर्वदा ध्यानयोगेन ब्राह्मणानां च भोजनात ‍ ॥ सर्वत्र तन्मयज्ञानात्तस्य चारित्रकीर्तनात् ‍ ॥८॥

मंत्रसित्धिर्भवेच्छीघ्रं वांछितार्थप्रदायिनी ॥ द्वादशाक्षरमंत्रश्व प्रोक्तः स्यात् ‍ षोडशाक्षरः ॥९॥

षडक्षरमनुः पश्वात्तत एकाक्षरो मनुः ॥ अष्टाक्षरमनुः पश्वाद्विंशद्वर्णमनुस्तथा ॥१०॥

अनुष्टुभं ततः पश्वान्मालामंत्रस्ततः परम् ‍ ॥ एवमष्टविधा मंत्रा दत्तात्रेयस्य योगिनः ॥११॥

शीघ्रमिष्टार्थदातारस्तत्रापि च कलौयुगे ॥ भोगीभवेत्सुभोगी च चिरजीवी च जायते ॥१२॥

तन्मंत्रजापको मर्त्यः अणिमाद्यष्टसित्धिमान् ‍ ॥ अंजनाकर्षणाद्दश्या द्वश्यवादौपयस्थितिम् ‍ ॥१३॥

दूरश्रुतिं दूरद्दष्टिं सुदूरगमनं तथा ॥ साक्षान्मधुमती शक्तिः प्रसन्नस्य प्रयच्छति ॥१४॥

पाताळलोकसंचारो बिलसित्धा प्रजायते ॥ महिम्ना खेचरत्वादिसंचारः सर्वकामदः ॥१५॥

सर्वत्र सर्वदा सर्वं वेत्ति ज्ञानप्रभावतः ॥ सप्तकोटिमहामंत्राः कलान्नर्हंति षोडशीम् ‍ ॥१६॥

इंद्रादयः प्रसन्नाः स्युः व्यासादिमनिपुंगवाः ॥ शक्तयश्व चतुःषष्टि प्रसन्नाःस्युः क्रमक्रमात् ‍ ॥१७॥

त्रयस्त्रिंशत्कोटिदेवाः प्रसन्नाः स्युस्ततः परम् ‍ ॥ शंभुः - स्वयंभुर्विष्णूनां सन्निधौ च दिनंचरेत् ‍ ॥१८॥

नरः स्त्रियोनुधावंति मोहितास्त्रिविधा स्त्रियः ॥ कार्यसित्धिमहिम्ना यो भवेत ‍ षोडशवर्षवान ‍ ॥१९॥

नासाध्यं विद्यते तस्य त्रिषु लोकेषु दुर्लभम ‍ ॥ यशस्वी महिमोपेतो जीवे दाचंद्रतारकम् ‍ ॥२०॥

हेमविद्याराजविद्या घुटिकासिद्धिसिद्धयः ॥ दत्तात्रेयमनुर्यस्य तस्य सिध्द्यंत्यसंशयः ॥२१॥

श्रीपार्वत्युवाचद्वादशार्णमनोद्धारमाचक्ष्व मम शंकर ॥ श्रीशंकर उवाच - आदौ प्रणवमुच्चार्य पाशबीजमथोद्धरेत् ‍ ॥२२॥

हृल्लेखामुद्धरेत्पश्वात्तत्पश्वान्मदनांकुशः ॥ एहीति पदमुच्चार्य दत्तात्रेयस्ततः परम् ‍ ॥२३॥

वन्हिजायां ततः पश्वान्मंत्रोयं द्वादशाक्षरः ॥ मंत्रराज इति ख्यातो दत्तात्रेयस्य योगिनः ॥२४॥

उद्धारज्ञानमात्रेण सर्वं सिध्यति मंत्रिणः ॥ पार्वत्युवाच - जपः कियान् ‍ कियान् ‍ होमः तर्पणं कियदुच्यते ॥

ब्राह्मणाः कति भोक्तव्याः समाचक्ष्व सविस्तरम् ‍ ॥२५॥

शंकर उवाच - द्वादशाक्षरसंख्याकजपात्सिध्यत्ययं मनुः ॥ चातुर्वर्णाधिकारोयं दत्तात्रेयमनुर्भवेत् ‍ ॥२६॥

गुरूपदेशमात्रेण मंत्रसिद्धिर्भवेध्द्रुवम ‍ ॥ सिद्धःसाध्यस्सुसिद्धारिः शोधना नात्र विद्यते ॥२७॥

पुस्तकं लिखितं द्दषा वृत्धानुज्ञापुरः सग्म् ‍ ॥ जप्तव्योयं महामंत्रः शीघ्रं सिध्यति पार्वति ॥२८॥

अर्क १२ संख्या सहस्त्रस्य होमसंख्या प्रकीर्तता ॥ साज्यपायसहोमेन वैष्णवाग्निसमाचरेत् ‍ ॥२९॥

होमायाः पूर्वसेवायाः काम्यहोम इहोच्यते ॥ आज्यं त्रिमधुरोपेतं वश्यजालादिकर्मणि ॥३०॥

पारिभद्रस्य पत्राणि तैलाक्तानि निरोधने ॥ विभीतपल्लवैरुष्ट्रारोमभिश्वाटनं भवेत् ‍ ॥३१॥

ग्रहधूमेन सित्धार्थेर्बीजैः कार्पाससंभवैः ॥ लशुनापिष्टसंयुक्तैः पापकर्मप्रणाशनम् ‍ ॥३२॥

लवणं मधुरद्दव्ययुक्तमाकृष्टकारणम् ‍ ॥ हरिद्राहरिताळैश्व दुष्टसंस्तंभनं भवेत् ‍ ॥३३॥

अष्टद्रव्यै रोचनाद्यैः शीघ्र्म दारिद्रयनाशनम् ‍ ॥ रक्तैश्व दूर्वमंदारकुसुमैर्मधुसंयुतैः ॥३४॥

राजवश्यं भवेच्छीघ्रं यावज्जीवार्थदायकम् ‍ ॥ भूतशांतिर्गुग्गुलाभिः रामठेनाथवा भवेत ‍ ॥३५॥

अपामार्गवटाहोमात्पंचगव्यसमन्वितात् ‍ ॥ कृत्यास्सर्वे विनश्यंति व्याधयोपि महाग्रहः ॥३६॥

दूर्वांकुरमृतावल्लीकांडानि चतुरंगुलम् ‍ ॥ गोघृतानि नियुक्तानि सर्वरोगप्रशांतये ॥३७॥

एरंडकांडैराज्याक्तेः गणवश्यः प्रजायते ॥ ब्रह्मवृक्षसमिद्भिस्तु द्विजवश्यः प्रजायते ॥३८॥

चूतपल्लवहोमेन वेश्यावश्यं प्रजायते ॥ सिध्यंति सर्वकर्माणि गवामाज्यैस्तु रोचनैः ॥३९॥

सिध्यंति रक्तवस्त्राणि जपाकुसुमहोमतः ॥ चांपेयकुसुमैः पीतेः केतकीकुसुमैस्तथा ॥४०॥

विष्णुक्रांतिप्रसूनैश्व नीलवस्त्राणि साधयेत् ‍ ॥ तत्तद्वर्णप्रसूनैश्च तत्तद्वर्णसुखागमः ॥४१॥

ये ये यद्यद्यथा चित्रे भावयेत्तत्तथा भवेत् ‍ ॥ श्रृणु गुह्यतरं लोके षट्‍कर्मविधिसाधनम् ‍ ॥४२॥

वश्ये तु चतुरस्त्रं स्यादाकर्षे तु त्रिकोणकम् ‍ ॥ स्तंभने वर्तुळं देवी षट्‍कोणं नाशनं स्मृतं ॥४३॥

पंचकोणं च विद्वेषे तथैवोच्चाटन स्मृतम् ‍ ॥ ज्ञात्वा त्रिवर्षपर्यंतं पापकर्मणि निष्ठितम् ‍ ॥४४॥

तथा प्रयोगं कुर्वीत तथापि नहि मारणम् ‍ ॥ देव - ब्राह्मण - बाल स्त्री - धन - धान्य - पशुक्षयम् ‍ ॥४५॥

एतदेकस्य राष्ट्रस्य परदेशाधिपेनचेत् ‍ ॥ तदा तन्मारणं कुर्यादो - ब्राह्मणहिताय वै ॥४६॥

द्वेषमात्रेण कर्तव्यं स्वयमेव विनश्यति ॥ दत्तात्रेयस्स भक्ताय शांतस्सर्वहितैषिणे ॥४७॥

परघातं नकुर्वीत दयामेव प्रकुर्वते ॥ कोपे कदाचिज्जातेपि शांतिमायाति तत्क्षणात् ‍ ॥४८॥

दत्तात्रेयो महायोगी शांतिमेव प्रयच्छति ॥ कोपेनतीव्रयोगः स्यात्तस्य कोपो नविद्यते ॥४९॥

दत्तात्रेयसमो भूत्वा योगी चरति मंत्रवान् ‍ ॥ प्रयोगमंत्रसामर्थ्यं ज्ञापनार्थमुदीरितम् ‍ ॥५०॥

तर्पणस्य च वै संख्या सहस्त्रं द्विशतोत्तरम् ‍ ॥ शतं विंशति संयुक्तं संख्या स्याद्विजभोजने ॥५१॥

मंत्रसिद्धिर्भवेदेव जपात्धोमाच्च तर्पणात् ‍ ॥ ब्राह्मणानां भोजनैर्वा शीघ्रं स्यान्मंत्रसाधनम् ‍ ॥५२॥

स्पर्शादिमोक्षपर्यंतं जप्त्वा हवनभोजनैः ॥ मंत्रसित्धिर्भवेत्सद्यो तन्मयज्ञानतोपि वा ॥५३॥

श्रीपार्वत्युवाच - यंत्रोत्धारः कथं तस्य वद विस्तरतो विभो ॥ पूजाविधानमप्यस्य सम्यग्वद महेश्वर ॥५४॥

ईश्वर उवाच - यंत्रोद्धारं प्रवक्ष्यामि सावधानमना श्रृणु ॥ आदौ वृत्तं समालिख्य चतुरस्त्रं ततःपरम् ‍ ॥५५॥

ततः पश्वादष्टदळं विलिखेद्भूपुरं ततः ॥ वेदादिं विलिखेद्व्टत्ते तद्वीजं प्रणवांतरे ॥५६॥

चतुर्दळेषु चत्वारि वेदादीनि समालिखेत् ‍ ॥ एह्यादीन्यष्टबोजानि दळेष्वष्टसु विन्यसेत् ‍ ॥५७॥

तत्संधौ सर्वमंत्राणां समंतात्परिपूरयेत् ‍ ॥ अकारादिक्षकारांतैर्बीजवन्मातृकाक्षरैः ॥५८॥

अनुलोम - विलोमाभ्यां वेष्टयेच्च दळाष्टकम् ‍ ॥ भूपुरं वेष्टयेद्वीजैर्भूबीजैर्दशभिः प्टथक् ‍ ॥५९॥

वृत्तं तु प्रणवेनैव वेष्टयेच्च प्रयत्नतः ॥ चतुर्दळं वेष्टयेच्च बीजैः पाश - गजां - कुशैः ॥६०॥

एतद्यंत्रं मया प्रोक्तं रहस्यं सांप्रदायकम् ‍ ॥ एतद्यंत्रस्य महिमा वर्ण्यते श्रूणु पार्वति ॥६१॥

श्रीपार्वत्युवाच - वर्ण्यतां महिमा पश्वात्पूर्वं बीजाक्षरं वद ॥ द्वादशाक्षरमंत्रस्य न्यास - ध्यानं च किं वद ॥६२॥

शंकर उवाच - बीजोद्धारं प्रवक्ष्यामि दत्तात्रेयस्य योगिनः ॥ दक्षिणामूर्तिबीजं च रामबीजेन संयुतम् ‍ ॥६३॥

मिळित्वैकाक्षरं ज्ञेयं बिंदु - नाद - कला - न्वितं ॥ एतद्वीजं मया प्रोक्तं ब्रह्मा - विष्णु - शिवात्मकम् ‍ ॥६४॥

वेदव्यासेन कथितं प्रकारांतरमुच्यते ॥ द्त्तस्यादिर्महाग्राह्याः आत्रेयस्यादिमः स्मृतः ॥६५॥

तत्रस्थ रेफसंयुक्तं कळा निधिसमन्वितम् ‍ ॥ दत्रात्रेयाक्षरं प्रोक्तं साक्षाद्विष्ण्वात्मकं महत् ‍ ॥ ६६॥

बीजोद्धारो मया प्रोक्तो नदेयो यस्यकस्याचित् ‍ ॥ द्वादशाक्षरमंत्रस्य न्यासं वक्ष्यामि तच्छृणु ॥६७॥

द्वाभ्यां द्वाभ्यां पुनर्द्वाभ्यां चतुर्भिश्व ततः परम् ‍ ॥ पुनर्द्वाभ्यां प्रकुर्वीत पंचांगन्यास ईरितः ॥६८॥

उपयुक्तेन बीजेन षडंगान्यथवा क्रियाः ॥ एवं न्यासविधिं कृत्वा ततो ध्यानं समाचरेत् ‍ ॥६९॥

श्लोकम् ‍ ॥ व्याख्यामुद्रां करसरसिजे दक्षिणे संदधानो जानून्यस्तापरकरसरो जातवामोन्नतांगः ॥

न्यासध्यानात्सखपरवशादर्धमामीलिताक्षो दत्तात्रेयो भसितधवळः पातु नः कृत्तिवासाः ॥१॥

एवं ध्यात्वा समाधाय चित्तचिंतितदायिनम् ‍ ॥ सप्तावरणसंयुक्तं द्त्तात्रेयं प्रपूजयेत् ‍ ॥७०॥

तत्रावरणमाद्यं स्यादंगैः षड् ‍ भिर्यथाक्रमात् ‍ ॥ वन्हीशरक्षो - वाय्वादीन् ‍ प्टष्ठेष्वंगानि पुजयेत् ‍ ॥७१॥

ऋग्यजुः सामाथर्वैश्व इतिहास - पुराणकैः ॥ मीमांसया च न्यायेन द्वितीयावरणं यजेत् ‍ ॥७२॥

सरस्वती गणपतिः शुकश्वापि सुमंतुना ॥ जैमिन्याख्येन मुनिना वैशंपायनमौनिना ॥७३॥

पैलेन गोभिलेनापि तृतीयावरणं यजेत् ‍ ॥ कश्यपोत्रिर्भरद्वाजः विश्वामित्रश्व गौतमैः ॥७४॥

जमदग्निवसिष्ठाभ्यां व्यासेन च चतुर्थकम् ‍ ॥ अणिमा महिमा चैव गरिमा लघिमा तथा ॥७५॥

प्राप्तिः प्राकाम्यमीशित्वं विशित्वं पंचसे यजेत् ‍ ॥ मत्स्येंद्रकं दळेंद्रं च गोरक्षं गोगणेश्वरम् ‍ ॥७६॥

नागार्जुनं मेघनादं भुजंगं कुरुनायकम् ‍ ॥ यजेदरुणवीर्याख्यान् ‍ नंदनाथपुरः सरान् ‍ ॥७७॥

षष्ठेप्यावरणे सिद्धान्नवनाथान्सभैरवान ‍ ॥ इंद्राग्नि - यम - नैऋत्य - वरुणानिला - यक्ष - पान् ‍ ॥७८॥

ईशानं च यजेद्दिक्षु सप्तमावरणे सुधीः ॥ सप्तावरणसंयुक्तं द्त्तात्रेयं मुनीश्वरम् ‍ ॥७९॥

सकृध्यायन्नर्चयन्वा योगी भवति मंत्रवित् ‍ ॥ ध्यानभेदात्फलं भिन्नं ध्यानभेदान्वदामि ते ॥८०॥

जपापुष्पारुणाकारो जटापल्लवशोभितः ॥ तांबुलांचन्मुखीसाक्षाद्वव्हस्त्रो वश्यकृद्युवा ॥८१॥

शूलं दोर्भ्यां समादाय भित्वा दिक्षु विनिक्षिपेत् ‍ ॥ नानावर्णश्व भृकुटीः क्रूरास्यो द्वेषकारकः ॥

वाय्वस्थः कृष्णरूपस्थः तमेवं चालयन्यजेत् ‍ ॥८२॥

ज्याघातैः पादघातैश्व शत्रोरुच्चाटकारकः ॥ तिष्ठन ‍ जानुयुगेनैव नम्रपाणियुगे समे ॥८३॥

कंठे बध्वा रिपून् ‍ हंता ध्येयः कर्मणि मारणे ॥ सपाशांकुशमध्यस्थो रक्तनानाविभुषणम् ‍ ॥८४॥

साध्यं नयंतं भिन्नाग्रे छायेवाकृष्टकर्मणि ॥ पीतं पीतांकुशं पीतपुष्पं पीतविभूषणम् ‍ ॥८५॥

पीतालेपं द्विषड् ‍ जिव्हाधरं स्तंभकरं स्मरेत् ‍ ॥ श्रीपार्वत्युवाचपूर्वं त्वया यंत्रराजं तद्यंत्राधिक्यकीर्तनम् ‍ ॥८६॥

तत्सर्वं सम्यगाचक्ष्व सर्वे जीवंतु जंतवः ॥ शिव उवाच - एतद्यंत्रस्य माहात्म्यं नाहं शक्नोमि वर्णितुम् ‍ ॥८७॥

तथापि किंचिद्व क्ष्यामि यथा ज्ञातं यथा श्रुतम् ‍ ॥ वेदव्यासेन कथितं तत्सर्वं कथयामि ते ॥८८॥

भुर्जे वा ताडपत्रे वा पाषाणे वा वटेऽपि वा ॥ रजते वा सुवर्णे वा नागे वा वंगकेऽपि वा ॥८९॥

महीतले वा भित्तौ वा यंत्रं सांगं समालिखेत् ‍ ॥ अष्टगंधैरष्टपिष्टैरष्टद्रव्यैः सितेतरैः ॥९०॥

रक्तश्वेतैश्चित्रवर्णैस्तत्र पत्रस्वरूपतः ॥ सांप्रदायं गुरुमुखात्सम्यग्ज्ञात्वा समालिखेत् ‍ ॥९१॥

नयुक्तितो नैव मत्या कुर्यात्कृत्वाऽशुभं व्रजेत् ‍ ॥ गुरुहीनं च यत्किंचिन्नकर्तव्यं कदाचन ॥९२॥

कलशे निक्षिपेद्यंत्रं क्षीरमध्येऽथवा जले ॥ तज्जलात्सेचनात्क्षीरपानादस्य फलं श्रृणु ॥ ९३॥

गुदरोगान्नाभिरोगानक्षिरोगांश्व त्द्दद़तान् ‍ ॥ कंठरोगान् ‍ दंतरोगान् ‍ श्रोत्ररोगान् ‍ द्दगाश्रितान् ‍ ॥९४॥

नासारोगान् ‍ कर्णरोगान् ‍ शिरोरोगान् ‍ कचाश्रितान् ‍ ॥ त्वग्रोगो रक्तरोगो वा मांसरोगास्थिरोगकाः ॥९५॥

मज्जारोगाश्व मेदो वा शुक्लरोगाविदुर्भवाः ॥ नश्यंति सकलान् ‍ रोगान् ‍ सत्यमेतद्वदामि ते ॥९६॥

भूचराः खेचराश्वापि यक्ष - रक्ष - पिशाचकाः ॥ ब्रह्मराक्षस - वेताळाः कूष्मांडा भैरवादयः ॥९७॥

उक्तानुक्ताश्व सर्वे वै अथर्वणसमुद्भवाः ॥ यंत्रधारणमात्रेण सर्वे नश्यंत्यसंशयम् ‍ ॥९८॥

हस्त्यश्वरथपादातं यंत्रयुग्मं च दर्शनात् ‍ ॥ पलायंते क्षणेनैव या वंध्या पुत्रवद्भवेत् ‍ ॥९९॥

सर्वशांतिकरं पुण्यं सर्वपापप्रणाशनम् ‍ ॥ सर्वकामप्रदं चापि सर्वोपद्रवनाशनम् ‍ ॥१००॥

राजानो दासतां यांति शत्रवो मित्रतां गताः ॥ वन्हयः शीततां यांति दत्तात्रेयः प्रसीदति ॥१०१॥

वृत्तषट्‍कोणाष्टपत्रचतुष्टाशाश्रिसुस्वरैः ॥ प्राणं दद्यात्धनं दद्यान्मानं दद्यादथापि वा ॥१०२॥

पुत्रान् ‍ दद्यात्पशून्दद्यान्नदद्यात ‍ षोडशाक्षरम् ‍ ॥ अवाच्यमपि वक्ष्यामि त्वमर्धांगं ममापि यत् ‍ ॥१०३॥

दरिद्रायातिशांताय नित्यधर्मपराय च ॥ प्राणहिंसाविहीनाय सर्वजीवदयाळवे ॥१०४॥

राग - द्वेषविहीनाय परस्त्रीविमुखात्मने ॥ मंत्रे गुरौ देवतायां विश्वासाधरशालिने ॥ १०५॥

षोडशाक्षरमंत्रोयं देयोन्यस्मै कदाचन ॥ तारमादिं समुच्चार्य ततोवाग्भवमुच्चरेत् ‍ ॥१०६॥

कामबीज त्रिधा कुर्याज्जातित्रितयसंयुतम् ‍ ॥ भुवने शीं तथा कुर्यात्तत्तु जातित्रयान्वितम् ‍ ॥१०७॥

चंद्रबीजं विसर्गांतं नवमं परिकीर्तितम् ‍ ॥ ॐ दत्तात्रेयसंभवे ॥ तारवाग्भववीजाभ्यां द्वाभ्यां त्द्ददयमाचरेत् ‍ ॥१०८॥

कामबीजैस्त्रिभिः शिर्षं हृल्लेखाभिस्त्रिभिः शिखाम् ‍ ॥ चंद्रबीजेन कवचं अस्त्रं दत्तादिसप्तभिः ॥१०९॥

एवं पंचांगकं न्यासं कृत्वा ध्यानं समाचरेत् ‍ ॥ अथ ध्यानं प्रवक्ष्यामि सर्वकामफलप्रदम् ‍ ॥११०॥

येन विज्ञानमात्रेण सिद्धिः स्यात्सर्वसंपदः ॥ ध्यानं - मंदारमूले मणिपीठसंस्थं सुवर्णदानैकनिबद्धदीक्षम् ‍ ॥

ध्यायेत्परीतैः नवनाथसिध्धैः दारिद्रयदावानलदेवमेघैः ॥१११॥

एवं ध्यात्वा जपेन्मंत्रं मंत्राक्षरसहस्त्रकं ॥११२॥

तद्दशांशो भवेत्धोमः तद्दशांशं तु तर्पणम् ‍ ॥ तद्दशांशं भोजनं च मंत्रसिद्धिः प्रजायते ॥११३॥

सिद्धिसिद्धिर्भवेत्तस्य नरसिद्धिः प्रजायते ॥ ये चरंति च सर्वत्र चिरजीवी भवन्ति च ॥११४॥

( होमादिसर्वंद्वादशाक्षरवत् ‍ ) यंत्रोद्धारं प्रवक्ष्यामि सर्वसिद्धिप्रदायकम् ‍ ॥ त्रिकोणं विलिखेत्पूर्वं षट्‍कोणं विलिखेत्तत्तः ॥११५॥

अष्टपत्रं लिखेत्पद्मं ततः पार्थिवमंड़लम ‍ ॥ तारावाग्भवतद्विंदून् ‍ त्रिकोणेषु च वै लिखेत् ‍ ॥११६॥

धारणादस्य यंत्रस्य नानाविषविनाशनम् ‍ ॥ अलर्ककीटशूकाहिमुखजंगमजं विषम् ‍ ॥११७॥

स्थावरं बीजनिर्यासं फलवालुकमूलजं ॥ योगजं कृत्रिमं चैव यद्यदन्यन्महाविषम् ‍ ॥११८॥

नबाधते यंत्रवंतं यंत्रसिक्तांबुनाऽथवा ॥ बालग्रहादयस्सर्वे यंत्रं द्दष्टवा विवासिताः ॥११९॥

निधिनिक्षेपसंरक्षमहाग्रहपलायनम् ‍ ॥ अनुक्तं यद्यदस्त्यद्य तत्सर्वं द्वादशार्णवत् ‍ ॥१२०॥

षडक्षरमनु वक्ष्ये श्रृणु देवि प्रयत्नतः ॥ आदौ प्रणवमुच्चार्य श्रीबीजं तदनंतरम् ‍ ॥१२१॥

मायाबीजं ततः पश्वात्कामबीजं ततःपरम् ‍ ॥ भूबीजं तु ततःपश्वाद्दत्तबीजं ततःपरम् ‍ ॥१२२॥

अयं षडक्षरो मंत्रो रहस्यस्तव ईरितः ॥ षड्‍बीजैश्व षंडगानि शषं पूर्ववदाचरेत् ‍ ॥१२३॥

लक्षमात्रं पुनश्वर्यात्ततः कार्याणि साधयेत् ‍ ॥ श्लो० - उत्तानके करतलेप्यपसव्यसव्ये सोपानपर्वसद्दशे उपरि स्वनाभेः ॥

आस्थाय चर्मवसनं भसितांगरागंमंत्रेण सेतुभुजरक्तजटाकलापम् ‍ ॥१॥

एवं ध्यानं मया प्रोक्तं सर्वसंपत्प्रदायकम् ‍ ॥१२४॥

अस्यावरणभेदोस्ति वक्ष्येऽहं श्रृणु पार्वति ॥ लक्ष्मीनारायणौ प्राच्यां दक्षिणे पार्वतीश्वरौ ॥१२५॥

पश्विमे रतिकंदर्पौ भूवराहौ तदुत्तरे ॥ एवमावरणोपेतं चक्रवर्तित्वदायकम् ‍ ॥१२६॥

अष्टादशादिद्वीपानामाधिपत्यप्रदायकम् ‍ ॥ एवं सावरणं ध्यायेत्सर्वं सिध्यति तत्क्षणात् ‍ ॥१२७॥

उच्चरेन्मनसा मंत्रं सर्वदा सर्वकामदम् ‍ ॥ नारायणो जगत्कर्ता वेत्ति माहात्म्यमस्य वै ॥१२८॥

बहुना किं प्रलापेन नास्ति तत्सद्दशो मनुः ॥ सर्वं होमादिकं कार्यं द्वादशाक्षरमंत्रवत् ‍ ॥१२९॥

यंत्रमस्य प्रवक्ष्यामि त्रिकोणं पूर्वमालिखेत् ‍ ॥ षट्‍कोणं विलिखेत्पश्वात्रिकोणे प्रणवं लिखेत् ‍ ॥१३०॥

षट्‍कोणे मंत्रमखिलं तत्संधिष्वंगमंत्रकान् ‍ ॥ एतद्यंत्रस्य माहात्म्यं वेत्ति हैहयनायकः ॥१३१॥

एतन्मंत्रेण यंत्रेण कार्तवीर्यो महानभूत् ‍ ॥ एतद्यंत्रं विनिक्षिप्तं जलस्य स्त्रान - पानतः ॥ १३२॥

प्रोक्षणादेव नश्यंति गदाश्शिथिलकादयः ॥ ईतिबाधा विनश्यंति यंत्रं यत्रस्थितं ततः ॥१३३॥

यं यं कामयते सम्यक् ‍ तं तमाप्नोत्यसंशयः ॥ एकाक्षरमनुं वक्ष्ये बीजमेकाक्षरो मनुः ॥१३४॥

षडंगान्यत्र योज्यानि बीजादक्षरयोगतः ॥ ध्यायं - ध्यानं वक्ष्ये शैलपुत्री सर्वदा सर्वकामदम ‍ ॥१३५॥

योगारूढं योगपद्मं निवीतं हस्तद्वंद्वं जानुयुग्मं प्रसार्य ॥ अंसाग्रस्तद्रक्तचंचज्जटाकं दत्तात्रेयं भावयेद्वीक्षमाणम् ‍ ॥१॥

एवं ध्यात्वा सदा देवि गच्छन् ‍ तिष्ठन् ‍ भजन् ‍ जपन् ‍ ॥ जिघ्रन् ‍ पश्यन् ‍ स्वपन् ‍ श्रृण्वन् ‍ वदन् ‍ ध्यायन् ‍ समर्पयन् ‍ ॥१३६॥

एवं ध्यानजुषां नृणां दत्तात्रेयोनुधावति ॥ षडक्षरस्य यद्यंत्रं एकाक्षरमनोश्व तत् ‍ ॥१३७॥

द्वादशाक्षरवत्सर्वं कुर्यान्मंत्रं समाहितः ॥ अष्टाक्षरमनुं वक्ष्ये तद्वीजं क्रों ततः परम् ‍ ॥१३८॥

नमश्शब्दसमायुक्तं विदुरष्टाक्षरो मनुः ॥ न्यास - ध्यानादिकं सर्वं एकाक्षरमनोरिव ॥१३९॥

एकाक्षरमनोरेव यंत्रमष्टदळादिकम ‍ ॥ जपमष्टसहस्त्राणि पुरश्वरणसिद्धये ॥१४०॥

विश्वदर्पणमनुं वक्ष्ये षोडशाक्षरमंत्रतः ॥ नमः प्राक श्रीविष्णवेति विंशद्वर्णात्मको मनुः ॥१४१॥

षोडशाक्षरवत्सर्वं जप - होमार्चनादिकम् ‍ ॥ षोडशाक्षरयंत्रं यद्विश्वदर्पणमनोरपि ॥१४२॥

अधिकं किंचिदस्त्यस्य पश्वाद्दादशपत्रकम् ‍ ॥ अष्टाश्रपत्र नास्त्यत्र किंतु द्वादशपत्रकम् ‍ ॥१४३॥

अनुष्टुभमनुं वक्ष्ये सर्वमंत्रोत्तमोत्तमम् ‍ ॥ दत्तात्रेयपदं पूर्वं ततो हरिपदं वदेत ॥१४४॥

ततः कृष्णपदं वाच्यं उन्मत्ताख्यमतः परम् ‍ ॥ आनंददायकं चैव दिगंबरपदं ततः ॥१४५॥

ततो मुनिपदं वाच्यं ततो बालपदं वदेत् ‍ ॥ पिशाचपदमुच्चार्य ज्ञानसागर इत्यतः ॥१४६॥

सर्वाणि संबुध्यन्तानि पदान्येतानि कीर्तयेत ॥ अयमानुष्टुभो मंत्रो सर्वमंत्रपुरातनः ॥१४७॥

सर्वमंत्रप्राणदायी सर्वमंत्रैकसाधनः ॥ सकृत्स्मरणमात्रेण सर्वकार्यप्रसिद्धितः ॥१४८॥

पार्वत्युवाचछंदोऋषिं देवतां च न्यासं ध्यानं क्रमाद्वद ॥ छंदांसि पूर्वमंत्राणां सम्यग्वद महेश्वर ॥१४९॥

ईश्वर उवाच - सर्वेषांपूर्वमंत्राणां गायत्रीछंद ईरितं ॥ ऋषिः सर्वत्र शबरो महारुद्रः प्रकीर्तितः ॥१५०॥

अस्यानुष्टुभमंत्रस्य न्यासं वक्ष्ये श्रृणु प्रिये ॥ पादाभ्यां प्रणवादिभ्यां द्वाभ्यां द्वाभ्यां क्रमान्यसेत् ‍ ॥१५१॥

वन्हिजाया समेताभ्यां पंचांगन्यासमारभेत् ‍ ॥ ध्यानं वक्ष्यामि देवेशि नानाभीष्टप्रदायकम् ‍ ॥१५२॥

ध्यानमात्रेण सिध्यंति चिंतिताभीष्टसंपदः ॥

ध्यानं - काशी कोल्ला माहुरी सह्यकेषु स्नात्वा जप्त्वा प्राश्य शेतेऽन्वहं यः ॥

दत्तात्रेयः तत्क्षणात्सर्वगामी त्यागी भोगी दिव्ययोगी दयाळुः ॥१॥

ध्यानमुक्तंमया देवि यंत्रमस्य प्रवक्ष्यते ॥१५३॥

त्रिकोणमथ षट्‍कोणमष्टपत्रमतः परम् ‍ ॥ द्वादशारं षोडशारं विंशत्यारमतःपरम् ‍ ॥१५४॥

द्वात्रिंशद्दळपत्रं च ततस्त्रिवलयं लिखेत् ‍ ॥ भूपुरं द्वितयं पश्वादष्टवज्रविभूषितम् ‍ ॥१५५॥

त्रिकोणे विलिखेद्वीजम् ‍ प्रणवेनैव वेष्टयेत् ‍ ॥ षडक्षरं तु षट्‍कोणे मायाबीजेन वेष्टयेत् ‍ ॥१५६॥

लिखेदष्टदळे पद्मे अष्टाक्षरमनुत्तमम् ‍ ॥ वेष्टयेत्कामबीजेन पद्ममष्टदळं सुधीः ॥१५७॥

द्वादशारे द्वादशार्णम् ‍ रमाबीजेन वेष्टयेत् ‍ ॥ षोडशारे तु विलिखेत् ‍ षोडशाक्षरकं मनुं ॥१५८॥

कळाभिर्वेष्टयेत्सम्यक् ‍ षोडशारं सरोरुहम् ‍ ॥ विंशत्यारे तु विलिखेद्विंशद्वर्णात्मकं मनुम् ‍ ॥१५९॥

वेष्टयेद्रसबीजेन विंशत्यारं सरोरुहाम् ‍ ॥ द्वात्रिंशद्दळपद्मे तु लिखेदानुष्टुभं मनुम् ‍ ॥१६०॥

हलभिर्वेष्टयेत्पद्मं त्रिंशद्दळसमन्वितम् ‍ ॥ मालामंत्रं ततो लिख्यादंतरे लेखयोर्द्वयोः ॥१६१॥

तत्सर्वं वेष्टयेत्पश्वात्पाशांकुशयुगेन वै ॥ भूपुरे विलिखेत्पश्वाच्चतुर्धाष्टाक्षरान् ‍ दश ॥१६२॥

दिक्पालबीजान् ‍ विलिखेत्प्राणस्थापनमाचरेत् ‍ ॥ जपं कुर्याद्धि हवनं कुर्याद्वाह्मणभोजनम् ‍ ॥१६३॥

गंधानुलेप - वसन - भूष - तांबूल - दक्षिणैः ॥ एवं कृत्वाऽभ्यर्च यंत्रं दत्तात्रेयस्य योगिनः ॥१६४॥

वंदारुजनमंदारं वांछितार्थफलार्णवम ‍ ॥ भवारण्यमहादावनिर्वापणबलाहकम् ‍ ॥ १६५॥

महाघहरणं पुंसां महाव्याधिनिवारणम् ‍ ॥ महाग्रहोच्चाटनं च महाश्रेयस्करं परम् ‍ ॥१६६॥

मैलामरेणुकाकाक - घूक - वारणबाहुभिः ॥ शिथिले कीटमधुभिः वल्मीकैः संघतो गतः ॥१६७॥

देशागतैः शुभप्राप्तैः कालप्राप्तैरघागतैः ॥ दुर्निमित्तैः दुष्टगतैः यैरघाभिर्विनश्यति ॥१६८॥

कीर्तनाच्छ्रवणाध्ध्यानाल्लेखनाद्धारणक्षणात् ‍ ॥ यं यं कामयते कामं तं तमाप्रोत्यसंशयः ॥१६९॥

भुजमूले शिरोदेशे कंठे वा श्रवणेऽपि वा ॥ पट्टणे वा ग्रहे सौधे ग्रामे वाऽरामतोपि वा ॥१७०॥

कूपे वाप्यथ गोष्ठे वा क्षितौ वा धान्यराशिषु ॥ ध्वजाग्रे वा गजाश्वे वा आज्यभांडे मुखेऽपि वा ॥१७१॥

पुत्तळे मस्तक वाऽपि द्त्तयंत्रं विधीयते ॥ तत्तत्सम्यग्भवेत्कार्यं तत्तदापन्निवारणम् ‍ ॥ १७२॥

एवं यंत्रं मया प्रोक्तं मालामंत्रेष्वयं क्रमः ॥ यंत्रोद्धारस्य कर्तव्यो मालामंत्रमिहोच्यते ॥१७३॥

मालामंत्रमहं वच्मि सकृदुच्चारणार्थदम् ‍ ॥ एकवारोच्चारणेन मंत्रेणाखिलसिद्धयः ॥१७४॥

नपुनरुच्चारणक्लेशो नात्यंतनियमोऽथवा ॥ अतिध्यानप्रयासो वा ह्यत्यंतहवनक्षतिः ॥

प्रत्यहं दशधोच्चारो द्त्तात्रेयायते भुवि ॥१७५॥

इति श्रीदत्तकल्पः समाप्तः

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:52:57.4600000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

रोचन

  • n. स्वारोचिष मन्वंतर का इंद्र, जो भागवत के अनुसार यज्ञ एवं दक्षिणा का पुत्र था । 
RANDOM WORD

Did you know?

हिंदू धर्मियांत मृत माणसाचा दहावा, तेरावा आणि चौदावा कां करतात?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.